Difference between revisions 209623 and 210076 on sawiki{{Infobox settlement |name =देहली |official_name = National Capital Territory of Delhi |settlement_type = [[Federal district]] |image_skyline = Delhi Montage.jpg |image_caption = From top clockwise: [[लोटस् टेम्पल्]], हूमायूनस्य स्मारकम्, कन्नाट् प्लेस्], अक्षरधाम, इण्डियागेट् च। |image_flag = |image_seal = (contracted; show full) दिल्ल्यामेव भारतदेशस्य जीवननिरूपकं संसद्भवनम् अस्ति । अत्रैव उच्चतमन्यायप्रदाता अत्युच्चन्यायालयो वर्तते । सर्वप्रधानपदमलङ्कृतवान् राष्ट्रपतिः देहल्याम् एव विराजते । अतः देहली भारतस्य हृदयमेव । देहलीमहानगरस्य विस्तीर्णं १५०० चतुरस्रकिलोमीटर् अस्ति । अत्र वाताव रणम् अत्यन्तं विचित्रम् अस्ति । एप्रिल-मे-जूनमासेषु अतीवोष्णता, नवम्बर् डिसेम्बरजनवरीमासेषु अतीव शैत्यं भवति। [[भारतम्|भारतस्य]] सर्वराज्यानां राजधानीभ्यः वहनसम्पर्कः, धूमशकटयानसम्पर्कः, विमानसम्पर्कः च सन्ति । ==मार्गः== [[अहमदाबाद्|अहमदाबादतः]] ८८६ कि.मी. । [[आग्रा]]तः २०० कि.मी. ।[[मुम्बयी]]तः १४००कि.मी.। जयपूरतः ३६१ कि.मी. । [[शिम्ला]]तः ३६८ कि.मी. । जम्मूतः ५८६ कि.मी. । [[चेन्नै]]तः १२५७ कि.मी. । [[बेङ्गळूरु]]तः २०१९ कि.मी. । [[हैदराबाद्]]तः २४५३ कि.मी. । [[तिरुवनन्तपुरम्|तिरुवनन्तपुरमतः]] २७८० कि.मी ।; दर्शनीयस्थानानि - ==[[भारतम्|भारतस्य]] राजधानी== [[भारतम्|भारतदेशस्य]] महानगरेषु [[देहली]]नगरम् अन्यतमम् । प्राचीनकालादपि [[देहली]] [[भारतम्|भारतस्य]] राजधानी अस्ति । अस्य सहस्रवर्षाणाम् इतिहासः अस्ति । अनेकसाम्राज्यानां राजवंशीयाना च राजधानीति अपि आसीत् । हिन्दुमुसलमानमोगलेत्यदयः वंशीयाः अत्र प्रशासनम् अकुर्वन् । आङ्ग्लाः अपि सा.श.१९११ तले काले देहलीनगरं राजधानीं कृत्वा सा.श.१९४७ पर्यन्तं प्रशासनम् अकुर्वन् । स्वातन्त्र्यप्राप्तेः अनन्तरकाले अद्यापि [[देहली]] देशस्य राजधानी अस्ति । [[देहली]] गङ्गासमतलप्रदेशाना महाद्वारयिवास्ति । राजनीतिकेन्द्रं व्यापारीकेन्द्रं प्रशासनिककेन्द्रं च । अत्र अनेक वास्तुशिल्पान्वितभवनानि सा.श.१९३०तमसमये निर्मितानि सन्ति । सट् एड्विन् लुटिन्स् भव्यशिल्पानां रचनकारः आसीत् । ==राष्ट्रपतिभवनम्ः== राष्ट्रपतिभवनं [[भारतम्|भारतदेशस्य]] राष्ट्रपतेः अधिकृतः निवासः । एतद्भवनं सा.श.