Difference between revisions 246272 and 246273 on sawiki{{Infobox mountain | name = Mount Girnar | other_name = Highest Mountain of Gujarat | photo = Girnar 1.jpg | photo_size = 250 | photo_alt = Girnar | photo_caption = Girnar from Rupayatan | elevation = (contracted; show full)यं कृतम् । तेषु राज्ञा कुमारपाळेन गिरनारारोहणाय व्यवस्थितानि सोपानानि ई.स. १५५२ मध्ये निर्मापितानि । अत्र उपरकोटस्य दुर्गः अपि दर्शनीयं स्थलमस्ति । उपरकोटस्य दुर्गः राज्ञा ग्रहरिपुणा निर्मितः । एषः दुर्गः बहु सत्तापरिवर्तनं दृष्टवान्, तद्विषये सर्वोत्कृष्टा वा रोचकी कथा वर्तते यद् उपरकोटस्य दुर्गे यदा राज्ञः राखेङ्गारस्य शासनम् आसीत्, तदा सिद्धराजजयसिंहः राखेङ्गारं हत्वा तस्य राज्ञीं राणकदेवीं बलेन हृत्वा गच्छन् आसीत् । तस्मिन् समये राणकदेवी गिरनारपर्वतं उक्तवती – ગોઝારા ગિરનાર, વળામણ વેરીને કિયો ? ⏎ ⏎ गोजारा गिरनार, वळामणवेरीने कियो ? ⏎ ⏎ મરતા રા'ખેંગાર, ખડેડી ખાંગો ન થિયો ? ⏎ ⏎ मरता रा'यखेङ्गार, खखेडी खाङ्गो न थियो? ⏎ ⏎ अर्थात् हे गिरनार ! शत्रुणामाक्रमणे राखेंगारः मृतः तथाऽपि त्वं न पतितः ? एतद् श्रुत्वा गिरनारपर्वतस्य पतनमारब्धम् । गिरनारपर्वतं पतन्तं दृष्ट्वा राणकदेवी उक्तवती – પડમા પડમા મારા આધાર अर्थात् मा पत, मा पत मे आधार ! तस्मिन्नैव काले पतनं स्थगितं, परन्तु याः शिलाः पतितुम् अनमन्, ताः तत्राद्यापि नमिता एव दरीदृश्यन्ते । ऊपरकोटभागे एताः शिलाः दर्शनायाः सन्ति । ==गिरनारस्य परिक्रमा== गिरनारं परितः ३६ कि.मी. परिमितस्य लम्बमाना चतुर्दिनानां परिक्रमा भवति, या कार्तिकमासस्य शुक्लैकादशीतः पूर्णिमा पर्यन्तं चलति । एषा परिक्रमापरम्परा कदा आरब्धा ? तत् तु निश्चितं नास्ति । परन्तु प्रारम्भिके काले केवलं सन्यासिनः एव परिक्रमां कुर्वन्ति स्म । कालान्तरं गृहस्थाः अपि आरभन्त । पूर्वस्मिन् काले केवलं भजनं कुर्वन्तः सर्वे परिक्रमां कुर्वन्ति स्म । परन्तु अधुना मार्गे भोजनादिनामपि व्यवस्था भवति, एतस्मै सामाजिकसंस्थाद्वारा अन्नक्षेत्राणि अपि चाल्यन्ते । इयं परम्परा चिरकालात् साम्प्रति प्रचलति वर्तते । <gallery> File:Bhavnath Mahadev.jpg|भवनाथमन्दिरम् File:Girnar 1.jpg|गिरनारपर्वतः File:Girnar Full View.jpg|गिरनारपर्वतः File:Girnar A.jpg|भवनाथमार्गः </gallery> ==बाह्यसम्पर्कतन्तुः== * [http://jainreligion.in/Jain-Tirth/Girnarji.asp Girnar, Girnar Jain Tirth] [[वर्गः:गुजरातराज्यम्]] [[वर्गः: गुजरातराज्यस्य प्रेक्षणीयस्थानानि]] [[en: Girnar]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sa.wikipedia.org/w/index.php?diff=prev&oldid=246273.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|