Difference between revisions 250120 and 296359 on sawiki<poem> सुभाषितरत्नभाण्डागारम् सप्तमं सङ्कीर्णकप्रकरणं • का.नी. = कामन्दकीनीतिः. • कथा. = कथासरित्सागर • कु.सं. = कुमारसम्भव. • चा.नी.सा. = चाणक्यनीतिसार. • नी.श. = नीतिशतक. • पञ्च. = पञ्चतन्त्र. • प.पु. = पद्मपुराण. • प्र. = प्रसङ्गाभरणम्. • बृ.चा. = बृहत् चाणकयनीति. • भर्तृ. = भर्तृहरिशतकत्रयं • भर्तृ.सं. = भर्तृहरिसुभाषितसङ्ग्रह (एद्. द्.द्. Kओसम्बि). • भा.पु. = भागवतपुराण. • भोज. = भोजप्रबन्ध. • म.भा. = महाभारत. • म नु = मनुस्मृति. • रा. = रामायण. • रा.त. = राजतरङ्गिणी. • विक्रम. = विक्रमचरितम् • वे. = वेतालपञ्चविंशति. • वै.श. = वैराग्यशतक. • शा. = आभिज्ञानशकुन्तला (Kअलिदस्) • शा.प. = शार्ङ्गधारपद्धति. • शृ.ति. = शृङ्गारतिलक. • शृ.श. = शृङ्गारशतक. • सं.पा. = संस्कृतपाठोपकारकतत्त्वबोधिनी. • सु. = सुभाषितावलि ओफ़् Vअल्लभदेव. • हि. = हितोपदेश. सप्तमं सङ्कीर्णकप्रकरणं शीलं प्रधानं पुरुषे तद्यस्येह प्रणश्यति । न तस्य जीवितेनार्थो न धनेन न बन्धुभिः ॥१॥ [म.भा. ५.३४.४६] महतो हि क्षयं लब्ध्वा श्लाघां नीचोऽपि गच्छति । दानार्थी मधुपो यद्वद्गजकर्णसमाहतः ॥२॥ [भाव. ३१] महद्भिः स्पर्धमानस्य विपदेव गरीयसी । दन्तभङ्गो हि नागानां श्लाघ्यो गिरिविदारणे ॥३॥ [पञ्च. १.४०४] पञ्चास्यस्य पराभवाय भषको मांसेन गोर्भूयसा । दध्यन्नैरपि पायसैः प्रतिदिनं संवर्धितो यो मया ॥४॥ [?] पञ्चेन्द्रियस्य मर्त्यस्य छिद्रं चेदेकमिन्द्रियम् । ततोऽस्य स्रवति प्रज्ञा दृतेः पात्रादिवोदकम् ॥५॥ [म.भा. ५.२०४७] पञ्चैव पूजयन्लोके यशः प्राप्नोति केवलम् । देवान्पित्èन्मनुष्यांश्च भिक्षूनतिथिपञ्चमान॥६॥ [म.भा. ५.२०४५] यन्निमित्तं भवेच्छोकस्त्रासो वा दुःखमेव वा । आयासो वा यतो मूलस्तदेकाङ्गमपि त्यजेत॥७॥ [शा.प. १४६१] यन्निःशब्दजला घनाश्मपरुषे देशेऽतिघोरारवा यच्चाच्छाः समये पयोदमलिने कालुष्यसन्दूषिताः । दृश्यन्ते कुलनिम्नगा अपि परं दिग्देशकालाविमौ तत्सत्यं महतामपि स्वसदृशाचारप्रवृत्तिप्रदौ ॥८॥ [रा.त. ४.३०८] यमो वैवस्वतस्तस्य निर्यातयति दुष्कृतम् । हृदि स्थितः कर्मसाक्षी क्षेत्रज्ञो यस्य तुष्यति ॥९॥ [म.भा. १.३०१८] भीतवत्संविधातव्यं यावद्भयमनागतम् । आगतं तु भयं दृष्ट्वा प्रहर्तव्यमभीतवत॥१०॥ [म.भा. १.५६२२] भुञ्जानाः पवनं सरीसृपगणाः प्रख्यापिता भोगिनो गायद्भृङ्गनिवारका निगदिता विस्तीर्णकर्णा गजाः । यश्चाभ्यन्तरसम्भृतोष्मविकृतिः प्रोक्तः शमी स द्रुमो लोकेनेति निरर्गलं प्रलपता सर्वं विपर्यासितम् ॥११॥ [रा.त. ३.१९४] पतिव्रता पतिप्राणा पत्युः प्रियहिते रता । यस्य स्यादीदृशी भार्या धन्यः स पुरुषो भुवि ॥१२॥ [पञ्च. ३.१४४] संक्षेपात्कथ्यते धर्मो जनाः किं विस्तरेण तु । परोपकारः पुण्याय पापाय परपीडनम् ॥१३॥ [?] शुभ्रं सद्य सविभ्रमा युवतयः श्वेतातपत्रोज्ज्वला लक्ष्मीरित्यनुभूयते स्थिरमिव स्फीते शुभे कर्मणि । विच्छिन्ने नितरामनङ्गकलहक्रीडात्रुटत्तन्तुकं मुक्ताजालमिव प्रयाति झटिति भ्रश्यद्दिशो दृश्यताम् ॥१४॥ [भर्तृ. १.९५] यन्नम्रं सरलं चापि यच्चापत्सु न सीदति । धनुर्मित्रं कलत्रं च दुर्लभं शुद्धवंशजम् ॥१५॥ [पञ्च. २.१८८] यन्नवे भाजने लग्नः संस्कारो नान्यथा भवेत। कथाच्छलेन बालानां नीतिस्तदिह कथ्यते ॥१६॥ [हि. ०.८] यदप्युच्चैर्विजानीयान्नीचैस्तदपि कीर्तयेत। कर्मणा तस्य वैशिष्ट्यं कथयेद्विनयान्वितः ॥१७॥ [?] सकृज्जल्पन्ति राजानः सकृज्जल्पन्ति साधवः । सकृत्कन्याः प्रदीयन्ते त्रीण्येतानि सकृत्सकृत॥१८॥ [वे. ३४] मुखं प्रसन्नं विमला च दृष्टिः कथानुरागो मधुरा च वाणी । स्नेहोऽधिकः सम्भ्रमदर्शनं च सदानुरक्तस्य जनस्य चिह्नम् ॥१९॥ [हि. २.५९] पञ्च त्वानुगमिष्यन्ति यत्र यत्र गमिष्यसि । मित्राण्यमित्रा मध्यस्था उपजीव्योपजीविनः ॥२०॥ [म.भा. ५.१०४६] परेषामात्मनश्चैव योऽविचार्य बलाबलम् । कार्यायोत्तिष्ठते मोहादापदः स समीहते ॥२१॥ [पञ्च. ३.८७] बलीयसा हीनबलो विरोधं न भूतिकामो मनसापि वाञ्छेत। न वध्यतेऽत्यन्तबलो हि यस्माद् व्यक्तं प्रणाशोऽस्ति पतङ्गवृत्तेः ॥२२॥ [पञ्च. ३.१२६] बलोपपन्नोऽपि हि बुद्धिमान्नरः परं नयेन्न स्वयमेव वैरिताम् । भिषङ्ममास्तीति विचिन्त्य भक्षयेद् अकारणात्को हि विचक्सणो विषम् ॥२३॥ [पञ्च. ३.१११] मित्रस्वजनबन्धूनां बुद्धेर्धैर्यस्य चात्मनः । आपन्निकषपाषाणे नरो जानाति सारताम् ॥२४॥ [भो.प्र. १५६] मित्राण्येव हि रक्षन्ति मित्रवान्नावसीदति । मित्रादुत्पादितं वैरमपि मूलं निकृन्तति ॥२५॥ [रा. ४.२०.१८] मित्रार्थे बान्धवार्थे च बुद्धिमान्यतते सदा । जातास्वापत्सु यत्नेन जगादेदं वचो मनुः ॥२६॥ [पञ्च. १.३४६] प्रत्यासत्तिं मदकरटिनो दानगन्धेन वायुर् गर्जोद्भूतिं प्रकटितरुचिश्चञ्चलेवाम्बुदस्य । चेष्टा स्पष्टं वदति मतिमन्नैपुणोन्नेयतत्त्वा जन्तोर्जन्मान्तरपरिचितां निश्चलां चित्तवृत्तिम् ॥२७॥ [रा.त. ४.३५४] प्रसादः कुरुते पत्युः सम्पत्तिं नाभिजानताम् । कालिमा कालकूटस्य नापैति हरसङ्गमात॥२८॥ [हि. ३.१९] प्रसादो निष्फलो यस्य क्रोधश्चापि निरर्थकः । न तं भर्तारमिच्छन्ति षण्ढं पतिमिव स्त्रियः ॥२९॥ [भो.प्र. ५७। प्रजावृद्धं धर्मवृद्धं स्वबन्धुं विद्यावृद्धं वयसा चापि वृद्धम् । कार्याकार्ये पूजयित्वा प्रसाद्य यः सम्पृच्छेन्न स मुह्येत्कदाचित॥३०॥ [म.भा. ५.१५५] यथा ग्रामान्तरं गच्छन्नरः कश्चित्क्वचिद्वसेत। उत्सृज्य च तमावासं प्रतिष्ठेतापरेऽहनि ॥३१॥ एवमेव मनुष्याणां पिता माता गृहं वसु । आवासमात्रं काकुत्स्थ सज्जन्ते नात्र सज्जनाः ॥३२॥ [रा. २.१०८.५६] यथा छायातपौ नित्यं सुसम्बद्धौ परस्परम् । एवं कर्म च कर्ता च संश्लिष्टावितरेतरम् ॥३३॥ [पञ्च. २.१३६] यथा फलानां पक्वानां नान्यस्य पतनाद्भयम् । एवं नरस्य जातस्य नान्यत्र मरणाद्भयम् ॥३४॥ [?] यथा बीजं विना क्षेत्रमुप्तं भवति निष्फलम् । तथा पुरुषकारेण विना दैवं न सिध्यति ॥३५॥ [म.भा. १३.३०१] योऽन्यथा सन्तमात्मानमन्यथा सत्सु भाषते । स पापकृत्तमो लोके तेनात्मापहारकः ॥३६॥ [मनु. ४.२५५] शान्तेऽनन्तमहिम्नि निर्मलचिदानन्दे तरङ्गावली निर्मुक्तेऽमृतसागराम्भसि मनाङ्मग्नोऽपि नाचामति । निःसारे मृगतृष्णिकार्णवजले श्रान्तो विमूढः पिबत्य् आचामत्यवागहतेऽभिरमते मज्जत्यथोन्मज्जति ॥३७॥ [?] वशं प्राप्ते मृत्योः पितरि तनये वा सुहृदि वा शुचालं तप्यन्ते भृशमुदरताडं जडधियः । असारे संसारे विरसपरिणामे तु विदुषां वियोगो वैराग्यं द्रढयति वितन्वन्शमसुखम् ॥३८॥ [प्र. ९५] विधिरेव हि जागर्ति भव्यानामर्थसिद्धये । असंचेतयमानानां सद्भृत्याः स्वामिनामिव ॥३९॥ [?] लीलायन्त्यः कुलं घ्नन्ति कुलानीव सरिद्वराः दोषान्सर्वांश्च मत्याशु प्रजापतिरभाषत ॥४०॥ [म.भा. १३.१४७५] रामो हेममृगं न वेत्ति नहुषो नो यान्युनक्ति द्विजान् विप्रादेव सवत्सधेनुहरणे जाता मतिश्चार्जुने । द्यूते भ्रातृचतुष्टयस्वमहिषीं धर्मात्मजो दत्तवान् प्रायः सत्पुरुषो विनाशसमये बुद्ध्या परित्यज्यते ॥४१॥ [वे. १५] पुरा विद्वत्तासीदमलिनधियां क्लेशहतये गता कालेनासौ विषयसुखसिद्धौ विषयिणाम् । इदानीं सम्प्रेक्ष्य क्षितिलवभुजः शास्त्रविमुखान् अहो कष्टं सापि प्रतिदिनमधोऽधः प्रविशति ॥४२॥ [भर्तृ. ३.१००] राजा धर्मविना द्विजः शुचिविना ज्ञानं विना योगिनः कान्ता सत्यविना हयो गतिविना ज्योतिर्विना भूषणम् । योद्धा शूरविना तपो व्रतविना छन्दो विना गायनं भ्राता स्नेहविना नरो हरिविना मुञ्चन्ति शीघ्रं बुधाः ॥