१९२९तमे वर्षे निर्मितम् । १३०हेक्टर् प्रदेशे व्याप्तं राष्ट्रपतिभवनं परितः ‘मोगल् गार्डन्’ इति ख्यातम् उद्यानवम् अस्ति । अतीवसुन्दरे अस्मिन् उद्याने सामान्यजनानां प्रवेशावकाशः कदाचित् एव भवति । राष्ट्रपतिभवने ३४० प्रकोष्ठानि सन्ति । मध्ये स्तूपः इव १७७ पादपरिमोतोन्नतः भव्यः वृत्तच्छदः अस्ति । भवने चत्वारः भागाः सन्ति । दर्बारहाल्, वाचनालयः, सभाभवनं, स्नानगृहं, भोजनगृहम् इत्यादयः भागः सम्यक् रूप्तिताः । मोगल् गार्डन् इति प्रसिद्धम् उद्यानं मूगतः स्वर्गः इति प्रसिद्धम् । गुलाबी सस्याना १०० प्रभेदाः अत्र द्रृष्टुं मिलन्ति । अनेन साकं बोगन्विल्ला, डेलिया, हैसिन्त्, हेलिगोनिया, डापोडिल्स्, आर्किड्, स्वीट्विचियं, मेर्रीगोल्ड्, जपाकुसुमं, इत्यादीनि अपूर्वाणि कुसुमसस्यानि सन्ति । एतानि मरिषस्, पेट्, ब्रेसिल्, ईशान्यराज्यानि, हैदराबाद्, कोच्चिन्, इत्यादिभ्यः प्रदेशेभ्यः अनितानी । अत्र मयूराः बकाः मृगाः कदम्बाः इतस्ततः सञ्चरन्ति । जलोत्साः सन्ति । दीपलङ्कारः उत्तम तया निर्मिता अस्ति । सायङ्काले दीपलङ्कारो उद्यानवनसौन्दर्य अतिव चेतोहारी भवति । अस्य भव्योद्यानस्य निर्माणे अनेके पूर्वराष्ट्रपतयः कार्मकराः अधिकारिणः अनेकवर्षपर्यन्त कार्यम् अकुर्वन् । ४२८ जनाः उद्यानरक्षकाः वाटिकानिर्वाहकाः अत्र कार्यं कुर्वन्ति । फेब्रवरीमार्चमासयोः सार्वजनिकानां प्रवेशावक्यशः अस्ति । ==[[कुतुब् मिनार्]] (विजयस्मारकम्)== [[देहली]] नगरे स्थितः [[कुतुब् मिनार्]] [[विजयस्तम्भः]] [[भरतम्|भारतदेशे]] एव अत्युन्नतः इति विख्यातः। पूर्वम् अयं पृथ्वीस्तम्भः इति प्रसिद्धः आसीत् | राजा [[पृथ्वीराज चौहाणः]] अस्य निर्माता । हिन्दुशिल्पशैल्या अयं स्तम्भः रचितः । सा.श.१२००तमसमये देहलीप्रशासकः कुत्बुद्दीन ऐबक् इति कश्चित् आफ्घन् शिशिल्पस्य कतिपयांशान् समायोज्य परिवर्तितवान् । इदानीं गोपुरस्तम्भः एषः १३८ पादपरिमितोन्नतः सप्तस्तरीयः अस्ति । आरोहर्थं ३७९ सोपाननी सन्ति । अस्य परिधिः मूले ४७ पादपरिमितः , शिखरभागे ९ पादपरिमितः च अस्ति । प्रतिस्तरतः अपि बहिर्वीक्षणार्थं प्रासादाः सन्ति । द्वारेषु शिलाभिलेखाः सन्ति । ==मेहरालि अयस्स्तम्भः== [[कुतुब् मीनार्]] इत्य्स्य प्राङ्गणे कश्चित् ऐतिहासिकः स्तम्भः अस्ति यं द्रृष्ट्वा प्रासिनः विस्मिताः भवन्ति । अयसः एषः चतुर्थशतके राजाचन्द्रवर्मणा निर्मितः। स्कन्धगुप्तराजस्य कालिकः एषः शिल्पविशेषः अधुनापि