Difference between revisions 216968 and 218126 on sawiki{{Infobox settlement |name =देहली |official_name = राजधानीनगरम् |settlement_type = केन्द्रशासितमण्डलम् |image_skyline = Delhi Montage.jpg |image_caption = लोटस् टेम्पल्, हूमायूनस्य स्मारकम्, कन्नाट् प्लेस्, अक्षरधाम, इण्डियागेट् च। |image_flag = |image_seal = |pushpin_map =[[भारतम्]] |mapsize = 250px |map_caption = Location of Delhi in India. |coordinates_region = US-DC |subdivision_type = Country[[देशः]] |subdivision_name =[[भारतम्]] |subdivision_type1 = [[Federal district]] |subdivision_name1 = National Capital Territory |leader_party = [[Indian National Congress|INC]] |leader_title = {{nowrap|[[List of Chief Ministers of Delhi|Chief Minister]]}} |leader_title1 = [[Governors and Lieutenant-Governors of states of India|Lt. Governor]] |leader_name = [[Sheila Dikshit]] |leader_name1 = तेजेन्द्र खन्नान |established_title1 = Settled |established_date1 = 1638 |established_title2 = Incorporated |established_date2 = 1857 |established_title3 = राजधानीनिर्माणम् |established_date3 = १९११ |named_for = (contracted; show full) भारतस्य राज्येषु अन्यतमम् अस्ति । भारतदेशस्य राजधानी देहली विश्वस्य अतिविशालासु नगरीषु अन्यतमा इति गण्यते । एषा भारतस्य तृतीया बृहती नगरी वर्तते । दिल्ली इत्यपि विश्रुता इयं नगरी पाचीनकाले [[हस्तिनापुरम्|हस्तिनापुरम् ]] इति ख्याता आसीत् । इन्द्रसभायामपि सभाजितानां भरतकुलोत्पन्नानां महीपालानां राजधानी अद्यतनीया देहली एव । मुगलवंशीयानां चक्रवार्तिनां तथा आङ्ग ्लानामपि अधिकारिणां केन्द्रभूमिर्भूत्वा देहली अधुनापि भारतीयगणराज्यस्य राजधानीपदमलङ्करोति । [[भारतम्|भारतदेशस्य]] महानगरेषु देहलीनगरम् अन्यतमम् अस्ति । प्राचीनकालादपि देहली भारतस्य राजधानी अ स्ति । अस्य नगरस्य सहस्रवर्षस्य इतिहासः अस्ति । अनेक साम्राज्यानां राजवंशीयानां च राजधानीति प्रसिद्धमेतत् । हिन्दु-मुसलमान्-मोगल इत्यादि वंशीयाः अत्र प्रशासनं कृतवन्तः । आङ्ग्लाः अपि क्रिस्ताब्दे १९११ तमे वर्षे देहलीनगरं राजधानीं कृत्वा क्रिस्ताब्दस्य १९४७ पर्यन्तं प्रशासनं कृतवन्तः । स्वातन्त्र्यप्राप्तेः अनन्तरमपि देहली देशस्य राजधानी अस्ति । देहली गङ्गासमतलप्रदेशानां महाद्वारमिव अस्ति । राजकीयकेन्द्रं वाणिज्यकेन्द्रं प्रशासनिककेन्द्रं च एतत् । अत्र अनेक वास्तुशिल्पानि क्रिस्ताब्दे १९३० समये निर्मितानि सन्ति । सर् एड्विन् लुटिन्स् भव्यशिल्पानाम्ं रचनाकारः आसीत् । ==देहलीनगरस्य इतिहासः== देहलीनगरं विश्वस्य प्राचीननगरेषु अन्यतमम् अस्ति । पूर्वं हिन्दुराजः [[अनङ्गपालः]] क्रिस्ताब्दे १०६० तमे वर्षे ‘लालकोट्’ निर्मितवान् । [[पृथ्वीराजचह्वाणः]] तस्य अभिवृद्धिकार्यं कृतवान् । अनन्तरं कुतुबुद्दीन् ऐबक् [[कुतुब् मिनार्]]शिल्पभवनं कारितवान् । मोगलवंशीयः [[बाबरः]] अत्रैव साम्राज्यम् आरब्धवान् । आङ्ग्लाः क्रिस्ताब्दे १९११ तमे वर्षे