४३॥ [सप्तरत्न २] प्रियवचनकृतोऽपि योषितां दयितजनानुनयो रसादृते । प्रविशति हृदयं न तद्विदां मणिरिव कृत्रिमरागयोजितः ॥४४॥ [?] मानो वा दर्पो वा विज्ञानं विभ्रमः सुबुद्धिर्वा । सर्वं प्रणश्यति समं वित्तविहीनो यदा पुरुषः ॥४५॥ परां विनीतः समुपैति सेव्यतां महीपतीनां विनयो विभूषणम् । प्रवृत्तदानो मृदुसञ्चरत्करः करीव भद्रो विनयेन शोभते ॥४६॥ [का.नी. १.६५] प्रीणाति यः सुचरितैः पितरं स पुत्रो यद्भर्तुरेव हितमिच्छति तत्कलत्रम् । तन्मित्रमापदि सुखे च समक्रियं यदेतत्त्रयं जगति पुण्यकृतो लभन्ते ॥४७॥ [भर्तृ.सं. २७९] भार्यायां जनितं पुत्रमादर्शेष्विव चाननम् । ह्लादते जनिता प्रेक्ष्य स्वर्गं प्राप्येव पुण्यकृत॥४८॥ [?] हिंसकान्यपि भूतानि यो हिनस्ति स निर्घृणः । स याति नरकं घोरं किं पुनर्यः शुभानि च ॥४९॥ [पञ्च. ३.१६] सुखास्वादपरो यस्तु संसारे सत्समागमः । स वियोगावसानत्वाद्दुःखानां धुरि युज्यते ॥५०॥ [हि. ४.७७] पूज्यो बन्धुरपि प्रियोऽपि तनयो भ्राता वयस्योऽपि वा मोहादनवद्यकार्यविमुखो हेयः स कार्यार्थिना । लोके हि प्रथिता ननु श्रुतिरियं नार्योऽपि गायन्ति यां किं कार्यं कनकेन तेन भवति च्छेदाय कर्णस्य यत॥५१॥ [पञ्च. १.२४०] सुधाशुभ्रं धाम स्फुरदमलरश्मिः शशधरः प्रियावक्त्राम्भोजं मलयजरजश्चातिसुरभि । स्रजो हृद्यामोदास्तदिदमखिलं रागिणि जने करोत्यन्तःक्षोभं न तु विषयसंसर्गविमुखे ॥५२॥ भार्यावन्तः क्रियावन्तः सभार्या गृहमेधिनः । भार्यावन्तः प्रमोदन्ते भार्यावन्तः श्रियान्विताः ॥५३॥ [म.भा. १.३०२९] मन्त्रे तीर्थे द्विजे देवे दैवज्ञे भेषजे गुरौ । यादृशी भावना यस्य सिद्धिर्भवति तादृशी ॥५४॥ [विक्रम. ६४] बाहू द्वौ च मृणालमास्यकमलं लावण्यलीलाजलं श्रोणी तीर्थशिला च नेत्रशफरं धम्मिल्लशैवालकम् । कान्तायाः स्तनचक्रवाकयुगलं कन्दर्पबाणानलैर् दग्धानामवगाहनाय विधिना रम्यं सरो निर्मितम् ॥५५॥ [शृ.ति. १] भार्या पुत्रश्च दासश्च त्रय एवाधनाः स्मृताः । यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम् ॥५६॥ [मनु. ८.४१६] प्रिया हिताश्च ये राज्ञो ग्राह्यवाक्या विशेषतः । आश्रयेत्पार्थिवं विद्वांस्तद्द्वारेण नान्यथा ॥५७॥ [पञ्च. १.३२?] भवारण्यं भीमं तनुगृहमिदं छिद्रबहुलं बली कालश्चौरो नियतमसिता मोहरजनी । गृहीत्वा ज्ञानासि विरतिफलकं शीलकवचं समाधानं कृत्वा स्थिरतरदृशो जाग्रत जनाः ॥५८॥ [?] प्रत्युपस्थितकालस्य सुखस्य परिवर्जनम् । अनागतसुखाशा च नैव बुद्धिमता नयः ॥५९॥ [म.भा. १२.५२८०] प्रथमं संस्थिता भार्या पतिं प्रेत्य प्रतीक्षते । पूर्वं मृतं च भर्तारं पश्चात्साद्यनुगच्छति ॥६०॥ [म.भा. १.३०३३] प्रथमे नार्जिता विद्या द्वितीये नार्जितं धनम् । तृतीये नार्जितं पुण्यं चतुर्थे किं करिष्यते ॥६१॥ [चा.नी.सा. ९३] रागी बिम्बाधरोऽसौ स्तनकलशयुगं यौवनारूढगर्वं नीचा नाभिः प्रकृत्या कुटिलकमलकं स्वल्पकं चापि मध्यम् । कुर्वन्त्वेतानि नाम प्रसभमिह मनश्चिन्तितान्याशु स्वेदं यन्मां तस्या कपोलौ दहत इति मुहुः स्वच्छकौ तन्न युक्तम् ॥६२॥ [पञ्च. १.२२१] यो नानाद्युतिमत्पदार्थरसिकोऽसारेऽपि शक्रायुधे सप्रेमा स विलोक्य बर्हमिह मे किं किं न कुर्यात्प्रियम् । इत्याविष्कृतबर्हराजि नटते यो बर्हिणोऽम्भोलवान् नान्यन्मुञ्चति तं विहाय जलदं कोऽन्योऽस्ति शून्याशयः ॥६३॥ [रा.त. ३.२१८] शरीरमेवायतनं सुखस्य दुःखस्य चाप्यायतनं शरीरम् । यद्यच्छरीरेण करोति कर्म तेनैव देही समुपाश्नुते तत॥६४॥ [म.भा. १२.५४७८] विनयेन विना का श्रीः का निशा शशिना विना । रहिता सत्कवित्वेन कीदृशी वाग्विदग्धता ॥६५॥ [?] शशिना सह याति कौमुदी सह मेघेन तडित्प्रलीयते । प्रमदाः पतिवर्त्मगा इति प्रतिपन्नं हि विचेतनैरपि ॥६६॥ [कु.सं. ४.३३] वरं मौनं कार्यं न च वचनमुक्तं यदनृतं वरं क्लैब्यं पुंसां न च परकलत्राभिगमनम् । वरं प्राणत्यागो न च पिशुनवाक्येष्वभिरुचिर् वरं भिक्षाशित्वं न च परधनास्वादनसुखम् ॥६७॥ [हि. १.१३७] पुरो रेवापारे गिरिरतिरादुरोहशिखरो धनुर्बाणैः पश्चाच्छबरकवरो धावति भृशम् । सरः सव्येऽसव्ये दवदहनदाहव्यतिकरो न गन्तुं न स्थातुं हरिणशिशुरेवं विलपति ॥६८॥ [नीतिरत्न ५] लीलावतीनां सहजा विलासास् त एव मूढस्य हृदि स्फुरन्ति । रागो नलिन्या हि निसर्गसिद्धस् तत्र भ्रमत्येव सुधा षडङ्घ्रिः ॥६९॥ [?] बुद्धिश्च हीयते पुंसां नीचैः सह समागमात। मध्यमैर्मध्यतां याति श्रेष्ठतां याति चोत्तमैः ॥७०॥ [म.भा. ३.३०] विस्तीर्णव्यवसायसाध्यमहतां स्निग्धप्रयुक्ताशिषां कार्याणां नयसाहसोन्नतिमतामिच्छापदारोहिणाम् । मानोत्सेकपराक्रमव्यसनिनः पारं न यावद्गताः सामर्षे हृदयेऽवकाशविषया तावत्कथं निर्वृतिः ॥७१॥ [पञ्च. ३.२५३] लोको वहति किं राजन्न मूर्ध्ना दग्धुमिन्धनम् । क्षालयन्नपि वृक्षाङ्घ्रीन्नदीवेगो निकृन्तति ॥७२॥ [हि. ४.६०] वरुणेन यथा पाशैर्बद्ध एवाभिदृश्यते । तथा पापान्निगृह्णीयाद्व्रतमेतद्धि वारुणम् ॥७३॥ [रा. २.१२२.१२] लाक्षालक्ष्म ललाटाट्टमभितः केयूरमुद्रा गले वक्रे कज्जलकालिमा नयनयोस्ताम्बूलरागोदयः । दृष्ट्वा कोपविधायि मण्डनमिदं प्रातश्चिरं प्रेयसो लीलातामरसोदरे मृददृशः श्वासाः समाप्तिं गताः ॥७४॥ [अमरु. ६०] लज्जा स्नेहः स्वरमधुरता बुद्धयो यौवनश्रीः कान्तासङ्गो यजनसमता दुःखहानिर्विलासः । धर्मः शास्त्रं सुरगुरुमतिः शौचमाचारचिन्ता पूर्णे सर्वे जठरपिठरे प्राणिनां सम्भवन्ति ॥७५॥ [पञ्च. ५.९१] पुण्ये ग्रामे वने वा महति सितपटच्छन्नपालीकपालीं आदाय न्यायगर्भं द्विजहुतहुतभुग्धूमधूम्रोपकण्ठम् । द्वारं द्वारं प्रविष्टो दरमुदरदरीपूरणाय क्षुधार्तो मानी प्राणी सनाथो न पुनरनुदिनं तुल्यकुल्येषु दीनः ॥७६॥ [भर्तृ. ३.२४] अदेशकालार्थमनायतिक्षमं यदप्रियं लाघवकारि चात्मनः । विचिन्त्य बुद्ध्या मुहुरप्यवैम्यहं न तद्वचो हालाहलं हि तद्विषम् ॥७७॥ [पञ्च. ३.११२] अदृष्टपूर्वानादाय भावानपरिशङ्कितान। इष्टानिष्टान्मनुष्याणामस्तं गच्छन्ति रात्रयः ॥७८॥ [म.भा. १२.१२५१९] सत्क्षेत्रप्रतिपादितः प्रियवचोबद्धालवालावलिर् निर्दोषेण मनःप्रसादपयसा निष्पन्नसेकक्रियः । दातुस्तत्तदभीप्सितं किल फलन्कालेऽतिचालोऽप्यसौ राजन्दानमहीरुहो विजयते कल्पद्रुमादीनपि ॥७९॥ [सु. ३०२८] अथ नित्यमनित्यं वा नेह शोचन्ति तद्विदः । नान्यथा शक्यते कर्तुं स्वभावः शोचतामिति ॥८०॥ [भा.पु. ७.२.४९] अत्युन्नतिं प्राप्य नरः प्रावारः कीटको यथा । स विनश्यत्यसन्देहमाहैवमुशना नृपः ॥८१॥ [सं.पा. ५७] क्षेत्रग्रामवनाद्रिपत्तनपुरीद्वीपक्षमामण्डल प्रत्याशाधनसूत्रबद्धमनसां लब्धादिकं ध्यायताम् । तृष्णे देवि यदि प्रसीदसि तनोष्यङ्गानि तुङ्गानि चेत् तद्भोः प्राणभृतां कुतः शमकथा ब्रह्माण्डलक्षैरपि ॥८२॥ [प्र. ३५] अत्युदात्तगणेष्वेषा कृतपुण्यैः प्ररोपिता । शतशाखी भवत्येव यावन्मात्रापि सत्क्रिया ॥८३॥ [रा.त. ३.३०४] अत्युत्सेकेन महसा साहसाध्यवसायिनाम् । श्रीरारोहति सन्देहं महतामपि भूभृताम् ॥८४॥ [रा.त. ४.५१७] ज्ञातुं वपुःपरिमितः क्षमते त्रिलोकीं जीवः कथं कथय सङ्गतिमन्तरेण । शक्नोति कुम्भनिहितः सुशिखोऽपि दीपो भावान्प्रकाशयितुमप्युदरे गृहस्य ॥८५॥ [?] अनादर परो विद्वानीहमानः स्थिरां श्रियम् । अग्नेः शेषं ऋणाच्छेषं शत्रोः शेषं न शेषयेत॥८६॥ [?] अत्यम्बुपानं कठिनासनं च धातुक्षयो वेगविधारणं च । दिवाशयो जागरणं च रात्रौ षड्भिर्नराणां निवसन्ति रोगाः ॥८७॥ [विक्रम. २३७] आश्रिताश्चैव लोकेन समृद्धिं यान्ति विद्विषः । समृद्धाश्च विनाशाय तस्मान्नोद्वेजयेत्प्रजाः ॥