अयस्किट्टरहितः सूर्यप्रकाशेन विराजते । अत्र स्तम्भे संस्कृतश्लोकाः लिखिताः सन्ति । एषः स्तम्भः स्थिरः दृढः गोलिकाप्रहारेणापि न शैथिल्यम् आप्नोत् । स्तम्भनिर्माणकौशलं दृष्ट्वा तत्कालीनं लोहकार्यनैपुण्यं ज्ञातुं चर्चितुं च शक्यते । कन्निङ्ग् ह्याम् इत्यस्य वचनानुगुणं एषः स्तम्भः अतीव विस्मयकारी लोहविद्यादर्शकः निर्माणं कुतूहलकारकं च अस्ति । ==फेरिक्वीन् परम्पराधूमशकटम्== देहलीनगरे स्थितः राष्ट्रीयधूमशकटसङ्ग्रहालयः अवश्यं दर्शनीयः अस्ति । अत्र फेरिक्वीन् धूमशकटं १४२ वर्ष प्राचीनम् अस्ति । अस्य चलनं जलबाष्पेन भवति । अस्य निशकटाः वायुनियन्त्रिताः उत्तमासनयुक्ताः सन्ति । अन्ततः प्रकृतिदर्शनम् अतीव आह्लादकरं भवति । अन्तः सुन्दरतया अलङ्कृताः निशकटाः सन्ति । अस्य वेगः ४० कि.मी. प्रतिघण्टास्ति । अस्य गिन्निस् पुस्तके नाम योजितम् अस्ति । राष्ट्रीयप्रवासनिगमस्य पारितोषकमपि लब्धमस्ति । सा.श.२००८तमवर्षे एतत् धूमशकटयानं मैसूरुदसराकाले [[कर्णाटकम्|कर्णाटके]] अपि नञ्जनगूडु-मैसूरुमध्ये सञ्चारितम् । ==रक्तदुर्गः == देहलीनगरे स्थितः रक्तदुर्गः रक्तवालुकाशिलाभिः निर्मितः शिल्पविशेषः अस्ति। अस्य दीर्घता २ कि.मी. अस्ति । उन्नतिः भिन्ना भिन्ना अस्ति । नद्याः समीपे अस्य अस्य उन्नतिः २८ मीटर्, नगरभागे ३३ मीटर् च अस्ति । अयं दुर्गः सा.श.१६३८ तमे वर्षे निर्मितः । देहली चक्रवर्ती [[षाहजहान्]] आरम्भं कृतवान् । सा.श. १६४८ तमे वर्षे निर्माणकार्यं समाप्तम् अभवत् । लाहोर् महाद्वारतः अस्य प्रवेशः । अत्र दिवान् आम् , दिवानी खान्,मोति मसीदि, रङ्गमहल् इत्यादीनि सन्ति । प्रतिदिनं सायङ्काले ध्वनिप्रकाशप्रदर्शनं (Sound and light show) आङ्गलहिन्दिभाषयोः व्याख्यानसहितं भवति । अन्तः आपणाना पाङ्क्तिः अस्ति । हस्तशिल्पवस्तूनि अत्र क्रेतुं शक्नुवन्ति । दिवान् ३ खास् स्वकीय स्थानमासीत् । खास् महल् चक्रवर्तिनां निवासः रङ्गमहल् राज्ञीना वासस्थान दिवानि आ दर्बार सभाङ्गणमासीत् । अत्र उष्णजल शीतजल स्नानगृहणि सन्ति । शीशमहल् प्रेक्षणी- यमस्ति । मोगल शैली शिल्पदर्शनाय एतदुत्तम स्थलमस्ति । स्वातन्त्र्यानन्तर प्रतिवर्ष अगस्ट मासस्य १५ दिने प्रातः काले अत्र प्रवेशद्वारस्य उपरिस्थिते विशेषस्थले भारतस्य प्रधानमन्त्रि ध्वजारोहजं कृत्वा जनान् सम्भोधयति । शुभाशय च यच्छुति । ==जन्तरमन्तरम्== देहलीनगरे जयपूरराजा जयसिंहेन् निर्मितः ग्रहताराचलनस्य वीक्षणालयः १६तमशके स्थापितम् अस्ति । अत्र सूर्यचन्द्रयन्त्रम् अथवा साम्राट्यन्त्रम् अतीव विशिष्टम् अस्ति । ==अन्यदर्शनीयस्थानानि== वृत्ताकारेस्थितं राजनीतिगृहं संसद्भवनम् अस्ति । अत्र [[भारतसर्वकारः|भारतसर्वकारस्य]] लोकसभा राज्यसभेत्याद्याः प्रशाशसनिकसभाः प्रचलन्ति । एतत् सा.