Difference between revisions 245322 and 245426 on sawiki{{Infobox mountain | name = Mount Girnar | other_name = Highest Mountain of Gujarat | photo = Girnar 1.jpg | photo_size = 250 | photo_alt = Girnar | photo_caption = Girnar from Rupayatan | elevation = | elevation_m = 1031 | elevation_ft = 3382 | elevation_ref = | prominence = | prominence_m = | prominence_ft = | prominence_ref = | listing = | range = Giri Taleti | parent_peak = | location = [[Bhavnath]], [[Junagadh]], {{flag|India}} | map = | map_alt = | map_caption = | map_relief = | map_size = | label = | label_position = | lat_d = 21 | lat_m = 29 | lat_s = 41 | lat_NS = N | long_d = 70 | long_m = 30 | long_s = 20 | long_EW = E | x = | y = | region = | coordinates_ref = | grid_ref_UK = | grid_ref_Ireland = | topo = | type = | volcanic_arc/belt = | age = | last_eruption = | first_ascent = | easiest_route = }} ==स्थलस्य महत्वम्== गिरनारपर्वतः गिरनारपर्वतः [[गुजरातराज्यम्|गुजरातराज्यस्य]] पश्चिमभागे [[जुनागढमण्डलम्|जुनागढमण्डले]] अस्ति । [[गुजरातराज्यम्|गुजरातराज्यस्य]] उन्नततमः पर्वतः गिरनारपर्वतः पञ्चशिखराणि स्वस्मिन् धरति । तानि - गोरखशिखरम्, अम्बाजीशिखरम्, गौोमुखशिखरम्, जैनमन्दिरशिखरम्, माळीपरबशिखरम् च । एतानि शिखराणि क्रमेण ३३०० मी., ३६०० मी., ३१२० मी., ३३०० मी., १८०० मी. च उन्नतानि सन्ति । गिरनारस्य पञ्चशिखरेषु ८६६ मन्दिराणि सन्ति । प्रस्तरैः निर्मितः सोपानमार्गः एकस्मात् शिखरात् अन्यत् शिखरं प्रति सम्प्रापयति । एवं प्रसिद्धिरस्ति यत् तत्र ९,९९९ सोपानानि सन्ति । परन्तु सोपानसङ्ख्याविषये बहूनां जनानां मान्यता भिन्नापि श्रूयते । प्रतिवर्षं गिरनारपर्वतप्रदक्षिणार्थं लक्षाधिकाः भक्ताः गच्छन्ति । प्रतिवर्षं तत्र गिरनारारोहणस्पर्धा अपि भवति । ==इतिहासः== सौराष्ट्रे मौर्यवंशस्य इतिहासः उज्वलः अस्ति । मगधस्य नन्दवंशस्य नाशं कृत्वा, गणराज्यपरम्परां समाप्य, भारतस्य चक्रवर्तिराजा चन्द्रगुप्तः ई.स. ३२२ तमे वर्षे सौराष्ट्रं जित्वा गिरनारे स्वकीयं पुष्पमित्रनामकम् उपराजत्वेन न्ययुङ्क्त । कालांशे अत्र अनेकैः राजभिः राज्यं कृतम् । तेषु राज्ञा कुमारपाळेन गिरनारारोहणाय व्यवस्थितानि सोपानानि ई.स. १५५२ मध्ये निर्मापितानि । अत्र उपरकोटस्य दुर्गः अपि दर्शनीयं स्थलमस्ति । उपरकोटस्य दुर्गः राज्ञा ग्रहरिपुणा निर्मितः । एषः दुर्गः बहु सत्तापरिवर्तनं दृष्टवान्, तद्विषये सर्वोत्कृष्टा वा रोचकी कथा वर्तते यद् उपरकोटस्य दुर्गे यदा राज्ञः राखेङ्गारस्य शासनम् आसीत्, तदा सिद्धराजजयसिंहः राखेङ्गारं हत्वा तस्य राज्ञीं राणकदेवीं बलेन हृत्वा गच्छन् आसीत् । तस्मिन् समये राणकदेवी गिरनारपर्वतं उक्तवती – ગોઝારા ગિરનાર, વળામણ વેરીને કિયો ? મરતા રા'ખેંગાર, ખડેડી ખાંગો ન થિયો ? अर्थात् हे गिरनार ! पदाक्रान्तैः राखेंगारः मृतः तथाऽपि त्वं न पतितः ? एतद् श्रुत्वा गिरनारपर्वतः पतनम् आरारभत । गिरनारपर्वतं पतन्तं दृष्ट्वा राणकदेवी उक्तवती – પડમા પડમા મારા આધાર अर्थात् मा पत, मा पत मे आधार ! तस्मिन् कालैव पतनं स्थगितं, परन्तु याः शिलाः पतनम् आरभन्त, ताः तत्र पतन्त्यः सन्ति इति दरिदृश्यन्ते । उपरकोटः नीचलोकोटश्च एताः शिलाः दर्शनाय उत्तमस्थलम् अस्ति । ⏎ ⏎ ⏎ ==गिरनारस्य परिक्रमा== गिरनारस्य परितः ३६ कि.मी. चतुर्दिनानां परिक्रमा भवति या कार्तिकमासस्य शुक्ली एकादशीतः पूर्णिमापर्यन्तं चलति । एषा परिक्रमापरम्परा कदा आरब्धा ? तत् तु निश्चितं नास्ति । परन्तु प्रारब्धिके काले केवलं सन्यासिनः एव परिक्रमां कुर्वन्ति स्म । कालानन्तरं गृहस्थाः अपि आरभन्त । पूर्वस्मिन् काले केवलं भजनं कुर्वन्तः सर्वे परिक्रमां कुर्वन्ति स्म । परन्तु अधुना मार्गे भोजनादिनां व्यवस्था भवति, एतस्य कृते सामाजिकसंस्थाद्वारा अन्नक्षेत्राणि अपि चाल्यन्ते । एषा परिक्रमा स्वयमुद्भूता अस्ति । <gallery> File:Bhavnath Mahadev.jpg|भवनाथमन्दिरम् File:Girnar 1.jpg|गिरनारपर्वतः File:Girnar Full View.jpg|गिरनारपर्वतः File:Girnar A.jpg|भवनाथमार्गः </gallery> ==बाह्यसम्पर्कतन्तुः== * [http://jainreligion.in/Jain-Tirth/Girnarji.asp Girnar, Girnar Jain Tirth] [[वर्गः:गुजरातराज्यम्]] [[वर्गः: गुजरातराज्यस्य प्रेक्षणीयस्थानानि]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sa.wikipedia.org/w/index.php?diff=prev&oldid=245426.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|