८८॥ [?] अत्यन्तचञ्चलस्येह पारदस्य निबन्धने । कामं विज्ञायते युक्तिर्न स्त्रीचित्तस्य काचन ॥८९॥ [कथा. ३७.२३२] अतुष्टिदानं कृतपूर्वनाशनं अमाननं दुश्चरितानुकीर्तनम् । कथाप्रसङ्गेन च नामविस्मृतिर् विरक्तभावस्य जनस्य लक्षणम् ॥९०॥ [हि. १.११४] दुर्जनस्य च सर्पस्य वरं सर्पो न दुर्जनः । सर्पो दशति कालेन दुरजनस्तु पदे पदे ॥९१॥ [बृ.चा. ३.४] अतीव गुणसम्पन्नो न जातु विनयान्वितः । सुसूक्ष्ममपि भूतानामुपमर्दमुपेक्षते ॥९२॥ [म.भा. ५.१४५५] अतीतानागता भावा ये च वर्तन्ति सांप्रतम् । तान्कालनिर्मितान्बुद्ध्वा न संज्ञां हातुमर्हसि ॥९३॥ [म.भा. १.२४४] धनवान्क्रोधलोभाभ्यामाविष्टो नष्टचेतनः । तिर्यगीक्षा शुष्कमुखः पापको भ्रुकुटीमुखः ॥९४॥ [हि. १.१२३] अतिवादांस्तितिक्षेत नाभिमन्येत्कथंचन । क्रोध्यमानः प्रियं ब्रूयादाक्रुष्टः कुशलं वदेत॥९५॥ [मनु. ६.४७] अतिक्लेशेन यद्द्रव्यमतिलोभेन यत्सुखम् । परपीडा च या वृत्तिर्नैव साधुषु विद्यते ॥९६॥ [म.भा. ५.१५२१] निर्दशन्नधरोष्ठं च क्रुद्धो दारुणभाषिता । कस्तमिच्छेत्परिद्रष्टुं दातुमिच्छति चेन्महीम् ॥९७॥ [?] अज्ञेभ्यो ग्रन्थिनः श्रेष्ठा ग्रन्थिभ्यो धारिणो वराः । धारिभ्यो ज्ञानिनः श्रेष्ठा ज्ञानिभ्यो व्यवसायिनः ॥९८॥ [मनु १२.१०३] अज्ञानाद्यदि वा ज्ञानात्कृत्वा कर्म विगर्हितम् । तस्माद्विमुक्तिमन्विच्छन्द्वितीयं न समाचरेत॥९९॥ [मनु ११.२३२] मा कुरु धनजनयौवनगर्वं हरति निमेषात्कालः सर्वम् । मायामयमिदमखिलं हित्वा ब्रह्मपदं प्रविशाशु विदित्वा ॥१००॥ [मोहमुद्गर] अजाखरखुरोत्सर्गमार्जनीरेणुवज्जनैः । दीपखट्वोत्थच्छायेव त्यज्यते निर्धनो जनः ॥१०१॥ [पञ्च. २.१०८] अचोद्यमानानि यथा पुष्पाणि च फलानि च । स्वकालं नातिवर्तन्ते तथा कर्म पुराकृतम् ॥१०२॥ [म.भा. १२.६७५६] नाकालतो भानुरुपैति योगं नाकालतोऽस्तं गिरिमभ्युपैति । नाकालतो हीयते वर्धते च चन्द्रः समुद्रोऽपि महोर्मिमाली ॥१०३॥ [म.भा. १२.२६.१२] अघं स केवलं भुङ्क्ते यः पचत्यात्मकारणात। यज्ञशिष्टाशनं ह्येतत्सतामन्नं विधीयते ॥१०४॥ [मनु. ३.११८] अग्न्याधानेन यज्ञेन काषायेण जटाजिनैः । लोकान्विश्वासयित्वैव ततो लुम्पेद्यथा वृकः ॥१०५॥ [म.भा. १.५५६०] नाकालतो म्रियते जायते वा नाकालतो व्याहरते च बालः । नाकालतो यौवनमभ्युपैति नाकालतो रोहति बीजमुप्तम् ॥१०६॥ [म.भा. १२.२६.११] अग्नौ प्रास्तं तु पुरुषं कर्मान्वेति स्वयं कृतम् । तस्मात्तु पुरुषो यत्नाद्धर्मं संचिनुयाच्छनैः ॥१०७॥ [म.भा. ५.१५५०] अग्निहोत्रं त्रयो वेदास्त्रिदण्डं भस्मगुण्ठनम् । प्रज्ञापौरुषहीनानां जीविकेति बृहस्पतिः ॥१०८॥ [प्र. ३०] नाकालमत्ताः खगपन्नगाश्च मृगद्विपाः शैलमृगाश्च लोके । नाकालतः स्त्रीषु भवन्ति गर्भा नायान्त्यकाले शिशिरोष्णवर्षाः ॥१०९॥ [म.भा. १२.२६.१०] एवमेव कुले जाताः पावकोपमतेजसः । क्षमावन्तो निराकाराः काष्ठेऽग्निरिव शेरते ॥११०॥ [?] स एव खलु दारुभ्य यदा निर्मथ्य दीप्यते । तद्दारु च वनं चान्यन्निर्दहत्याशु तेजसा ॥१११॥ [म.भा. ५.३७.५७] नाक्रोशी स्यान्नावमानी परस्य मित्रद्रोही नोत नीचोपसेवी । न चाभिमानी न च हीनवृत्तो रूक्षां वाचमुषतीं वर्जयति ॥११२॥ [म.भा. ५.३६.६] अग्निस्तेजो महल्लोके गूढस्तिष्ठति दारुषु । न चोपयुङ्क्ते तद्दारु यावन्नो दीप्यते परैः ॥११३॥ [म.भा. ५.१३९४] अग्निं प्राप्य यथा सद्यस्तूलराशिर्विनश्यति । तथा गङ्गाप्रवाहेण सर्वं पापं विनश्यति ॥११४॥ [विक्रम. १८३] व्याधिभिर्मथ्यमानानां३ त्यजतां विपुलं धनम् । वेदनां नापकर्षन्ति यतमानाश्चिकित्सकाः ॥११५॥ [म.भा. १२.३१८.३०] अक्षेत्रे बीजमुत्सृष्टमन्तरैव विनश्यति । अबीजकमपि क्षेत्रं केवलं स्थण्डिलं भवेत॥११६॥ [मनु. १०.७१] अक्षमा ह्रीपरित्यागः श्रीनाशो धर्मसङ्क्षयः । अभिध्याप्रख्यता चैव सर्वं लोभात्प्रवर्तते ॥११७॥ [म.भा. १२.५८८१] शमयति गजानन्यान्गन्धद्विपः कलभोऽपि सन् प्रभूतितरां वेगोदग्रं भुजङ्गशिशोर्विषम् । भुवमधिपतिर्बालावस्थोऽप्यलं परिरक्षितुं न खलु वयसा जात्यैवायं स्वकार्यसहो गणः ॥११८॥ [विक्रमोर्वशीय ५.१८] अक्षमः क्षमतामानी क्रियायां यः प्रवर्तते । स हि हास्यास्पदत्वं च लभते प्राणसंशयम् ॥११९॥ [सं. ३९] अक्रोधेन जयेत्क्रुद्धमसाधुं साधुना जयेत। जयेत्कदर्थं दानेन जयेत्सत्येन चानृतम् ॥१२०॥ [म.भा. ५.१५१८] ब्राह्मणः पतनीयेषु वर्तमानो विकर्मसु । दाम्भिको दुष्कृतप्राज्ञः शूद्रेण सदृशो भवेत॥१२१॥ [म.भा. ३.२०६.११] अक्रोधनः क्रोधनेभ्यो विशिष्टस् तथा तितिक्षुरतितिक्षोर्विशिष्टः । अमानुषेभ्यो मानुषाश्च प्रधाना विद्वांस्रथैवाविदुषः प्रधानः ॥१२२॥ [म.भा. १.३५५६] अकृतेष्वेव कार्येषु मृत्युर्वै सम्प्रकर्षति । युवैव धर्मशीलः स्यादनिमित्तं हि जीवितम् ॥१२३॥ [म.भा. १२.९९४२] यस्तु शूद्रो दमे सत्ये धर्मे च सततोत्थितः । तं ब्राह्मणमहं मन्ये वृत्तेन हि भवेद्द्विजः ॥१२४॥ [म.भा. ३.२०६.१२] अकीर्तिं विनयो हन्ति हन्त्यनर्थं पराक्रमः । हन्ति नित्यं क्षमा क्रोधमाचारो हन्त्यलक्षणम् ॥१२५॥ [म.भा. ५.१४८८] अकिञ्चनस्य शुद्धस्य उपपन्नस्य सर्वशः । अवेक्षमाणस्त्रींल्लोकान्न तुल्यमुपलक्षये ॥१२६॥ [म.भा. १२.६५७०] सन्तः सच्चरितोदयव्यसनिनः प्रादुर्भवद्यन्त्रणाः सर्वत्रैव जनापवादचकिता जीवन्ति दुःखं सदा । अव्युत्पन्नमतिः कृतेन न सता नैवासता व्याकुलो युक्तायुक्तविवेकशून्यहृदयो धन्यो जनः प्राकृतः ॥१२७॥ [दशरूपक ३.१८] अकिञ्चनः परिपतन्सुखमास्वादयिष्यसि । अकिञ्चनः सुखं शेते समुत्तिष्ठति चैव ह ॥१२८॥ [म.भा. १२.६५६८] अकाले कृत्यमारब्धं कऋतुं नार्थाय कल्पते । तदेव काल आरब्धं महतेऽर्थाय कल्पते ॥१२९॥ [म.भा. १२.५००६] ह्यः पश्यद्भिरकारणस्मितसितं पाथोजकोशाकृति श्मश्रूद्बोधकठोरमद्य रभसादुत्तप्तताम्रप्रभम् । प्रातर्जीर्णबलक्षकेशविकृतं वृद्धाजशीर्षोपमं वक्त्रं नः परिहस्यते ध्रुवमिदं भूतैश्चिरस्थायिभिः ॥१३०॥ [?] अकालसहमत्यल्पं मूर्खव्यसनिनायकम् । अगुप्तं भीरुयोधं च दुर्गव्यसनमुच्यते ॥१३१॥ [हि. ३.१३५] अकार्याण्यपि पर्याप्य कृत्वापि वृजिनार्जनम् । विधीयते हितं यस्य स देहः कस्य सुस्थिरः ॥१३२॥ [रा.त. ४.३८३] स्तनतटमिदमुत्तुङ्गं निम्नो मध्यः समुन्नतं जघनम् । विषमे मृगशावाक्ष्या वपुषि नवे क इव न स्खलति ॥१३३॥ अकार्यकरणाद्भीतः कार्याणां च विवर्जनात। अकाले मन्त्रभेदाच्च येन माद्येन्न तत्पिबेत॥१३४॥ अकामान्कामयति यः कामयानान्परित्यजेतस्मै । बलवन्तं च यो द्वेष्टि तमाहुर्मूढचेतसम् ॥१३५॥ स्तनयोर्जघनस्यापि मध्ये मध्यं प्रिये तव । अस्ति नास्तीति सन्देहो न मेऽद्यापि निवर्तते ॥१३६॥ [काव्या. २.२१७] अकामां५ कामयानस्य शरीरमुपतप्यते । इच्छन्तीं कामयानस्य प्रीतिर्भवति शोभना ॥१३७॥ अकामस्य क्रिया काचिद्दृश्यते नेह कऋहिचित। यद्यद्धि कुरुते किञ्चित्तत्तत्कामस्य चेष्टितम् ॥१३८॥ प्रथमा गतिरात्मैव द्वितीया गतिरात्मजः । सन्तो गतिस्तृतीयोक्ता चतुर्थी धर्मसञ्चयः ॥१३९॥ [रा. २.६२] अकस्मात्प्रक्रिया न्èणामकस्माच्चापकर्षणम् । शुभाशुभे महत्त्वं च प्रकर्तुं बुद्धिलाघवात॥१४०॥ अकर्मशीलं च महाशनं च लोकद्विष्टं बहुमायं नृशंसम् । अदेशकालज्ञमनिष्टवेषमेतान्गृहे न प्रतिवासयीत ॥१४१॥ प्रयोजनेषु ये सक्ता न विशेषेषु भारत । तानहं पण्डितान्मन्ये विशेषा हि प्रसङ्गिनः ॥१४२॥ [म.भा. ५.२४४१] अद्यैव कुरु यच्छ्रेयो वृद्धः सन्किं करिष्यसि । स्वगात्राण्यपि भाराय भवन्ति हि विपर्यये ॥१४३॥ अधरः किसलयरागः कोमलविटपानुकारिणौ बाहू । कुसुममिव लोभनीयं यौवनमङ्गेषु संनद्धम् ॥