Difference between revisions 249071 and 249511 on sawiki{{Infobox Hindu leader |name= स्वामिनारायणभक्तः निष्कुलानन्दः स्वामी |image = Nishkulanandkavya_.jpg|निष्कुलानन्दः स्वामी |caption = ''निष्कुलानन्दः स्वामी'' |birth_date= |birth_place= [[जामनगरमण्डलम्]] [[गुजरातराज्यम्]] |birth_name= |death_date= |death_place= धोलेराग्रामः [[गुजरातराज्यम्]] [[भारतम्]] |guru= |philosophy= भक्तिगीतानि |honors= |Literary works = |quote= "त्याग न टके वैराग्य विना करिए कोटि उपायजी " |footnotes= }} '''निष्कुलानन्दः स्वामी''' [[गुजरातीभाषा]]याः भक्तिमार्गस्य कविः आसीत् । सः स्वामिनारायणसम्प्रदायस्य अनुयायी आसीत् । तस्य ‘त्याग न टके वैराग्य विना करिए कोटि उपायजी ’ गीतम् आश्रमभजनावलीषु अस्ति । मन्दिरेषु भक्ताः एतत् गीतं भावेन गायन्ति । एतस्य स्वामिनारायणसम्प्रदाये महत्त्वपूर्णं स्थानं अस्ति । स्वामिनः वैराग्यप्रधानं जीवनं तस्य कृतिषु अपि प्रतिम्बितं भवति । वैराग्यप्रधाने जीवने सत्यपि ‘स्नेहगीतम्ा’ इत्यादिभिः श्रृङ्गाररसस्य विशिष्टं मिश्रणं दृश्यते तस्य गीतेषु । तस्य २४ कृतयः ‘निष्कुलानन्दकाव्यकीर्तन’ नाम्ना स्वामिनारयणमन्दिरतः [[वडताल]]-[[भूज]]-[[अहमदाबाद्]]-[[वडोदरा]]-[[सूरत|सूरतादिषु]] मन्दिरेषु प्रकाशिताः अभूवन् । स्वामिनारायणसम्प्रदायस्य एनं कविं प्रति प्रेमप्रकटनाय तस्य जीनवोपरि शोधग्रन्थः अपि लिखितः वर्तते । == जन्म जीवनञ्च == निष्कुलानन्दस्वामिनः जन्म [[जामनगरमण्डलम्|जामनगरमण्डलस्य]] शेखपाटग्रामे अभवत् । तस्य जन्म वि.सं. १८२२ तमे वर्षे, माघमासस्य पञ्चम्यां तिथौ (वसन्तपञ्चम्याम्) रथकारस्य कुले अभवत् । तस्य पितुः नाम रामजी, मातुश्च नाम अमृताबा आसीत् । पूर्वाश्रमे तस्य नाम 'लालाजी' आसीत् । निष्कुलानन्दस्वामिनः मेलनं कविना दलपतरामेण सह धोलेराग्रामे अभवत् । एतस्य मेलनस्य उल्लेखः [[दलपतरामः|दलपतरामस्य]] बुद्धिप्रकाशः इत्याख्यग्रन्थे मिलति । स्वामिनारायणसम्प्रदायस्य सर्वेषु कविषु निष्कुलानन्दस्वामी विशिष्टं स्थानं धरते । यतो हि अक्षरज्ञानेन विनापि सः विपुलं साहित्यं सम्प्रदायाम्य दत्तवान् । == साहित्यरचना == दीक्षायाः अनन्तरं सद्यः एव भगवान् [[स्वामी नारायणः|स्वामिनारायणः]] "साहित्यरचनां कुरु" इति आदिशत् । तदा कविवरः कथयति- ‘कृष्णमुखानि अक्षराणि छिन्नानि ।’ तदा भगवान् कथयति- ‘प्रारभ्यतां, तव मनसिकलमं प्रविश्य अहं लिखामि ।’ अनेन सह निष्कुलानन्दः लेखनं प्रारभत । तसयमदण्डः इत्याख्या कृतिषु यमदण्डःः तस्य प्रथमा रचना अस्ति । सर्वश्रेष्ठा कृतिः ‘भक्तचिन्तामणिः’ ‘पुरुषोत्तमप्रकाशः’ च वर्तते । आजीवनं ग्रन्थप्रीतिं धारयन् सः काष्ठकलाक्षत्रेऽपि सम्प्रदायस्य अमूल्यां सेवां चकार । तेन कृता शिल्पकला धोलेराग्रामस्य स्वामिनारायणमन्दिरे दृश्यते । तत्र अद्यापि स्वामिना रचितानि तोरणानि वर्तन्ते । अस्मिन्नेव मन्दिरे सेवारतः सः वि.स. १९०९ तमे वर्षे देहत्यागम् अकरोम् । === प्रसिद्धाः कृतयः === १. पुरुषोत्तमप्रकाशः २. भक्तिनिधिः ३. हरिबलगीता ४. वचनविधः ५. यमदण्डः ६. लग्नशुकनावलिः ७. चोसठपदी ८. मनगञ्जन ९. भक्तचिन्तामणिः १०. वृत्तिविवाहः ११. हरिस्मृतिः १२. सारसिद्धिः १३. स्नेहगीता १४. धीरज-आख्यानम् १५. दयप्रकाशः १६. हरिविचरणम् १७. गुणग्राहकः १८. कल्याणनिर्णयः १९. अरजीविनयः २०. विह्नविन्तामणिः २१. पुष्पचिन्तामणिः २२. शिक्षापत्री पद्यरूपा २३. अवतारचिन्तामणिः इत्यादयः । [[वर्गः:गुजरातराज्यस्य साहित्यकाराः]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sa.wikipedia.org/w/index.php?diff=prev&oldid=249511.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|