देहलीनगरं राजधानीं कृत्वा प्रशासनम् आरब्धवन्तः । पूर्वं पुराणानुसारं [[कौरवाः]] [[हस्तिनावती]]नगरे (प्राचीनदिल्लीभागः) , [[पाण्डवाः]] [[इन्द्रप्रस्थम्|इन्द्रप्रस्थ]]नगरे (पुरानाकिला भागे) प्रशासनं कुर्वन्ति स्म । ==देहल्याः प्रेक्षणीयस्थानानि== ===[[राष्ट्रपतिभवनम्]] मोगल् गार्डन् च=== राष्ट्रपतिभवनम्ं भारतदेशस्य राष्ट्रपतेः अधिकृतं निवासस्थानमेतत् । क्रिस्ताब्दे १९२९ तमे वर्षे अस्य निर्माणम् अभवत् ।१३० हेक्टर् प्रदेशे व्याप्तम् , राष्ट्रपतिभवनं परितः ‘मोगल् गार्डन्’ उद्यानवनम् अस्ति । अतीव सुन्दरम् उद्यानवनम् एतत् । प्रवेशार्थम् अवसरः न भवति । राष्ट्रपतिभवने ३४० प्रकोष्ठाः सन्ति । मध्ये स्तूपः इव १७७ पादोन्नतं भव्यं अर्धगोलाकारिका छदिः(गुम्बज़्) अस्ति । भवने चत्वारः भागाः सन्ति । दर्बारहाल्, वाचनालयः, सभाभवनं, स्नानगृहं भोजनगृहं च । एतानि सर्वाणि उत्तमरीत्या निर्मितानि सन्ति । राष्ट्रपतिभवनं परितः मोगल् गार्डन् रम्यम् उद्यानम् अस्ति । ‘A Paradise on Earth’, ‘A garden of beauty’ इति प्रसिद्धम् । सर्वे राष्ट्रपतयः पूर्वतोऽपि अभिवृद्धिं कृत्वा उत्तमोत्तमं कृतवन्तः सन्ति । एतदर्थं देशविदेशेभ्यः विविधानि सस्यानि आनीतानि सन्ति । पाटलपुष्पसस्यानां द्विशताधिकभेदाः अत्र द्रृष्टुं शक्यन्ते । अनेन साकं बोगन् विल्ला, डेलिया, हैसिन्त्, हेलिगोनिया, डापोडिल्स्, आर्किड्, स्वीट् विलियम् मेरीगोल्ड् जपाकुसुमम् इत्यादीनि अपूर्वाणि सन्ति । एतानि मारिषस् पेरु ब्रेज़िल्, ईशान्यराज्यानि, [[हैदराबाद्]] [[कोच्ची]] इत्यादिप्रदेशेभ्यः आनीतानि । अत्र मयूराः बकाः मृगाः कदम्बाः इतस्ततः सञ्चरन्ति । जलोत्सांसि सन्ति । दीपलङ्कारः उत्तमतया कृतः अस्ति । सायङ्काले दीपलङ्कारः उद्यानवनसौन्दर्यं वर्धयति । ४२८ जनाः उद्यानरक्षकाः वाटिकापालकाः अत्र कार्यं कुर्वन्ति । सार्वजनिकानां फेब्रुवरीमार्चमासयोः प्रवेशावकाशः अस्ति । ===[[कुतुब् मिनार्]]=== कुतुब् समुच्चये अन्तर्भवति कुतुब् मिनार् अपि । देहल्यां स्थितम् अत्यन्तं प्रेक्षणीयं प्रमुखं च स्थानम् एतत्। अस्य शिखरस्य निर्माणकार्यम् आरब्धवान् गुलामवंशस्य प्रथमः शासकः कुतबुद्दीन् ऐबकः। तस्य उत्तराधिकारी इल्तुमिशः , तदनन्तरम् आगताः अल्लावुद्दीन् खिल्जिप्रभृतयः शासकाः च अधिकान् अट्टान् निर्माय तस्य भ्वनस्य औन्नत्यं वर्धितवन्तः। कुतुबमिनार् ७२.५ मी. औन्नत्ययुतम् । तस्य भूतलव्यासः १४.३ मीटर्विशालः अन्तिमाट्ट्ः २.७ मीटर् -उन्नतः अस्ति । अस्य मुखद्वारम् ‘अलैगेट्’ इति उच्यते । एतस्य निर्माता अस्ति अल्लावुद्दीनखिल्जिः । वृत्ताकारकम् एतत् मुखद्वारं रक्तशिलाभिः, अलङ्कृतमणिशिलाभिः, शिलाजवनिकाजालैः, कलाकृतिभिः च शोभते । टर्किशकलाविदः एतत् निर्मितवन्तः सन्ति । अल्लावुद्दीन्खिल्जिः सङ्कल्पितवान् आसीत् यत् ‘अमैमिनार्’ निर्मातव्यम् इति, यच्च औन्नत्येन कुतुबमिनारस्य अपेक्षया द्विगुणितं स्यात् इति । किन्तु तस्य मरणात् निर्माणकार्यम् अर्धे एव स्थगितं जातम् ।२४.