श.१९२७ तमे वर्षे निर्मितम् । अस्य भवनस्य व्यासः १७२ मी. अस्ति । देहलीनगरे अनेकाः यवनराजानां समाधयः सन्ति । तत्र मोगलशैलीय वास्तुशिल्पानि रचितानि सन्ति । लोदीजनानां समाधयः, मोगलवंशीयानां समाधयः च विशाले प्राङ्गणे सन्ति । समीपे एव कश्चन मृगालयः अस्ति । अत्र धूसरभल्लूकाः खेतव्याघ्रः श्वेतमयूरः एमु, इत्यादयः खगमृगसङ्कुलानि सन्ति । राजघाट् प्रदेशे विशाले उद्याने [[महात्मा गान्धिः]], जवाहरलालनेह्रू [[लालबहदूर शास्त्री]] [[इन्दिरा गान्धिः]] इत्यादीनां समाधयः सन्ति । बिर्लामन्दिरम् इति श्रीलक्ष्मीनारायणमन्दिरम् अतीव सुन्दरं सकलं चास्ति । अक्षरधा स्थले देवालय सङ्कीर्णम अतीव सुन्दर अस्ति । अत्र सायंकाले जलोत्सः दीपालङ्कारयुक्तः चित्ताकर्षकं भवति । देहलीनगरे बोटवलब् लोध्युद्यानं रोषनावोद्यानं कुट्टसियोद्यानं तलटकोद्यानं नेह्रूद्यानं डीरपार्क् बुद्धजयत्न्युद्यानम् इत्यादीनि सुन्दराणि उद्यनवनानि सन्ति । देहलीनगरे बहवः वस्तुसङ्ग्रहालयाः सन्ति । तेषु क्राफट् वस्तुसङ्ग्रहालयः, न्याशनल्, नेह्रूस्मारकः, रेड्पोर्ट्, इत्यादयः सङ्ग्रहालयाः प्रसिद्धाः । ==नगरेतिहासः== देहली नगर विश्वे एव प्राचीन नगरेष्वेकं अस्ति । पूर्व हिन्दुराजा अनङ्गपालः क्रिस्ताब्दे १०६० समेय ‘लालकोट्’ निर्मितवान् । पृथ्वीराजचह्वण महोदयः अभिवृद्धि कार्य कृतवान् । अनन्तर कुतुब्हीन् ऐबक् कुतुब् मीनार शिल्पं कारितवान् । मोगलवंशीयः बाबरः अत्रैव साम्राज्य आरब्धवान् । आङ्गलाः क्रिस्ताब्दे १९११ तमे वर्षे देहली नगर राजधानी कृत्वा प्रशासन आरब्धवन्तः । पूर्वं पुराजानुसार कौरवाः हस्तिनावति नगरे प्राचीनदिल्लीभागः , पाण्डवाः इन्द्रप्रस्थ नगरे पुरा- नकिल्प भागे प्रशासन कृतवन्तः । देहली महानगरस्य विस्तीर्णं ५०० व.कि.मी. अस्ति । अत्र वातावरणम् अत्यन्तं विचित्रम् एप्रिल् मे जून् च मासेषु अतीवोष्णं नवम्बर् डिसेम्बर जनवरी च मासेषु अतीव शैत्यं भवति । [[भारतम्|भारतस्य]] सर्वराज्यानां राजधानिभिः वाहनसम्पर्कः धूमशकटयानस्य सम्पर्कः विमानस्य सम्पर्कः च सन्ति । मार्गः अहंमदाबादतः ८६ कि.