Difference between revisions 238117 and 298742 on sawiki

==विचित्रोपकरणकम् ==
पूर्वकालॆ कण्णादासः नाम कश्चन वणिक् पत्न्या रोहिण्या साकं सुखेन जीवति स्म । तस्मिन् कालॆ दर्पणः सर्वत्र व्यवहारॆ न आसीत् । कदाचित् कण्णदासः ऎकं दर्पणं कुतश्चित् प्राप्त वान् । सः दर्पणम् अपश्यत् । तदा तेन तत्र कश्चन मनुष्यः द्ऱुष्टः । स्वस्यैव प्रतिबिम्बम् ऎतत् इति   अज्ञात्वा, 'पेटिकायां वसन् ऎषः कश्चन महापुरुषः भवेत्' इति अचिन्तयत् सः । कण्णदासः प्रतिदिनं प्रकोष्ठं पिधाय दर्पणं द्ऱुष्ट्वा तं पूरुषं नत्वा पुनः पेटिकायां दर्पणं स्थापयति स्म ।   ऎवमेव मासाः अतीताः । पत्न्याः रोहिण्याः मनसि सन्देहः जातः । मम पतिः प्रकोष्टद्वारं पिधाय प्रतिदिनं किमपि करोति । किं स्यात् प्रकोष्टे ? इति ।   ऎकस्मिन् दिनॆ प्रातर्विधं समाप्य कण्णदासः वाणिज्याय प्रस्थितः । तस्य निर्गमनस्य अनन्तरं रोहिणी प्रकोष्टं प्रविश्य पेटिकां उद्घाटितवती । तत्र तया दर्पणे स्वमुखम् अपश्यत् । सायङ्कालॆ कण्णदासः गृहं प्रत्यागतवान्  । तस्य गृहप्रवेशात् पूर्वमेव रोहिण्या कलहः आरब्धः । साश्रुमुखी कुपिता रोहिणी - भवता अपराधः क्ऱुतः । का सा अतीव सुन्दरी तरुणी भवतः पेटिकायां ? भवान् वञ्चकः इति प्रलपन्ती रोदनम् अकरोत् । पत्न्याः सान्त्वनं कर्तुम् अशक्तः अभवत् कण्णदासः। सः एकं  संन्यासिनम् आनीतवान् । संन्यासी तस्य दर्पणस्य दर्शनॆ अवगतवान् । एतत् प्रतिबिम्बप्रदर्शकवस्त्विति । स्वयं तस्मिन् दर्पणे स्वस्य मुण्डितं मस्तकं द्द्रुष्टं तेन ।
ततः सः संन्यासी रोहिणीम् उद्दिश्य - वत्सॆ ! भवत्याः द्रुष्टातरुणी अधुना मुण्डितमस्तकतां प्राप्य संन्यासी अभवत् । भवती चिन्तां मा करोतु'' इति
उक्त्वा दर्पणॆ स्वीयं प्रतिबिम्बम् अदर्शयत् । ऎतस्मात्  रोहिणी गतवचिन्ता जाता ।   ततः संन्यासी - ऎतत् वस्तु अनिष्टकरम् । अतः  अत्र ग्ऱुहॆ मास्तु ऎतत् इति उक्त्वा सदर्पणः ततः निर्गत वान् । कण्णदासः रोहिणी च विना चिन्तां आनन्देन  सुखेन च कालं यापितवन्ती ।

[[वर्गः:परिशीलनीयानिDelete]]