१४४॥ चत्वार्याहुर्नरश्रेष्ठा व्यसनानि महीक्षिताम् । मृगया पानमक्षाश्च ग्राम्ये चैवातिरक्तता ॥१४५॥ अधर्मेण च यः प्राह यश्चाधर्मेण पृच्छति । तयोरन्यतरः प्रैति विद्वेषं वाधिगच्छति ॥१४६॥ अध्रुवेण शरीरेण प्रतिक्षणविनाशिना । ध्रुवं यो नार्जयेद्धर्मं स शोच्यो मूढचेतनः ॥१४७॥ निबन्धनी रज्जुरेषा या ग्रामे वसतो रतिः । छित्त्वैनां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः ॥१४८॥ [म.भा. १२.१६९.२४] अध्वा जरा देहवतां पर्वतानां जलं जरा । असम्भोगो जरा स्त्रीणां वाक्शल्यं मनसो जरा ॥१४९॥ अनधिगतमनोरथस्य पूर्वं६ शतगुणितेव गता मम त्रियामा । यदि तु तव समागमे तथैव प्रसरति सुभ्रु ततः कृती भवेयम् ॥१५०॥ मृदुरार्द्रः कृशो भूत्वा शनैः संलीयते रिपुः । वल्मीक इव वृक्षस्य पश्चान्मूलानि कृन्तति ॥१५१॥ [ह.वं. ११६८] अनध्वन्याः काव्येष्वलसगतयः शास्त्रगहनेष्व् अदुःखज्ञा वाचां परिणतिषु मूकाः परगुणे । विदग्धानां गोष्ठीष्वकृतपरिचर्याश्च खलु ये भवेयुस्ते किं वा परभणितिकण्डूतिनिकषाः ॥१५२॥ अनभ्यासेन विद्यानामसंसर्गेण धीमताम् । अनिग्रहेण चाक्षाणां जायते व्यसनं नृणाम् ॥१५३॥ मौढ्येन विपदापन्नं मध्यस्थं सुहृदं तथा । शक्त्या ततः समुद्धृत्य हितार्थं भर्त्सयेत्सुधीः ॥१५४॥ [कविता ७६] अनर्थकं विप्रवासं गृहेभ्यः पापैः सन्धिं परदाराभिमर्शनम् । दैन्यं स्तैन्यं पैशुनं मद्यपानं न सेवते यश्च सुखी सदैव ॥१५५॥ अनर्थमर्थतः पश्यन्नर्थं चैवाप्यनर्थतः । इन्द्रियैः प्रसृतो बालः सुदुःखं मन्यते सुखम् ॥१५६॥ बन्धुत्यागस्तनुत्यागो देशत्याग इति त्रिषु । आद्यन्तावायतक्लेशौ मध्यमः क्षणिकज्वरः ॥१५७॥ अनवाप्यं च शोकेन शरीरं चोपतप्यते । अमित्राश्च प्रहृष्यन्ति मा स्म शोके मनः कृथाः ॥१५८॥ अनातुरोत्कण्ठितयोः प्रसिध्यता समागमेनापि रतिर्न मां प्रति । परस्परप्राप्तिनिराशयोर्वरं शरीरनाशोऽपि समानुरागयोः ॥१५९॥ प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः । एतद्धि ज्ञानसामर्थ्यं न बालैः समतामियात॥१६०॥ [म.भा. ३.१४०७९] अनात्मवान्नयद्वेषी वर्धयन्नरिसम्पदः । प्राप्यापि महदैश्वर्यं सह तेन विनश्यति ॥१६१॥ अनादेयं नाददीत परिक्षीणोऽपि पार्थिवः । न चादेयं समृद्धोऽपि सूक्ष्ममप्यर्थमुत्सृजेत॥१६२॥ न च रात्रौ सुखं शेते ससर्प इव वेश्मनि । यः कोपयति निर्दोषं सदोषोऽभ्यन्तरं जनम् ॥१६३॥ [म.भा. ५.३८.३७] अनादेयस्य चादानादादेयस्य च वर्जनात। दौर्बल्यं ख्याप्यते राज्ञः स प्रेत्येह च नश्यति ॥१६४॥ अनाद्यन्ता तु सा तृष्णा अन्तर्देहगता नृणाम् । विनाशयति सम्भूता अयोनिज इवानलः ॥१६५॥ न च शत्रुरवज्ञेयो दुर्बलोऽपि बलीयसा । अल्पोऽपि हि दहत्यग्निर्विषमल्पं हिनस्ति च ॥१६६॥ [म.भा. १२.५८.१७] अनाम्नायमला वेदा ब्राह्मणस्याव्रतं मलम् । मलं पृथिव्या वाहीकाः पुरुषस्यानृतं मलम् ॥१६७॥ अनारभ्या भवन्त्यर्थाः केचिन्नित्यं तथागताः । कृतः पुरुषकारोऽपि भवेद्येषु निरर्थकः ॥१६८॥ द्वेषादि वै कृतवतः प्रतिभासतेऽन्यो मिथ्यैव चित्रमधिको विशदात्मनोऽपि । चन्द्रादि पश्यति पुरो द्विगुणं प्रकृत्या तेजोमयं तिमिरदोषहतं हि चक्षुः ॥१६९॥ अनार्यवृत्तमप्राज्ञमसूयकमधार्मिकम् । अनर्थाः क्षिप्रमायान्ति वाग्दुष्टं क्रोधनं तथा ॥१७०॥ अनावृतनवद्वारपञ्जरे विहगानिलः । यत्तिष्ठति तदाश्चर्यं वियोगे तस्य का कथा ॥१७१॥ परोक्तमात्रं यस्तथ्यं मन्यते बुद्धिवर्जितः । हसनीयः परेषां स शाखारूढो जटी यथा ॥१७२॥ [वृ.चा. ४.४९] अनित्ये प्रियसंवासे संसारे चक्रवद्गतौ । पथि संगतमेवैतद्भ्राता माता पिता सखा ॥१७३॥ अनिर्वाच्यमनिर्भिन्नमपरिच्छिन्नमव्ययम् । ब्रह्मेव सुजनप्रेम दुःखमूलनिकृन्तनम् ॥१७४॥ अपकृत्य बलस्थस्य दूरस्थोऽस्मीति नाश्वसेत। श्येनानुचरितैर्ह्येते निपतन्ति प्रमाद्यतः ॥१७५॥ अनिर्वेदः श्रियो मूलं चञ्चुर्मे लोहसंनिभा । अहोरात्राणि दीर्घाणि समुद्रः किं न शुष्यति ॥१७६॥ अनिश्चितैरध्यवसायभीरुभिर् पदे पदे दोषशतानुदर्शिभिः । फलैर्विसंवादमुपागता गिरः प्रयान्ति लोके परिहासवस्तुताम् ॥१७७॥ मित्रं परित्यजति मुञ्चति बन्धुवर्गं शीघ्रं विहाय जननीमपि जन्मभूमिम् । संसज्य गच्छति विदेशमनिष्टलोकं वित्ताकुलीकृतमतिः पुरुषोऽविलम्ब्य ॥१७८॥७ [पञ्च. ५.२६] अनिष्टसम्प्रयोगाच्च विप्रयोगात्प्रियस्य च । मानुष्या मानसैर्दुःखैर्युज्यन्ते अल्पबुद्धयः ॥१७९॥ अनीर्ष्युर्गुप्तदारश्च सम्विभागी प्रियंवदः । श्लक्ष्णो मधुरवाक्स्त्रीणां न चासां वशगो भवेत॥१८०॥ न पिता नात्मजो नात्मा न माता न सखीजनः । इह प्रेत्य च नारीणां पतिरेको गतिः सदा ॥१८१॥ अनुबन्धं च सम्प्रेक्ष्य विपाकांश्चैव कर्मणाम् । उत्थानमात्मनश्चैव धीरः कुर्वीत वा न वा ॥१८२॥ अनुबन्धानवेक्षेत८ सानुबन्धेषु कर्मसु । सम्प्रधार्य च कुर्वीत न वेगेन समाचरेत॥१८३॥ सत्यश्चात्र प्रवादोऽयं लौकिकः प्रतिभाति माम् । पित्èन्समनुजायन्ते नरा मातरमङ्गनाः ॥१८४॥ [रा. २.३५.२८] अनुयाति न भर्तारं यदि दैवात्कथंचन । तथापि शीलं संरक्ष्यं शीलभङ्गात्पतत्यधः ॥१८५॥ अनेकचित्तमन्त्रस्तु द्वेष्यो भवति मन्त्रिणाम् । अनवस्थितचित्तत्वात्कर्ये तैः स उपेक्ष्यते ॥१८६॥ मूढ जहीहि धनागमतृष्णां कुरु तनुबुद्धिमनःसु वितृष्णाम् । यल्लभसे निजकर्मोपात्तं वित्तं तेन विनोदय चित्तम् ॥१८७॥ [मोहमुद्गर] अन्तर्दुष्टः क्षमायुक्तः सर्वानर्थकरः किल । शकुनिः शकटारश्च दृष्टान्तावत्र भूपते ॥१८८॥ अन्तर्ये सततं लुथन्त्यगणितास्तानेव पाथोधरैर् आत्तानापततस्तरङ्गवलयैरालिङ्ग्य गृह्णन्नसौ । व्यक्तं मौक्तिकरत्नतां जलकणान्सम्प्रापयत्यम्बुधिः प्रायोऽन्येन कृतादरो लघुरपि प्राप्तोऽर्च्यते स्वामिभिः ॥१८९॥ मूर्खा यत्र न पूज्यन्ते धान्यं यत्र सुसञ्चितम् । दम्पत्योः कलहो नास्ति तत्रश्रीः स्वयमागता ॥१९०॥ [बृ.चा. ३.२१] अन्त्येषु रेमिरे धीरा न ते मध्येषु रेमिरे । अन्त्यप्राप्तिं सुखं प्राहुर्दुःखमन्तरमन्त्ययोः ॥१९१॥ मूलमेवादितश्छिन्द्यात्परपक्षस्य नित्यशः । ततः सहायांस्तत्पक्षान्सर्वांश्च तदनन्तरम् ॥१९२॥ [म.भा. १.५५५७?] अन्योच्छिष्टेषु पात्रेषु भुक्त्वैतेषु महीभुजः । कस्मान्न लज्जामवहञ् शौचचिन्तां न वा दधुः ॥१९३॥ अन्यो धनं प्रेतगतस्य भुङ्क्ते वयांसि चाग्निश्च शरीरधातून। द्वाभ्यामयं सह गच्छत्यमुत्र पुण्येन पापेन च वेष्ट्यमानः ॥१९४॥ चलस्वभावा दुःसेव्या दुर्ग्राह्या भावतस्तथा । प्राज्ञस्य पुरुषस्येह यथा वाचस्तथा श्रियः ॥१९५॥ अन्योन्यसमुपष्टम्भादन्योन्यापाश्रयेण च । ज्ञातयः सम्प्रवर्धन्ते सरसीवोत्पलान्युत ॥१९६॥ अन्यो हि नाश्नाति कृतं हि कर्म स एव कर्ता सुखदुःखभागी । यत्तेन किञ्चिद्धि कृतं हि कर्म तदश्नुते नास्ति कृतस्य नाशः ॥१९७॥ [म.भा. ३.१३८६८] उद्योगेन विना नैव कार्यं किमपि सिध्यति । नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥१९८॥ अपकारिणि विस्रम्भं यः करोति नराधमः । अनाथो दुर्बलो यद्वन्न चिरं स तु जीवति ॥१९९॥ [ह.वं. ११६३] लोभादेव नरा मूढा धनविद्यान्विता अपि । अकृत्येषु वियोज्यन्ते भ्राम्यन्ते दुर्गमेष्वपि ॥२००॥ [हि. १.३४] अन्यो हि नाश्नाति कृतं हि कर्म स एव कर्ता सुखदुःखभागी । यत्तेन किञ्चिद्धि कृतं हि कर्म तदश्नुते नास्ति कृतस्य नाशः ॥२०१॥ [म.भा. ३.?] अपहत्य तमस्तीव्रं यथा भात्युदरे रविः । तथापहत्य पाप्मानं भाति गङ्गाजलोक्षितः ॥२०२॥ [विक्रम. १८१] अपां प्रवाहो गाङ्गोऽपि समुद्रं प्राप्य तद्रसः । भवत्यवश्यं तद्विद्वान्नाश्रयेदशुभात्मकम् ॥२०३॥ [का.नी. ५.