मी. । [[आग्रा]]तः २०० कि.मी. । [[मुबै]]तः १४००कि.मी.। [[जयपूरम्|जयपुरतः ३६१ कि.मी. । [[शिम्ला]]तः ३६८ कि.मी. । जम्मूतः ५८६ कि.मी. । [[चेन्नै]]तः १२५७ कि.मी. । [[बेङ्गळूरु]]तः २०१९ कि.मी. । [[हैदराबाद]]तः २४५३ कि.मी. । [[तिरुवनन्तपुरम्|तः]] १७८० कि.मी । [[वर्गः: राजधान्यः]] [[वर्गः:भारतस्य नगराणि]] [[वर्गः: भारतस्य राज्यानि]] [[af:Delhi]] [[an:Delhi]] [[ar:دلهي]] [[arz:ديلهى]] [[as:দিল্লী]] [[az:Dehli]] [[be:Горад Дэлі]] [[be-x-old:Дэлі]] [[bg:Делхи]] [[bh:नई दिल्ली]] [[bi:Delhi]] [[bn:দিল্লি]] [[bpy:দিল্লী]] [[br:Delhi]] [[bs:Delhi]] [[ca:Delhi]] [[cs:Dillí]] [[da:Delhi]] [[de:Delhi]] [[dv:ދިއްލީ]] [[el:Δελχί]] [[en:Delhi]] [[eo:Delhio]] [[es:Delhi]] [[et:Delhi]] [[eu:Delhi]] [[ext:Delhi]] [[fa:دهلی]] [[fi:Delhi]] [[fr:Delhi]] [[ga:Delhi]] [[gan:德里]] [[gd:Delhi]] [[gl:Delhi - दिल्ली]] [[gu:દિલ્હી]] [[he:דלהי]] [[hi:दिल्ली]] [[hr:Delhi (grad)]] [[hu:Delhi]] [[hy:Դելի]] [[ilo:Delhi]] [[is:Delí]] [[it:Delhi]] [[ja:デリー]] [[ka:დელი]] [[kk:Дели]] [[kl:Delhi]] [[kn:ದೆಹಲಿ]] [[ko:델리]] [[ks:دلھی]] [[ku:Delhî]] [[kw:Delhi]] [[la:Dellium]] [[lt:Delis]] [[lv:Deli]] [[mg:Faritan'i Delhi]] [[mhr:Дели]] [[mi:Delhi]] [[ml:ഡെൽഹി]] [[mn:Дели]] [[mr:दिल्ली]] [[ms:Delhi]] [[nds:Delhi]] [[ne:दिल्ली]] [[new:दिल्ली]] [[nl:Delhi (stad)]] [[nn:Delhi]] [[no:Delhi]] [[oc:Delhi]] [[or:ଦିଲ୍ଲୀ]] [[os:Дели]] [[pa:ਦਿੱਲੀ]] [[pam:Delhi]] [[pl:Delhi]] [[pnb:دلی]] [[ps:ډېلي]] [[pt:Deli]] [[qu:Dilhi]] [[ro:Delhi]] [[roa-tara:Delhi]] [[ru:Дели]] [[rue:Делі]] [[sah:Дели]] [[sco:Delhi]] [[sd:دهلي]] [[se:Delhi]] [[sh:Delhi]] [[simple:Delhi]] [[sk:Dillí]] [[sl:Delhi]] [[sr:Делхи]] [[sv:Delhi]] [[sw:Delhi]] [[ta:தில்லி]] [[te:ఢిల్లీ]] [[tg:Деҳли]] [[th:เดลี]] [[tk:Deli]] [[tl:Delhi]] [[tr:Delhi]] [[ug:Déhli]] [[uk:Делі]] [[ur:دلی]] [[vi:Delhi]] [[vo:Delhi]] [[war:Delhi]] [[yi:דעלהי]] [[yo:Delhi]] [[zh:德里]] [[zh-min-nan:Delhi]] [[zh-yue:德里]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sa.wikipedia.org/w/index.php?diff=prev&oldid=210076.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|