Difference between revisions 232916 and 313238 on sawiki

{{Taxobox
 | image = Melia azedarach 02.JPG
 | image_width = 240px
 | image_caption = पर्णानि पुश्पाणि तथा फलम्
 | regnum = [[Plant]]ae
 | divisio = [[Flowering plant|Magnoliophyta]]
 | classis = [[Magnoliopsida]]
 | ordo = [[Sapindales]]
 | familia = [[Meliaceae]]
 | genus = ''[[Melia (plant)|Melia]]''
 | species = '''''M. azedarach'''''
 | binomial = ''Melia azedarach''
 | binomial_authority = [[Carolus Linnaeus|L.]]
 | synonyms =
''Melia australis'' <small>Sweet</small><br />
''Melia candollei'' <small>Sw.</small><br />
''Melia japonica'' <small>G.Don</small><br />
''Melia sempervirens'' <small>Sw.</small><br />
<!-- and oogles of others - search for the species names to get lists. -->
}}

इदं महानिम्बिसस्यं भारते वर्धमानः कश्चन सस्यविशेषः । इदं सस्यं भारतस्य सर्वेषु प्रदेशेषु वर्धते । एतत् दर्शनेन निम्बूकस्य सस्यम् इव भाति । किन्तु अस्य फलानि निम्बूकानाम् अपेक्षया महाकारकाणि भवन्ति । अतः एव अस्य नाम “महानिम्बिसस्यम्” इति उच्यते । अस्य संस्कृते “हिमद्रुम” इति अपरं नाम अपि अस्ति । अस्मिन् पीतवर्णीयः रासायनिकः अंशः अत्यन्तं क्रियाशीलः अस्ति ।   
== इतरभाषासु अस्य महानिम्बिसस्यस्य नामानि ==
इदं महानिम्बिसस्यस्यम् आङ्ग्लभाषया “पर्शियन् लिलाक्” इति उच्यते । अस्य सस्यशास्त्रीयं नाम अस्ति Melia Azedarah इति । इदं हिन्दीभाषया “बकायन्” इति, तेलुगुभाषया “कोण्डवेप” इति, तमिळ्भाषया  “मलैवेम्बु” इति, बङ्गभाषया “गोरेनीम्” इति ,"महानीम्" इति च, मराठीभाषया “विलायिति नीम्” इति, कन्नडभाषया “तुरुकबेवु” अथवा “हुच्चबेवु” अथवा चेक्कबेवु” इति उच्यते ।

== आयुर्वेदस्य अनुसारम् अस्य महानिम्बिसस्यस्य प्रयोजनानि ==
अस्य महानिम्बिसस्यस्य रसः अपि निम्बवृक्षस्य रसः  इव तिक्तः । अतः एव अस्य नाम कन्नड – मराठी – बङ्गभाषाभिः  निम्बसदृशम् अस्ति ।
:१. इदं महानिम्बिसस्यं क्रिमिनिवारकम् । प्रातः रिक्तोदरे अस्य रसस्य सेवनेन उदरे विद्यमानाः जन्तवः नश्यन्ति ।
:२. अस्य पर्णानां स्वरसः क्रिमिनाशकः, ज्वरहरः अपि ।
:३. अस्य पर्णानि, पुष्पाणि च शिरोवेदानायां लेपत्वेन उपयुज्यन्ते ।
:४. अस्य पर्णानां स्वरसः चर्मरोगेषु बाह्यलेपत्वेन, औषधत्वेन चापि उपयुज्यते ।
:५. कासे पीनसे च अस्य रसः मधुना सह सेवनीयः ।

[[वर्गः: औषधीयसस्यानि]]
[[वर्गः:Stubs]]