८] सुखमेव हि दुःखान्तं कदाचिद्दुःखतः सुखम् । तस्मादेतद्द्वयं जह्याद्य इच्छेच्छाश्वतं सुखम् ॥२०४॥ [म.भा. १२.७५५?] अपि मन्दत्वमापन्नो नष्टो वापीष्टदर्शनात। प्रायेण प्राणिनां भूयो दुःखवेगोऽधिको भवेत॥२०५॥ [पञ्च. २.१७४] अपि मार्दवभावेन गात्रं संलीय बुद्धिमान। अरिं नाशयते नित्यं यथा वल्ली महाद्रुमम् ॥२०६॥ [हरि. ११६७] सुखार्थी नागारिप्रतिभयशमात्प्रत्युत सुखं जहौ शेषस्तल्पीकृततनु निषेव्यासुररिपुम् । यतस्तेनामुष्मिन्नधिगतवता क्लेशसहतां श्रमाधायि न्यस्तं निरवधि धराभारवहनम् ॥२०७॥ [रा.त. ३.२१५] अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च । तस्मात्पुत्रमुखं दृष्ट्वा भवेत्पश्चाद्धि तापसः ॥२०८॥ [विक्रम. ८५] अपूर्विणा न कर्तव्यं कर्म लोके विगर्हितम् । कृतपूर्विणस्तु त्यजतो महान्धर्म इति श्रुतिः ॥२०९॥ [म.भा.१२.२८३.५] सुखदुःखानि भूतानामजरो जरयत्यसौ । आदित्यो ह्यस्तमभ्येति पुनः पुनरुदेति च ॥२१०॥ [म.भा. १२.३१८.७] अप्युन्मत्तात्प्रलपतो बालाच्च परिसर्पतः । सर्वतः सारमादद्यादश्मभ्य इव काञ्चनम् ॥२११॥ [म.भा. ५] अप्रसादोऽनधिष्ठानं देयांशहरणं च यत। कालयापोऽप्रतीकारस्तद्वैराग्यस्य कारणम् ॥२१२॥ [हि. ३.९०] सुखदुःखे समे स्यातां जन्तूनां क्लेशहेतुके । मूर्ध्नि तापिन्केशानां भवेतां स्नेहच्छेदने ॥२१३॥ [दृ.श. ४७] अप्रियैरपि निष्पिष्टैः किं स्यात्क्लेशासहिष्णुभिः । ये तदुन्मूलने शक्ता जिगीषा तेषु शोभते ॥२१४॥ [रा.त. ३.२८३] अभयस्य हि यो दाता स पूज्यः सततं नृपः । सत्रं हि वर्धते तस्य सदैवाभयदक्षिणम् ॥२१५॥ [म.भा. १२] सुखदुःखे हि पुरुषः पर्यायेणोपसेवते । न ह्यनन्तं सुखं कश्चित्प्राप्नोति पुरुषर्षभ ॥२१६॥ [बृ.चा. ४.१३] अभिन्नवेलौ गम्भीरावम्बुराशिर्भवानपि । असावञ्जनसंकाशस्त्वं तु चामीकरद्युतिः ॥२१७॥ [काव्या. २.१८३] अभिप्रायं यो विदित्वा तु भर्तुः सर्वाणि कार्याणि करोत्यतन्द्रीः । वक्ता हितानामनुरक्त आर्यः शक्तिज्ञ आत्मेव हि सोऽनुकम्प्यः ॥२१८॥ [म.भा. ५.१३५८] सुखं दुःखान्तमालस्यं दाक्ष्यं दुःखं सुखोदयम् । भूतिः श्रीर्ह्रीर्धृतिः सिद्धिर्नादक्षे निवसन्त्युत ॥२१९॥ [म.भा. १२.२७.३०] वाक्यं तु यो नाद्रियतेऽनुशिष्टः प्रत्याह यश्चापि नियुज्यमानः । प्रज्ञाभिमानी प्रतिकूलवादी त्याज्यः स तादृक्त्वरयैव भृत्यः ॥२२०॥ [?] अभिमानवतां पुंसामात्मसारमजानताम् । अन्धानामिव दृश्यन्ते पतनान्ताः प्रवृत्तयः ॥२२१॥ सुखमापतितं सेवेद्दुःखमापतितं सहेत। कालप्राप्तमुपासीत सस्यानामिव कर्षकः ॥२२२॥ [म.भा. ३.२४५.१५] अभिमानं श्रियं हन्ति पुरुषस्याल्पमेधसः । गर्भेण दुष्यते कन्या गृहवासेन च द्विजः ॥२२३॥ अभियुक्तं बलवता दुर्लभं हीनसाधनम् । हृतस्वं कामिनं चोरमाविशन्ति प्रजागराः ॥२२४॥ सुकरं सर्वथा मैत्रं दुष्करं प्रतिपालनम् । अनित्यत्वाद्हि चित्तानां प्रीतिरल्पेन भिद्यते ॥२२५॥ अभियोक्ता बली यस्मादलब्ध्वा न निवर्तते । उपहारादृते तस्मात्सन्धिरन्यो न विद्यते ॥२२६॥ अभिलक्ष्यं स्थिरं पुण्यं ख्यातं सद्भिर्निषेवितम् । सेवेत सिद्धिमन्विच्छञ् श्लाघ्यं विन्ध्यमिवेश्वरम् ॥२२७॥ यथा शरीरमेवेदं जलबुद्बुदसंनिभम् । प्रवातदीपचपलास्तथा कस्य कृते श्रियः ॥२२८॥ [कथा.स. २२.४०] यथा हि पुरुषः कुर्याच्छरीरे यत्नमुत्तमम् । वसनाद्यैरुपायैस्तु तथा राज्ये नराधिपः ॥२२९॥ [सं.पाठोप. ५६] अमित्रं नैव मुञ्चेत ब्रुवन्तं करुणान्यपि । दुःखं तत्र न कुर्वीत हन्यात्पूर्वापकारिणम् ॥२३०॥ अमित्रादुन्नतिं प्राप्य नोन्नतोऽस्मीति विश्वसेत। तस्मात्प्राप्योन्नतिं नश्येत्प्रावार इव कीटकः ॥२३१॥ यथा हि भरतो वर्णैर्वर्णयत्यात्मनस्तनुम् । नानारूपाणि कुर्वाणस्तथात्मा कर्मजास्तनूः ॥२३२॥ [याज्ञ. ३.१६२] अमित्रो न विमोक्तव्यः कृपणं बह्वपि ब्रुवन। कृपा तस्मिन्न कर्तव्या हन्यादेवापकारिणम् ॥२३३॥ अमित्रो मित्रतां याति मित्रं चापि प्रदुष्यति । सामर्थ्ययोगात्कार्याणां तद्गत्या हि सदा गतिः ॥२३४॥ बुद्धिः प्रभावस्तेजश्च सत्त्वमुत्थानमेव च । व्यवसायश्च यस्य स्यात्तस्यावृत्ति भयं कुतः ॥२३५॥ [म.भा. ५.३७.३७] अमृतं चैव मृत्युश्च द्वयं देहे प्रतिष्ठितम् । मृत्युमापद्यते मोहात्सत्येनापद्यतेऽमृतम् ॥२३६॥ बुद्धिमन्तं कृतप्रज्ञं शुश्रूसुमनसूयकम् । दान्तं जितेन्द्रियं चापि शोको न स्पृशते नरम् ॥२३७॥ [म.भा. १२.१६८.३२] बुद्धिमन्तं च मूढं च शूरं भीरुं जदं कविम् । दुर्बलं बलवन्तं च भागिनं भजते सुखम् ॥२३८॥ [म.भा. १२.१६८.२२] बुद्धिरूपगुणायुष्मत्पुत्रान्विद्याविशारदान। प्राप्नुवन्ति नराः सर्वे सुकृतैः पूर्वजन्मनि ॥२३९॥ [प्रसङ्गा. बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत । तानि जङ्घा जघन्यानि भारप्रत्यवराणि च ॥२४०॥ [म.भा. ५.३५.६५] दिशो वासः पात्रं करकुहरमेणाः प्रणयिनः समाधानं निद्रा शयनमवनी मूलमशनम् । कदैतत्सम्पूर्णं मम हृदयवृत्तेरभिमतं भविष्यत्युग्रं परमपरितोषोपचितये ॥२४१॥ तपःसीमा मुक्तिः सकलगुणसीमा वितरणं कलासीमा काव्यं जननसुखसीमा सुवदना । भियः सीमा मृत्युः सुकृतकुलसीमाश्रितभृतिः क्षुधासीमान्नान्तः श्रुतिमुखसीमा हरिकथा ॥२४२॥ [प्रसङ्गा. १०] यदा विनाशकालो वै लक्ष्यते दैवनिर्मितः । तदा वै विपरीतेषु मनः प्रकुरुते नरः ॥२४३॥ [रा. ३.६२.२०] व्यालाश्रयापि विकलापि सकण्टकापि वक्रापि पङ्किलभवापि दुरासदापि । गन्धेन बन्धुरसि केतकि सर्वजन्तोर् एको गुणः खलु निहन्ति समस्तदोषान॥२४४॥ [बृ.चा. १७.२१] प्रेयांस्तेऽहं त्वमपि च मे प्रेयसीति प्रवादस् त्वं मे प्राणा अहमपि तवास्मीति हन्त प्रलापः । त्वं मे ते स्यामहमपि च यत्तच्च नो साधु राधे व्याहारे नौ नहि समुचितो युष्मदस्मत्प्रयोगः ॥२४५॥ उत्थिता एव पूज्यन्ते जनाः कार्यार्थिभिर्नरैः । शत्रुवत्पतितं को नु वन्दते मानवं पुनः ॥२४६॥ उत्पततोऽप्यन्तरिक्षं गच्छतोऽपि महीतलम् । धावतः पृथिवीं सर्वां नादत्तमुपतिष्ठति ॥२४७॥ उत्पन्नमापदं यस्तु समाधत्ते स बुद्धिमान। वणिजो भार्यया जारः प्रत्यक्षे निह्नुतो यथा ॥२४८॥ उपशमफलाद्विद्याबीजात्फलं धनमिच्छतां भवति विफलः प्रारम्भो यत्तदत्र किमद्भुतम् । नियतविषयाः सर्वे भावा न यान्ति हि विक्रियां जनयितुमलं शालेर्बीजं न जातु यवाङ्कुरम् ॥२४९॥ एकः स्वादु न भुञ्जीत एकश्चार्थान्न चिन्तयेत। एको न गच्छेदध्वानं नैकः सुप्तेषु जागृयात॥२५०॥ एकाकी गृहसन्त्यक्तः पाणिपात्रो दिगम्बरः । सोऽपि सम्बाध्यते लोके तृष्णया पश्य कौतुकम् ॥२५१॥ एकाकी निःस्पृहः शान्तः पाणिपात्रो दिगम्बरः । कदा शम्भो भविष्यामि कर्मनिर्मूलनक्षमः ॥२५२॥ द्वाविमौ न विराजेते विपरीतेन कर्मणा । गृहस्थश्च न्रारम्भः कार्यवांश्चैव भिक्षुकः ॥२५३॥ आहरयति न स्वस्थो विनिद्रो न प्रबुध्यते । वक्ति न स्वेच्छया किञ्चित्सेवकोऽपीह जीवति ॥२५४॥ आयस्य तुर्यभागेन व्ययकर्म प्रवर्तयन। अन्यूनतैलदीपोऽपि चिरं भद्राणि पश्यति ॥२५५॥ आयत्यां गुणदोषज्ञस्तदात्वे क्षिप्रनिश्चयः । अतीते कार्यशेषज्ञः शत्रुभिर्नाभिभूयते ॥२५६॥ आयत्यां च तदात्वे च यत्स्यादास्वादपेशलम् । तदेव तस्य कुर्वीत न लोकद्विष्टमाचरेत॥२५७॥ एतत्कामफलं लोके यद्द्वयोरेकचित्तता । अन्यचित्तकृते कामे शवयोरिव सङ्गमः ॥२५८॥ एतस्मादमृतं सुरैः शतमखेनोच्चैःश्रवाः सद्गुणः कृष्णेनाद्भुतविक्रमैकवसतिर्लक्ष्मीः समासादिता । इत्यादि प्रचुराः पुरातनकथाः सर्वेभ्य एव श्रुता अस्माभिस्तु न दृष्टमत्र जलधौ मिष्टं पयोऽपि क्वचित॥२५९॥ धैर्यं हि कार्यं सततं महद्भिः कृच्छ्रेऽपि कष्टेऽप्यतिसङ्कटेऽपि । कृच्छ्राण्यकृच्छ्रेण समुत्तरन्ति धैर्योच्छ्रिता ये प्रतिपत्तिदक्षाः ॥