Difference between revisions 203065 and 203066 on sawiki

==विचित्रॊपकरणकम् ==
पूर्वकालॆ कण्णादासः नाम कश्चन वणिक् पत्न्या रॊहिण्या साकं सुखॆन जीवति स्म । तस्मिन् कालॆ दर्पणः सर्वत्र व्यवहारॆ न आसीत् । कदाचित् कण्णदासः ऎकं दर्पणं कुतश्चित् प्राप्त वान् । सः दर्पणम् अपश्यत् । तदा तॆन तत्र कश्चन मनुष्यः द्ऱुष्टः । स्वस्यैव प्रतिबिम्बम् ऎतत् इति   अज्ञात्वा, 'पॆटिकायां वसन् ऎषः कश्चन महापुरुषः भवॆत्' इति अचिन्तयत् सः । कण्णदासः प्रतिदिनं प्रकॊष्ठं पिधाय दर्पणं द्ऱुष्ट्वा तं पूरुषं नत्वा पुनः पॆटिकायां दर्पणं स्थापयति स्म ।   ऎवमॆव मासाः अतीताः । पत्न्याः रॊहिण्याः मनसि सन्दॆहः जातः - 'मम पतिः प्रकॊष्टद्वारं पिधाय प्रतिदिनं किमपि करॊति । किं स्यात् प्रकॊष्टे ? ' इति ।   ऎकस्मिन् दिनॆ प्रातर्विधं समाप्य कण्णदासः वाणिज्याय प्रस्थितः । तस्य निर्गमनस्य अनन्तरं रॊहिणी प्रकॊष्टं प्रविश्य पॆटिकां उद्घाटितवती । तत्र तया दर्पणे स्वमुखम् अपश्यत् । सायङ्कालॆ कण्णदासः ग्ऱुहं प्रत्यागतवान्  । तस्य ग्ऱुहप्रवॆशात् पूर्वमॆव रॊहिण्या कलहः आरब्धः । साश्रुमुखी कुपिता रॊहिणी - ''भवता अपराधः क्ऱुतः । का सा अतीव सुन्दरी तरुणी भवतः पॆटिकायां ? भवान् वञ्चकः ''इति प्रलपन्ती रॊदनम् अकरॊत् । पत्न्याः सान्त्वनं कर्तुम् अशक्तः अभवत् कण्णदासः    । सः कं  संन्यासिनम् आनीतवान् । संन्यासी तस्य दर्पणस्य दर्शनॆनॆ अवगतवान् । तत् प्रतिबिम्बप्रदर्शकवस्त्विति । स्वयं तस्मिन् दर्पणे स्वस्य मुण्डितं मस्तकं द्द्रुष्टं तॆन ।
ततः सः संन्यासी रोहिणीम् उद्दिश्य - ''वत्सॆ ! भवत्याः द्रुष्टातरुणी अधुना मुण्डितमस्तकतां प्राप्य संन्यासी अभवत् । भवती चिन्तां मा करॊतु'' इति
उक्त्वा दर्पणॆ स्वीयं प्रतिबिम्बम् अदर्शयत् । ऎतस्मात्  रॊहिणी गतवचिन्ता जाता ।   ततः संन्यासी - "ऎतत् वस्तु अनिष्टकरम् । अतः  अत्र ग्ऱुहॆ मास्तु ऎतत्'' इति उक्त्वा सदर्पणः ततः निर्गत वान् । कण्णदासः रोहिणी च विना चिन्तां आनन्दॆन  सुखॆन च कालं यापितवन्ती ।