५ मीटरुन्नतः प्रथमः अट्टः निष्प्रयोजकः जातः अस्ति । ===[[रक्तदुर्गम्]]=== रक्तदुर्गम् (लालकिला) देहलीनगरे स्थितं रक्तदुर्गं (लालकिला) रक्तवालुकाशिलाभिः निर्मितः शिल्पविशेषः अस्ति। अस्य दैर्घ्यं २ कि.मी. अस्ति । उन्नतिः समाना नास्ति। नद्याः समीपे २८ मीटर् उन्नतं , नगरभागे ३३ मीटर् उन्नतम् अस्ति । देहली चक्रवर्ती [[षाहजहान्]] क्रिस्ताब्दे १६३८ तमे वर्षे एतस्य दुर्गस्य निर्माणं आरब्धवान् । क्रिस्ताब्दे १६४८ तमे वर्षे निर्माणकार्यम् समाप्तम् अभवत् । लाहोर् गेट् तः प्रवेशः अस्ति । अत्र दिवान् -ए-आम् , दिवानी् ए खामस् , मोति मस्जिद् , रङ्गमहल् इत्यादीनि सन्ति । प्रतिदिनम् सायङ्काले Sound and light show आङ्ग्ल हिन्दिभाषयोः व्याख्यानसहितम् भवति। अन्तः आपणानां पाङ्क्तिः अस्ति । हस्तशिल्पवस्तूनि अत्र प्राप्तुं शक्यन्ते । दिवान् -ए- खास् राज्ञां स्वकीयं स्थानमासीत् । खास् महल् चक्रवर्तिनां निवासः, रङ्गमहल् राज्ञीनां वासस्थानं, दिवान् आम् दर्बार सभाङ्गणमासीत् । अत्र उष्णजलशीतजलस्नानगृहाणि सन्ति । शीशमहल् प्रेक्षणीयमस्ति । मोगलशैल्याः शिल्पदर्शनाय एतदुत्तमं स्थलमस्ति । स्वातन्त्र्यानन्तरम्म्ं प्रतिवर्षम् आगस्टमासस्य १५ दिने प्रातः काले अत्र प्रवेशद्वारस्य उपरि स्थिते विशेषस्थले भारतस्य प्रधानमन्त्री ध्वजारोहणं कृत्वा जनान् सम्बोधयति । शुभाशयं च यच्छति । ===फेरी क्वीन्=== फेरिक्वीन् – हेरिटेज् धूमशकटम् देहलीनगरे स्थितः राष्ट्रियधूमशकटसङ्ग्रहालयः अवश्यं दर्शनीयः अस्ति । अत्र फेरिक्वीन् धूमशकटः १४२ वर्षप्राचीनः अस्ति । अस्य चालनयन्त्रं बाष्पेन चालनीयम् अस्ति । अस्य प्रकोष्ठाः वायुनियन्त्रिताः उत्तमासनयुक्ताः च सन्ति । अन्तस्तात् प्रकृतिदर्शनम् अतीव सुन्दरं भवति ।अन्तः सुन्दरतया अलङ्कृताः विभागाः सन्ति । अस्य वेगः प्रतिघण्टं ४० कि.मी. अस्ति । अस्य गिन्निस् पुस्तके नाम प्रवेशः जातः अस्ति । राष्ट्रियप्रवासनिगमस्य पारितोषकमपि प्राप्तम् अस्ति । एकदा एतत् यानं [[कर्णाटकम्]] आगतम् आसीत् । मेहरौली, [[कुतुब् मिनार्]] समीपे एतस्य स्थानम् अस्ति। ===जन्तर् मन्तर् (ग्रहतारावीक्षणालयः)=== देहलीनगरे जयपूरस्य राजामिर्जाराजेन जयसिंहेन निर्मितः ग्रहतारावीक्षणालयः १६ शतके स्थापितः अस्ति । अत्र सूर्यचक्रम् अथवा साम्राट् यन्त्रम् अतीव गमनार्हम् अस्ति । ===संसद् भवनम्=== संसत् भवनम् वृत्ताकारम् श्रेष्ठभवनमस्ति । अत्र भारतसर्वकारस्य लोकसभाराज्यसभेत्यादि प्रशासनिकसभास्थलानि सन्ति । एतत् क्रिस्ताब्दे १९२७ तमे वर्षे निर्मितम् अस्ति । अस्य भवनस्य व्यासः १७२ मीटर् अस्ति । ===इतरदर्शनीयानि स्थानानि=== देहलीनगरे अनेक मुस्लिमराजानां स्मारकाणि सन्ति । तत्र मोगलशैलीयवास्तुशिल्पानि रचितानि सन्ति । लोदीवंशीयानां स्मारकाणि , मोगलवंशीयानां स्मारकाणि च विशाले प्राङ्गणे सन्ति । (contracted; show full)[[vi:Delhi]] [[vo:Delhi]] [[war:Delhi]] [[yi:דעלהי]] [[yo:Delhi]] [[zh:德里]] [[zh-min-nan:Delhi]] [[zh-yue:德里]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sa.wikipedia.org/w/index.php?diff=prev&oldid=218126.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|