Difference between revisions 238068 and 238070 on sawiki

निष्कुलानन्दः स्वामी
निष्कुलानन्दः स्वामी गुर्जरभाषायाः भक्तिमार्गस्य कविः आसीत् । सः स्वामिनारायणसम्प्रदायस्य अनुयायी आसीत् । तस्य ‘त्याग न टके वैराग्य विना करिए कोटि उपायजी ’ गीतम् आश्रमभजनावलिषु मन्दिरेषु प्रेम्णा गीयन्ते ।
	सः स्वामिनारायणसम्प्रदाये महत्त्वपूर्णं स्थानं वहति । वैराग्यप्रधानं तस्य जीवनं कृतिषु अपि प्रतिम्बितं भवति । वैराग्यप्रधाने जीवने सत्यपि ‘स्नेहगीता’  क्रृतौ भक्तिश्रुङिगारस्य विशिष्टं वर्षानं दृश्यते । तस्य २४ कृत्यः ‘निष्कुलानदकाव्य’ नामना स्वामिनारयणमन्दिरतः वडताल-भूज-अमदावाद-वदोडरा-सूरतादिषु मन्दिरेषु प्रकाशिताः अभूवन् । तेन रचितानि भक्तिगीतानि ‘निष्कुलानन्दकाव्यकीर्तन’ नाम्ना प्रसिद्धिं गताः । स्वामिनारायणसम्प्रदायस्य एनं कविं प्रति (तस्य जीवनं कवनं च प्रति) शोधग्रन्थः अपि लिखितः वर्तते ।
	निष्कुलानन्दस्वामिनः जन्म जामनगरमण्डलस्य शेखपाटग्रामे अभवत् । तस्य जन्म वि.सं. १८२२ तमे वर्षे, माघमासस्य पञ्चम्यां तिथौ (वसन्तपञ्चम्याम्) रथकारस्य कुले अभवत् । तस्य पितुः नाम रामजी, मातुश्च नाम अमृताबा आसीत् । तस्य दीक्षातः पूर्वत नाम लालाजी आसीत् । निष्कुलानन्दस्वामिनः मेलनं कविना दलपतरामेण सह धोलेरायाम् अभवत् । एतस्य मेलनस्य उल्लेखं दलपतरामः बुद्धिप्रकाशे (प्रत्रिकायाम्) कृतवान् । स्वामिनारायणसम्प्रदायस्य सर्वेषु कविषु निष्कुलानन्दस्वामी विशिष्टं स्थानं वहति । यतो हि अक्षरज्ञानेन विनापि सः विपुलं साहित्यं सम्पदायाम् अदात् ः एनं कविं दीक्षायाः अनन्तरं सद्यः एव भगवान् स्वामिनारायण साहित्यरचनां प्रति आदिशति । तदा कविवरः कथयति-‘कृष्णमुखानि अक्षराणि छिन्नानि ।’ तवः भगवान् कथयति- ‘प्रारभ्यतां, तव फलमं प्रविश्य अहं लिखामि ।’ अनेन सह एव निष्कुलानन्दः लेखनं प्रारभत । तस्य कृतिः यमदण्डः अस्ति । सर्वेश्रेष्ठा कृतिः ‘भक्तचिन्तामणिः’ ‘पुरुषोत्तमप्रकाशः’ च वर्तते ।
	आजीवनं ग्रन्थप्रीतिं धारयन् अपि सः काष्ठकलाक्षत्रेऽपि सम्प्रदायस्य अमूल्यां सेवां चकार । तेन कृता शिल्पकला धोलेरायाः स्वामिनारायण मन्दिरे दृश्यते । तत्र अद्यापि स्वामिना रचितानि तोरणानि वर्तन्ते । अस्मिन्नेव मन्दिरे सेवारतः सः वि.स. १९०९ तमे वर्षे देहत्यागम् अकरोम् । 
प्रसिद्धाः कृतयः
१. पुरुषोत्तमप्रकाशः
२. भक्तिनिधिः
३. हरिबलगीता
४. वचनविधः
५. यमदण्डः 
६. लग्नशुकनावलिः 
७. चोसठपदी	
८. मनगञ्जन
९. भक्तचिन्तामणिः
१०. वृत्तिविवाहः
११. हरिस्मृतिः
१२. सारसिद्धिः
१३. स्नेहगीता
१४. धीरज-आख्यानम्
१५. दयप्रकाशः
१६. हरिविचरणम्
१७. गुणग्राहकः
१८. कल्याणनिर्णयः
१९. अरजीविनयः
२०. विह्नविन्तामणिः
२१.	पुष्पचिन्तामणिः
२२. शिक्षापत्री पद्यरूपा
२३. अवतारचिन्तामणिः इत्यादयः ।

[[वर्गः:गुजरातराज्यस्य साहित्यकाराः]]