२६०॥ देहि देहीति जल्पन्ति त्यागिनोऽर्थार्थिनोऽपि च । आलोकयन्ति यावत्स्यादस्ति नास्तीति न क्वचित॥२६१॥ एके सत्पुरुषाः परार्थघटकाः स्वार्थं परित्यज्य ये सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये । तेऽमी मानुषराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये ये तु घ्नन्ति निरर्थकं परहितं ते के न जामीमहे ॥२६२॥ देवस्याम्बुमुचश्च नास्ति नियमः कोऽप्यानुकूल्यं प्रति व्यञ्जन्यः प्रियमुत्कटं घटयते जन्तोः क्षणादप्रियम् । क्षिप्रं दीर्घनिदाघवासरवियत्सन्तापनिर्वापणां प्रादुष्कृत्य वनस्पतेः प्रकुरुते विद्युद्विसर्गं च सः ॥२६३॥ [सूक्ति. १०५.२] देवी श्रीर्जनकात्मजा दशमुखस्यासीद्गृहे रक्षसो नीता चैव रसातलं भगवती वेदत्रयी दानवैः । गन्धर्वस्य मदालसां च तनयां पातालकेतुच्छलाद् दैत्येन्द्रोऽपजहार हन्त विषमा वामा विधेर्वृत्तयः ॥२६४॥ किमशक्यं बुद्धिमतां किमसाध्यं निश्चयं दृढं दधताम् । किमशक्यं प्रियवचसां किमलभ्यंमिहोद्यमस्थानाम् ॥२६५॥ गन्धाप्यसौ भुवनविदिता केतकी स्वर्णवर्णा पद्मभ्रान्त्या चपलमधुपः पुष्पमध्ये पपात । अन्धीभूतः कुसुमरजसा कण्टकैर्लूनपक्षः स्थातुं गन्तुं द्वयमपि सखे नैव शक्तो द्विरेफः ॥२६६॥ [पद्म.सृ. १९] गवार्थे ब्राह्मणार्थे च स्वाम्यर्थे स्त्रीकृतेऽथवा । स्थानार्थे यस्त्यजेत्प्राणांस्तस्य लोकाः सनातनाः ॥२६७॥ गावो गन्धेन पश्यन्ति वेदेनैव द्विजातयः । चारैः पश्यन्ति राजानश्चक्षुर्भ्यामितरे जनाः ॥२६८॥ [विक्र्. ११७] त्यागो गुणो गुणशताभ्यधिको मतो मे विद्यापि भूषयति तं यदि किं ब्रवीमि । शौर्यं च नाम यदि तत्र नमोऽस्तु तस्मै तच्च त्रयं न च यदीर्ष्यति चित्रमेतत॥२६९॥ त्याज्यं सुखं विषयसङ्गमजन्म पुंसां दुःखोपसृष्टमिति मूर्ख विचारणैषा । व्रीहीं जिहासति सिस्थिततुण्डलाढ्यान् को नाम भोस्तुषकणोपहितान्हितार्थी ॥२७०॥ दुर्गं त्रिकूटः परिखा समुद्रो रक्षांसि योधा धनदाच्च वित्तम् । शास्त्रं च यस्योशनसा प्रणीतं स रावणो दैववशाद्विपन्नः ॥२७१॥ [गरुड.अ. ११३] कर्मानुमेयाः सर्वत्र परोक्षगुणवृत्तयः । तस्मात्परोक्षवृत्तीनां फलैः कर्म विभावयेत॥२७२॥ [हि. ४.१०६] किं गजेन प्रभिन्नेन राजकर्माण्यकुर्वता । स्थूलोऽपि यदि वास्थूलः श्रेयान्कृत्यकरः पुमान॥२७३॥ किं चन्दनैः सकर्पूरैस्तुहिनैः शीतैश्च किम् । सर्वे ते मित्रगात्रस्य कलां नार्हन्ति षोडशीम् ॥२७४॥ [शृ.ति. २.२] नोपभोक्तुं न च त्यक्तुं शक्नोति विषयान्जरी । अस्थि निर्दशनः श्वेव जिह्वया लेढि केवलम् ॥२७५॥ [हि. १.११३] नो सत्येन मृगाङ्क एष वदनीभूतो न चेन्दीवर द्वन्द्वं लोचनतां गत न कनकैरप्यङ्गयष्टिः कृता । किन्त्वेवं कविभिः प्रतारितमनास्तत्त्वं विजानन्नपि त्वङ्मांसास्थिमयं वपुर्मृगदृशां मन्दो जनः सेवते ॥२७६॥ [शृ.श. ४६] दायादा व्ययभीरुतापरिहृतारब्धेर्भवन्त्युन्नता भृत्याः प्रत्युपकारकातरमतेः कुर्युर्न कोऽपि प्रियम् । राशीभूतधनस्य जीवितहृतौ शश्वद्यतेरन्निजा भूभर्तुः क्रियते द्विषेव रभसाल्लोभेन किं नाप्रियम् ॥२७७॥ [रा.त. ५.१९०] कोकिलोऽहं भवान्काकः समानः कालिमावयोः । अन्तरं कथयिष्यन्ति काकलीकोविदाः पुनः ॥२७८॥ [सा.द. १०.५९] क्व स दशरथः स्वर्गे भूत्वा महेन्द्रसुहृद्गतः क्व स जलनिधेर्वेलां बद्ध्वा नृपः सगरस्तथा । क्व स करतलाज्जातो वैण्यः क्व सूर्यतनुर्मनुर् ननु बलवता कालेनैते प्रबध्य निमीलिताः ॥२७९॥ [पञ्च. ३.२५३] आदीर्घेण चलेन वक्रगतिना तेजस्विना योगिना नीलाब्जद्युतिनाहिना वरमहं दृश्यो९ न तच्चक्षुषा । दष्टे सन्ति चिकित्सका दिशि दिशि प्रायेण धर्मार्थिनो मुग्धाक्षीक्षणवीक्षितस्य नहि मे वैद्यो न चाप्यौषधम् ॥२८०॥ [शृ.श. ५५] आदौ चित्ते ततः काये सतां संजायते जरा । असतां च पुनः काये नैव चित्ते कदाचन ॥२८१॥ [पञ्च. १.१७७] अत्युक्तिं रहसि गतं विचित्रमत्येन भाषमाणं च । उचितप्रणयमपि नृपं सहसार्या नोपसर्पन्ति ॥२८२॥ दुर्जनसङ्गतिरनर्थपरम्पराया हेतुः सतामधिगतं वचनीयमत्र । लङ्केश्वरे हरति दाशरथेः कलत्रं प्राप्नोति बन्धमघ दक्षिणसिन्धुराजः ॥२८३॥ [विक्रम १९७] जलौकयोपनीयन्ते प्रमदा मन्दबुद्धिभिः । मृगीदृशां जलाकानां विचारान्महदन्तरम् ॥२८४॥ [काशीखण्ड ६.८५] जलौका केवलं रक्तमाददाना तपस्विनाम् । प्रमदा सर्वमादत्ते चित्तं वित्तं बलं सुखम् ॥२८५॥ [काशीखण्ड ६.८६] कुलं वृत्तं च शौर्यं च समेतन्न गण्यते । दुर्वृत्तेऽप्यकुलीनेऽपि जनो दातरि रज्यते ॥२८६॥ [कामं. नी. ५.६०] दाता लघुरपि सेव्यो भवति न कृपणो महानपि समृद्ध्या । कूपोऽन्तःस्वादुजलः प्रीत्यै लोकस्य न समुद्रः ॥२८७॥ [पञ्च ६.८५] निःश्वासोद्गीर्णहुतभुग्धूमधूम्रीकृताननैः । वरमाशीविषैः सङ्गं कुर्यान्न त्वेव दुर्जनैः ॥२८८॥ [का.नी. ३.१८] किं रुद्धः प्रियया कयाचिदथवा सख्या तयोद्वेजितः किं वा कारणगौरवं किमपि यन्नाद्यागतो वल्लभः । इत्यालोच्य मृगीदृशा करतले संस्थाप्य वक्त्राम्बुजं दीर्घे निःश्वसितं चिरं च रुदितं क्षिप्ताश्च पुष्पस्रजः ॥२८९॥ [शृङ्गारतिलकः १.७५] कालिदासकविता नवं वयो माहिषं दधि सशर्करं पयः । एणमांसमबला च कोमला सम्भवन्तु मम जन्मजन्मनि ॥२९०॥ [पद्य.सं. १५] उपायो न जयो यादृग्रिपोस्तादृङ्न हेतिभिः । उपायज्ञोऽल्पकायोऽपि न शूरैः परिभूयते ॥२९१॥ [?] आगतं विग्रहं विद्वानुपायैः प्रशमं नयेत। विजयस्य ह्यनित्यत्वाद्रभसेन न सम्पतेत॥२९२॥ [का.नी. १०.३१] नैतद्विचित्रं मनुजार्भमायिनः परावराणां परमस्य वेधसः । अघोऽपि यत्स्पर्शनधौतपातकः प्रापात्मसाम्यं त्वसतां सुदुर्लभम् ॥२९३॥ [भा.पु. १०.१२.३८] ये बालभावान्न पठन्ति विद्यां ये यौवनश्ता ह्यधनात्मदाराः । ते शोचनीया इह जीवलोके मनुष्यरूपेण मृगाश्चरन्ति ॥२९४॥ [विक्रम १२३] दमेन हीनं न पुनन्ति वेदा यद्यप्यधीताः सह षड्भिरङ्गैः । साङ्ख्यं च योगश्च कुलं च जन्म तीर्थाभिषेकश्च निरर्थकानि ॥२९५॥ [पद्म.सृष्टि. १९] कालो दैवं कर्म जीवः स्वभावो द्रव्यं क्षेत्रं प्राण आत्मा विकारः । तत्संघातो बीजरोहप्रवाहस् त्वन्मायैषा तन्निषेधं प्रपद्ये ॥२९६॥ शत्रोरपत्यानि प्रियंवदानि नोपेक्षितव्यानि बुधैर्मनुष्यैः । तान्येव कालेषु विपत्कराणि विषस्य पात्राण्यपि दारुणानि ॥२९७॥ [बृ.नीति. ११०] ऋतेन जीवेदनृतेन जीवेन् मितेन जीवेत्प्रमितेन जीवेत। सत्यानृताभ्यामथवापि जीवेत् श्ववृत्तिमेकां परिवर्जयेत्तु ॥२९८॥ [?] अक्रोधनः क्रोधनेभ्यो विशिष्टस् तथा तितिक्षुरतितिक्षोर्विशिष्टः । अमानुषेभ्यो मानुषाश्च प्रधाना विद्वांस्तथैवाविदुषः प्रधानः ॥२९९॥ [म.भा. १.८२.६] नास्तीदृशं संवननं त्रिषु लोकेषु किञ्चन । यथा मैत्री च लोकेषु दानं च मधुरा च वाक॥३००॥ [मत्स्य.अ. ३६] न तथा तप्यते विद्धः पुमान्बाणैस्तु मर्मगैः । यथा तुदन्ति मर्मस्था ह्यसतां परुषेषवः ॥३०१॥ [भा.पु. ११.२३.३] शूरत्वयुक्ता मृदुमन्दवाक्या जितेन्द्रियाः सत्यपराक्रमाश्च । प्रागेव पश्चाद्विपरीतरूपा ये ते तु भृत्या न हिता भवन्ति ॥३०२॥ [?] यस्यात्मबुद्धिः कुणपे त्रिधातुके स्वधीः कलत्रादिषु भौम इज्यधीः । यत्तीर्थबुद्धिः सलिले न कर्हिचिज् जनेष्वभिज्ञेषु स एव गोखरः ॥३०३॥ [भा.पु. १०.८४.१३] कं योजयेन्मनुजोऽर्थं लभेत निपातयन्नष्टदशं हि गर्ते । एवं नराणां विषयस्पृहा च निपातयन्निरये त्वन्धकूपे ॥३०४॥ [?] तान्वीक्ष्य कृष्णः सकलाभयप्रदो ह्यनन्यनाथान्स्वकरादवच्युतान। दीनांश्च मृत्योर्जठराग्निघासान् घृणार्दितो दिष्टकृतेन विस्मितः ॥३०५॥ [भा.पु. १०.१२.