Difference between revisions 244806 and 250119 on sawiki

<poem>
'''स्थूलाक्षरैः युक्तः भागः'''||'''विवेकचूडामणिः''' (Vivekachudamani) ( शङ्कराचार्यविरचितः) ||

सर्ववेदान्तसिद्धान्तगोचरं तमगोचरम् |
गोविन्दं परमानन्दं सद्गुरुं प्रणतोऽस्म्यहम् ||१||

जन्तूनां नरजन्म दुर्लभमतः पुंस्त्वं ततो विप्रता
तस्माद्वैदिकधर्ममार्गपरता विद्वत्त्वमस्मात्परम् |
आत्मानात्मविवेचनं स्वनुभवो ब्रह्मात्मना संस्थितिः
(contracted; show full)    श्रुतिरसिका यतयो मुमुक्षवो ये ||५७९||
संसाराध्वनि तापभानुकिरणप्रोद्भूतदाहव्यथा- 
खिन्नानां जलकांक्षया मरुभुवि भ्रान्त्या परिभ्राम्यताम् |
अत्यासन्नसुधाम्बुधिं सुखकरं ब्रह्माद्वयं दर्शय- 
त्येषा शङ्करभारती विजयते निर्वाणसंदायिनी ||५८०||
    ||इति शंकराचार्यविरचितं विवेकचूडामणि ||
	
              ||ॐ तत्सत् ||


</poem>
* Bulleted list item
''''Italic text''''
'''Bold text'''

[[वर्गः:संस्कृतग्रन्थाः]]
[[वर्गः:चित्रं योजनीयम्]]

[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]