Difference between revisions 229214 and 233409 on sawiki

[[चित्रम्:SatyajitRay.jpg|thumb|right|सत्यजित राय]]
'''सत्यजितरायः''' (२ मे १९२१-२३ एप्रिल् १९९२) विख्यातः भारतीयः बङ्गालिचलच्‍चित्रनिर्देशक: आसीत्‌ । २० तमस्य शतकस्य चलच्चित्रक्षेत्रस्य अति विशिष्टः अत्यपूर्वः निर्देशकः इति मन्यते । सः बेङ्गालिकुटुम्बे कल्कत्तानगरे जन्म प्राप्नोत् । कलासाहित्यक्षेत्रेषु तस्य कुटुम्बेन महान् परिश्रमः कृतः आसीत् । व्यावहारिकनिर्देशकत्वेन स्वस्य उद्योगम् आरब्धवान् अयं फ्रेञ्च्-निर्देशकेन जीन् रेनोयरेण मेलनस्य अनन्तरं स्वतन्त्रनिर्देशकः जातः। स्वस्य लण्डन्प्रवासे तेन दृष्टम् इटालियन्-चलनचित्रं 'बैसिकल् थीव्स् आफ् विट्टोरियो डे सिका' तस्मिन् महान्तं प्रभावम् अजनयत् ।
स: जीवनान्‍तस्‍य‍ एकदिवसपूर्वमेव आँस्‍करपुरस्‍कारेण सम्‍मानित:।<br />

रायेण चलच्चित्राणि, साक्ष्यचित्राणि, लघुचित्राणि इति आहत्य सप्तत्रिंशत् चलच्चित्राणि निर्दिष्टानि । सः कथालेखकः, प्रकाशकः, वर्णनकर्ता, रेखाविन्यासकारः, चलच्चित्रविमर्शकश्च आसीत् । 'पथेर् पाञ्चालि' (१९५५) नामकेन तस्य प्रथमेण चलच्चित्रेण एकादश अन्तर्देशीयाः प्रशस्तयः प्राप्ताः । केनस् चलच्चित्रोत्सवे इदं चित्रम् अत्युत्तमं मानवसाक्ष्यचित्रम् इति घोषितम् । तेन अपराजितो (१९५६) अपूर् संसार् (१९५६) इत्येते चलच्चित्रे निर्दिष्टे । सः सम्भाषणलेखनं, सम्पादनं, शीर्षिकालेखनं, प्रचारसाहित्यरचनम् इत्यादीनि सर्वविधकार्याणि करोति स्म । स्वस्य वृत्तिजीवने रायः ३२ भारतीयराष्ट्रियप्रशस्तीः, अन्तराराष्ट्रियप्रशस्तीः च प्राप्नोत् । भारतसर्वकारेण १९९२ तमे वर्षे भारतरत्नप्रशस्त्या अयं सम्मानितः । 


== बाह्य ==
* [http://www.parabaas.com/satyajit In Parabaas]
* [http://www.satyajitray.org Satyajitray.org]
* [http://www.satyajitray.org/films/filmo_directed.htm फिल्म-सूची]
* [http://www.satyajitray.org/bio/index.htm जीवनी]

{{Link FA|fr}}

[[वर्गः:चलच्चित्रनिर्देशकाः]]

[[ba:Сатьяджит Рай]]