२७] लोकः स्वयं श्रेयसि नष्टदृष्टिर् योऽर्थान्समीहेत निकामकामः । अन्योन्यवैरः सुखलेशहेतोर् अनन्तदुःखं च न वेद मूढः ॥३०६॥ [भा.पु. ५.५.१६] सत्यां क्षितौ किं कशिपोः प्रयासैर् बाहौ स्वसिद्धे ह्युपबर्हणैः किम् । सत्यञ्जलौ किं पुरुधान्नपात्र्या दिग्वल्कलादौ सति किं दुकूलैः ॥३०७॥ [भा.पु. २.२.४] भूतैराक्र्मयमाणोऽपि धीरो दैववशानुगैः । तद्विद्वान्न चलेन्मार्गादन्वशिक्षं क्षितेर्व्रतम् ॥३०८॥ [भा.पु. ११.७.३७] प्राणवृत्त्यैव सन्तुष्येन्मुनिर्नैवेन्द्रियप्रियैः । ज्ञानं यथा न नश्येत नावकीर्येत वाङ्मनः ॥३०९॥ [भा.पु. ११.७.३९] गुणैर्गुणानुपादत्ते यथाकालं विमुञ्चति । न तेषु युज्यते योगी गोभिर्गा इव गोपतिःच॥३१०॥ [भा.पु. ११.७.५०] नैषां मतिस्तावदुरुक्रमाङ्घ्रिं स्पृशत्यनर्थापगमो यदर्थः । महीयसां पादरजोऽभिषेकं निष्किञ्चनानां न वृणीत यावत॥३११॥ [भा.पु. ७.५.३२] नवनीतोपमा वाणी करुणाकोमलं मनः । धर्मबीजप्रसूतानामेतत्प्रत्यक्षलक्षणम् ॥३१२॥ [सूक्ति १३०.२] कोकिलानां स्वरो रूपं नारीरूपं पतिव्रता । विद्या रूपं कुरूपाणां क्षमा रूपं तपस्विनाम् ॥३१३॥ किं जीवितेन धनमानविवर्जितेन मित्रेण किं भवति भीतिसशङ्कितेन । सिंहव्रतं चरत गच्छत मा विषादं काकोऽपि जीवति चिरं च बलिं च भुङ्क्ते ॥३१४॥ तन्मङ्गलं यत्र मनः प्रसन्नं तज्जीवनं यन्न परस्य सेवा । तद्गर्जितं यत्स्वजनेन भुक्तं तद्वर्जितं यत्समरे रिपूणाम् ॥३१५॥ [?] वेदादिशास्त्रमखिलं प्रपठन्तु लोकाः कुर्वन्तु नाम क्षितिपालसेवाम् । उग्रं तपः प्रतिदिवं प्रतिसाधयन्तु न श्रीस्तथापि च भजत्यतिभाग्यहीनम् ॥३१६॥ [प.पु. ७.५.१५६] त्यक्त्वालसान्दैवपरान्मनुष्यान् उत्थानयुक्तान्पुरुषाद्धि लक्ष्मीः । अन्विष्य यत्नाद्वृणुयान्नृपेन्द्र त्स्मात्सदोत्थानवता हि भाव्यम् ॥३१७॥ [?] नित्यं छेदस्तृणानां धरणिविलिल्खनं पादयोश्चापमार्ष्टिर् दन्तानामल्पशौचं मलिनवसनता रूक्षता मूर्धजानाम् । द्वैसन्ध्ये चापि निद्रा विवसनशयनं ग्रासहासातिरेकः स्वाङ्गे पीठे च वाद्यं हरति धनपतेः केशवस्यापि लक्ष्मीम् ॥३१८॥ [अष्टरत्न ३] कुचैलिनं दन्तमलोपधारिणं बह्वाशिनं निष्ठुरभाषिणं च । सूर्योदये चास्तमिते शयानं विमुञ्चति श्रीर्यदि चक्रपाणिः ॥३१९॥ [बृ.चा. १५.४] तद्वीर्यादधिकं यस्तु पुनरन्यत्स्वशक्तितः । निष्पादयति तं प्राज्ञाः प्रवदन्ति नरोत्तमम् ॥३२०॥ [?] भिक्षाशी जनमध्यसङ्गरहितः स्वायत्तचेष्टः सदा दानादानविरक्तमार्गनिरतः कश्चित्तपस्वी स्थितः । रथ्याकीर्णविशीर्णजीर्णवसनैरास्यूतकन्थाधरो निर्मानो निरहङ्कृतिः शमसुधाभोगैकबद्धस्पृहः ॥३२१॥ [?] रोहते सायकैर्विद्धं छिन्नं रोहति चासिना । वचो दुरुक्तं बीभत्सं न प्ररोहति वाक्क्षतम् ॥३२२॥ [पञ्च. ३.१११] शय्या शैलशिलागृहं गिरिगुहा वस्त्रं तरुणां त्वचः सारङ्गाः सुहृदो ननु क्षितिरुहां वृत्तिः फलैः कोमलैः । येसां निर्झरमम्बुपानमुचितं रत्यै तु विद्याङ्गना मन्ये ते परमेश्वराः शिरसि यरि बद्धो न सेवाञ्जलिः ॥३२३॥ [वै.श. ८७] स्वामिनि गुणान्तरज्ञे गुणवति भृत्येऽनुवर्तिनि कलये । सुहृदि निरन्तरचित्ते निवेद्य दुःखं सुखी भवति ॥३२४॥ [पञ्च. १.२२०] ताम्बूलं कटुतिक्तमिश्रमधुरं क्षारं कषायान्वितं वातघ्नं कफनाशनं कृमिहरं दौर्गन्ध्यदोषापहम् । वक्त्रस्याभरणं मलापहरणं कामाग्निसन्दीपनं ताम्बूलस्य सखे त्रयोदश गुणाः स्वर्गेऽप्यमी दुर्लभाः ॥३२५॥ [शा.प. १४१६] यः पित्रा समुपात्तानि धनवीर्ययशांसि वै । न्यूनतां नयति प्राज्ञस्तमाहुः पुरुषाधमम् ॥३२६॥ [मार्क.पु. २१.९५] भोगा भङ्गुरवृत्तयो बहुविधास्तैरेव चायं भवस् तत्कस्येह कृते परिभ्रमत रे लोकाः कृतं चेष्टितैः । आशापाशशतापशान्तिविशदं चेतःसमाधीयतां कामोत्पत्तिवशात्स्वधामनि यदि श्रद्धेयमस्मद्वचः ॥३२७॥ [वै.श. ३९] लज्जां गुणौघजननीं जननीमिव स्वां अत्यन्तशुद्धहृदयामनुवर्तमानाः । तेजस्विनः सुखमसूनपि सन्त्यजन्ति सत्यव्रतव्यसनिनो न पुनः प्रतिज्ञाम् ॥३२८॥ [भर्तृ.सं ३१८] शीघ्रकृत्येषु कार्येषु विलम्बयति यो नरः । तत्कृत्यं देवतास्तस्य कोपाद्विघ्नन्त्यसंशयम् ॥३२९॥ [पञ्च. ३.२१८] आत्मभाग्यक्षतद्रव्यः स्त्रीद्रव्येणानुकम्पितः । अर्थतः पुरुषो नारी या नारी सार्थतः पुमान॥३३०॥ [?] दक्षता भद्रता दार्ढ्यं क्षान्तिः क्लेशसहिष्णुता । सन्तोषः शीलमुत्साहो मण्डयन्त्यनुजीविनम् ॥३३१॥ यदुपात्तं यशः पित्रा धनं वीर्यमथापि वा । तन्न हापयते यस्तु स नरो मध्यमः स्मृतः ॥३३२॥ प्रियमेवाभिधातव्यं नित्यं सत्सु द्विषत्सु च । शिखीव केकामधुरः प्रियवाक्कस्य न प्रियः ॥३३३॥ राज्ञो विपद्बन्धुवियोगदुःखं देशच्युतिर्दुर्गममार्गखेदः । आस्वाद्यतेऽस्याः कटु निष्फलायाः फलं मयैतच्चिरजीवितायाः ॥३३४॥ [दशरूपक] वीतव्यसनमश्रान्तं महोत्साहं महामतिम् । प्रविशन्ति सदा लक्ष्म्यः सरित्पतिमिवापगाः ॥३३५॥ स्थानमुत्सृज्य गच्छन्ति सिंहाः सत्पुरुषा गजाः । तत्रैव निधनं यान्ति काकाः कापुरुषा मृगाः ॥३३६॥ के वा न सन्ति तामरसावतंसा हंसावलीवलयिनो जलसंनिवेशाः । किं चातकः फलमपेक्ष्य सवज्रपातां पौरन्दरीमुपगतो नववारिधाराम् ॥३३७॥ मानमुद्वहतः पुंसो वरमापत्पदे पदे । मानहीनं सुरैह्सार्धं विमानमपि सन्त्यजेत॥३३८॥ [भर्तृ.सं. ६४८] पुनर्दाराः पुनर्वित्तं पुनर्क्षेत्रं पुनः पुनः । पुनः शुभाशुभं कर्म शरीरं न पुनः पुनः ॥३३९॥ [बृ.चा. १४.३]१० रथः शरीरं पुरुषस्य राजन्न् आत्मा नियन्तेन्द्रियान्यस्य चाश्वाः । तैरप्रमत्तः कुशली सदश्वैर् दान्तैः सुखं याति रथीव धीरः ॥३४०॥ [म.भा. ५.३४.५७] विधात्रा रचिता रेखा ललाटेऽक्षरमालिका । न तां मार्जयितुं शक्तः स्वबुद्ध्याप्यतिपण्डितः ॥३४१॥ [पञ्च. २.१८०] सत्यं जना वच्मि न पक्षपाताल् लोकेषु सर्वेषु च११ तथ्यमेतत। नान्यन्मनोहारि नितम्बिनीभ्यो दुःखस्य हेतुर्न च कश्चिदन्यः ॥३४२॥ [शृ.श. ४०] एकं भूमिपतिः करोति सचिवं राज्ये प्रमाणं यदा तं मोहाच्छ्रयते मदः स च मदाद्दास्येन निर्विद्यते । निर्विण्णस्य पदं करोति हृदये तस्य स्वतन्त्रस्पृहा स्वातन्त्र्यस्पृहया ततः स नृपतेः प्राणानभिद्रुह्यति ॥३४३॥ सत्यमेव व्रतं यस्य दया दीनेषु सर्वथा । कामक्रोधौ वशे यस्य तेन लोकत्रयं जितम् ॥३४४॥ [महानिर्वाणतन्त्र २१] परं क्षिपति दोषेण वर्तमानः स्वयं तथा । यश्च क्रुध्यत्यनीशः सन्स च मूढतमो नरः ॥३४५॥ [म.भा. ५.३३.३६] धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत। सन्निमित्तं वरं त्यागो विनाशे नियते सति ॥३४६॥ संनियच्छति यो वेगमुत्थितं क्रोधहर्षयोः । स श्रियो भाजनं राजन्यश्चापत्सु न मुह्यति ॥३४७॥ [म.भा. ५.३७.४७] परिचरितव्याः सन्तो यद्यपि कथयन्ति नो सदुपदेशम् । यास्तेषां स्वैरकथास्ता एव भवन्ति शास्त्राणि ॥३४८॥ श्रीर्मङ्गलात्प्रभवति प्रागल्भ्यात्संप्रवर्धते । दाक्ष्यात्तु कुरुते मूलं संयमात्प्रतितिष्ठति ॥३४९॥ [म.भा. ५.३५.४४] पञ्चभिः सम्भृतः कायो यदि पञ्चत्वमागतः । कर्मभिः स्वशरीरोत्थैस्तत्र का परिदेवना ॥३५०॥ [हि. ४.७७]१२ धनहेतोर्य ईहते तस्यानीहा गरीयसी । भूयान्दोषो हि वित्तस्य यश्च धर्मस्तदाश्रयः ॥३५१॥ वाचां शौचं च मनसः शौचमिन्द्रियनिग्रहः । सर्वभूतदयाशौचमेतच्छौचं परार्थिनाम् ॥३५२॥ [बृ.चा. ७.२०] हृष्यन्ति देवताः सर्वा गयन्ति ऋषयस्तथा । नृत्यन्ति पितरः सर्वे ह्यतिथौ गृहमागते ॥३५३॥ [चा.नी.सा. ५१] दुर्वृत्तं वा सुवृत्तं वा सर्वपापरतं तथा । भर्तारं तारयत्येव भार्या धर्मेषु निष्ठिता ॥३५४॥ न भिक्षा दुष्प्रापा पथि मम महारामचरिते फलैः सम्पूर्णा भूरपि मृगसुचर्मापि वसनम् । सुखैर्वा दुःखैर्वा सदृशपरिपाकः खलु सदा त्रिनेत्रं कस्त्यक्त्वा धनलवमदान्धं प्रणमति ॥३५५॥ [भर्तृ.सं.] यद्यपि भ्रातरः क्रुद्धा मार्या वा कारणान्तरे । स्वभावतस्ते प्रीयन्ते नेतरः प्रीयते जनः ॥३५६॥ [म.भा. १२.१३६.१४७] ललाटदेशे रुधिरं स्रवत्तु शूरस्य यस्य प्रविशेच्च वक्त्रे । तत्सोमपानेन समं भवेच्च सङ्ग्रामयज्ञे विधिवत्प्रदिष्टम् ॥३५७]॥ [पञ्च. १.३३४] मीनः स्नानपरः फणी पवनभुङ्मेषश्च पर्णाशनो गर्ते तिष्ठति मूषिकोऽपि विनिप्ने सिंहो बको ध्यानवान। शश्वद्भ्राम्यति चक्रिगौः परिचरन्दैवः सदा देवलः किं तेषां फलं स्ति तेन तपसा तद्भावशुद्धिं कुरु ॥३५८॥ [कविता. ६०] बाहुवीर्यं बलं राज्ञां ब्रह्मणो ब्राह्मविद्बली । रूपयौवनमाधुर्यं स्त्रीणां बलमनुत्तमम् ॥३५९॥ [बृ.चा. ६.११] नश्यतो युध्यतो वापि तावद्भवति जीवितम् । यावद्धातासृजत्पूर्वं न यावन्मनसेप्सितम् ॥३६०॥ [मार्कण्डेयपु. २.४९] पतिर्भार्यां संप्रविश्य गर्भो भूत्वेह जायते । जायायास्तद्धि जायात्वं यदस्यां जायते पुनः ॥३६१॥ [मनु. ९.८] दग्धं दग्धं त्यजति न पुनः काञ्चनं कान्तिवर्णं छिन्नं छिन्नं त्यजति न पुनः स्वादुताभिक्षुदण्डम् । घृष्टं घृष्टं त्यजति न पुनश्चन्दनं चारुगन्धं प्राणान्तेऽपि प्रकृतिविकृतिर्जायते नोत्तमानाम् ॥३६२॥ [म.ना. २६२] नाल्पीयसि निबध्नन्ति पदमुन्नतचेतसः । येषां भुवनलाभेऽपि निःसीमानो मनोरथाः ॥३६३॥ छादयित्वात्मभावं हि चला हि शठबुद्धयः । प्रहरन्ति च रन्ध्रेषु सोऽनर्थः सुमहान्भवेत॥३६४॥ [प्र.भ. २३] नात्यक्त्वा सुखमाप्नोति नात्यक्त्वा विन्दते परम् । नात्यक्त्वा चाभयः शेते त्यक्त्वा सर्वं सुखी भव ॥३६५॥ [म.भा. १२.१७०.२२] तर्षच्छेदो न भवति पुरुषस्येह कल्मषात। निवर्तते तदा तर्षः पापमन्तगतं यदा ॥३६६॥ [?] दिवसे सन्निधानेन पिशुनप्रेरणा प्रभो । ईर्ष्यालुना स्वैरिणीव रक्षितुं यदि पार्यते ॥३६७॥ [?] कर्मणः फलनिर्वृत्तिं स्वयमश्नाति कारकः । प्रत्यक्षं दृश्यते लोके कृतस्याप्यकृतस्य च ॥३६८॥ [?] कं पृच्छामः सुराः स्वर्गे निवसामो वयं भुवि । किं वा काव्यरसः स्वादुः किं वा स्वादीयसी सुधा ॥३६९॥ [?] उर्वीपतेश्च स्फटिकाश्मनश्च शीलोज्झितस्त्रीहृदस्य चान्तः । असंनिधानात्सततस्थितीनाम् अन्योपरागः कुरुते प्रवेशम् ॥३७०॥ आत्मोत्कर्षं न मार्गेत परेषां परिनिन्दया । स्वगुणैरेव मार्गेत विप्रकर्षं पृथग्जनात॥३७१॥ कृतिनोऽपि प्रतीक्ष्यन्ते सहायं कार्यसिद्धये । चक्षुष्मानपि नालोकाद्विना वस्तु न पश्यति ॥३७२॥ किं देवकार्याणि नराधिपस्य कृत्वा विरोधं विषयस्थितानाम् । तद्देवकार्यं जपयज्ञहोमा यस्याश्रुपाता न पतन्ति राष्ट्रे ॥३७३॥ देयमार्तस्य शयनं स्थितश्रान्तस्य चासनम् । तृषितस्य च पानीयं क्षुधितस्य च भोजनम् ॥३७४॥ राजन्रजन्युपाध्यायो देवी यच्छिक्षयेद्रुहः । तत्र प्रजागरः कर्तुमसर्वज्ञैर्न शक्यते ॥३७५॥ [रा.त. ५.३१७] किं ते धनैर्बान्धवैर्वापि किं ते किं ते दारैर्ब्राह्मण यो मरिष्यति । आत्मानमन्विच्छ गुहां प्रविष्टं पितामहस्ते क्व गतः पिता च ॥३७६॥ [म.भा.१२.१६९.३६] न व्याधयो नापि यमः श्रेयः प्राप्तिं प्रतीक्षते । यावदेव भवेत्कल्पस्तावच्छ्रेयो समाचरेत॥३७७॥ [म.भा. २.५१.९३] न व्याधिर्न विषं तापस्तथान्यद्वापि भूतले । दुःखाय स्वशरीरोत्थं मौर्ख्यमेतद्यथा नृणाम् ॥३७८॥ [यो.वा.सा. २.२७] सुखाद्बहुतरं दुःखं जीविते नात्र संशयः । स्निग्धत्वं चेन्द्रियार्थेषु मोहान्मरणमप्रियम् ॥३७९॥ [म.भा. १२.३१७.१६] सामुद्रास्तिमयो नृपाश्च सदृशा एके हृतानम्भसः स्वस्मादेव कणान्धनस्य जहतो जानन्ति ये दातृताम् । सर्वस्मात्स्फुटलुण्ठिताद्वितरतो लेशान्किलान्येऽपि ये दुष्कायस्थकुलस्य हन्त कलयन्त्यन्तर्हिताधायिताम् ॥३८०॥ [रा.त. ४.६२९] सुखं च दुःखं च भवाभवौ च लाभालाभौ मरणं जीवितं च । पर्यायशः सर्वमिह स्पृशन्ति तस्माद्धीरो नैव हृष्येन्न शोचेत॥३८१॥ [म.भा. ५.३६.४५] कृषिका रूपनाशाय अर्थनाशाय वाजिनः । शालको गृहनाशाय सर्वनाशाय पावकः ॥३८२॥ [?] एको बहूनां मूर्खाणां मध्ये निपतितो बुधः । पद्मः पाथस्तरङ्गाणामिव विप्लवते ध्रुवम् ॥३८३॥ निजानुत्पततः शत्रून्पञ्च पञ्च प्रयोजनान। यो मोहान्न निघृह्णाति तमापद्ग्रसते नरम् ॥३८४॥ [म.भा. ५.३४.६८] ज्ञानं सतां मानमदादिनाशनं केषाञ्चिदेतन्मदमानकारणम् । स्थानं विविक्तं यमिनां विमुक्तये कामातुराणामतिकामकारणम् ॥३८५॥ तद्भोजनं यद्द्विजभुक्तशेषं तत्सौहृदं यत्क्रियते परस्मिन। सा प्राज्ञता या न करोति पापं दम्भं विना यः क्रियते स धर्मः ॥३८६॥ [बृ.चा. १५.८] धर्मात्पैजवनो राजा चिराय बुभुजे भुवम् । अधर्माच्चैव नहुषः प्रतिपेदे रसातलम् ॥३८७॥ [का.नी. १.१४] दाता लघुरपि सेव्यो भवति न कृपणो महानपि समृद्ध्या । कूपोऽन्तःस्वादुजलः प्रीत्यै लोकस्य न समुद्रः ॥३८७*॥ [पञ्च. २.७१] कः स्वभावगभीराणां लक्षयेद्बहिरापदम् । बालापत्येन भृत्येन यदि सा न प्रकाश्यते ॥३८८॥ [रा.त. १.२३०] नास्ति धर्मसमो बन्धुर्नास्ति धर्मसमा क्रिया । नास्ति धर्मसमो देवः सत्यं सत्यं वदाम्यहम् ॥३८९॥ [प्रसङ्गा. १२] नास्ति सत्यात्परो धर्मो न सत्याद्विद्यते परम् । न हि तीव्रतरं किञ्चिदनृतादिह विद्यते ॥३९०॥ [म.भा. १.६९.२४] एष ते विद्रुमच्छायो मरुमार्ग इवाधरः । कस्य नो तनुते तन्वि पिपासाकुलितं मनः ॥३९१॥ [कुव. १६७] नावज्ञया१३ न दातव्यं कस्यचिल्लीलयापि वा । अवज्ञया कृतं हन्याद्दातारं नात्र संशयः ॥३९२॥ [रा. १.१२.३१] एकीभूय स्फुटमिव किमप्याचरद्भिः प्रलीनैर् एभिर्भूतैः स्मर कति कृताः स्वान्त ते विप्रलम्भाः । तस्मादेषां त्यज परिचयं चिन्तय स्वव्यवस्थाम् आभाषस्ते किमु न विदितः खण्डितः पण्डितः स्यात॥३९३॥ [शान्ति. ३.८१] नाश्रमः कारणं धर्मे क्रियमाणो भवेद्धि सः । अतो यदात्मनोऽपथ्यं परेषां न तदाचरेत॥३९४॥ [?] जलाहतौ विशेषेण वैद्युताग्नेरिव द्युतिः । आपदि स्फुरति प्रज्ञा यस्य धीरः स एव हि ॥३९५॥ [कथा.स. १२.४१] नाभूति काले च फलं ददाति शिल्पं न मन्त्राश्च तथौषधानि । तान्येव कालेन समाहितानि सिध्यन्ति चेध्यन्ति च भूतकाले ॥३९६॥ [म.भा. १२.२६०.७] देशकालविहीनानि कर्माणि विपरीतवत। क्रियमाणानि दुष्यन्ति हवींष्यप्रयतेष्विव ॥३९७॥ [रा. ६.६३.६] ऐश्वर्यमदपापिष्ठा मदाः पानमदादयः । ऐश्वर्यमदमत्तो हि नापतित्वा विबुध्यते ॥३९८॥ [म.भा. ५.३४.५१] कुलोद्गतं सत्यमुदारविक्रमं स्थिरं कृतज्ञं धृतिमन्तमूर्जितम् । अतीव दातारमुपेतवत्सलं सुदुष्प्रसाध्यं प्रवदन्ति विद्विषाम् ॥३९९॥ [का.नी. १०.३८] ऐश्वर्यात्सह सम्बन्धं न कुर्याच्च कदाचन । गते च गौरवं नास्ति आगते च धनक्षयः ॥४००॥ कन्या वरयते रूपं माता वित्तं पिता श्रुतम् । बान्धवाः कुलमिच्छन्ति मिष्टान्नमितरे जनाः ॥४०१॥ [नैषधीय १०.१?] नारभेत्परसामर्थ्यात्पुरुषः कार्यमात्मनः । मतिसाम्यं द्वयोर्नास्ति कार्येषु कुरुनन्दन ॥४०२॥ [म.भा. २.५१.७] एष स्वभावो नारीणामनुभूय पुरा सुखम् । अल्पामप्यापदं प्राप्य दुष्यन्ति प्रजहत्यपि ॥४०३॥ धनेन वाससा प्रेम्णा श्रद्धयामृतभाषणैः । सततं तोषयेद्दारान्नाप्रियं क्वचिदाचरेत॥४०४॥ [दं.श. ४४] का ते कान्ता कस्ते पुत्रः सम्सारोऽयमतीवविचित्रः । कस्य त्वं कः कुत आयातः तत्त्वं चिन्तय तदिह भारत ॥४०५॥ [मोहमुद्गर ८] ते चापि निपुना वैद्याः कुशलाः संभृतौषधाः । व्याधिभिः परिकृष्यन्ते मृगा व्याधैरिवार्दिताः ॥४०६॥ [म.भा. १२.३१८.३१] काले सहिष्णुर्गिरिवदसहिष्णुश्च वह्निवत। स्कन्धेनापि वहेच्छत्रून्प्रियाणि समुदाहरन॥४०७॥ [का.नी. १०.३६] ऐन्दवादर्चिषः कामी शिशिरं हव्यवाहनम् । अबलाविरहक्लेशविह्वलो गणयत्ययम् ॥४०८॥ पुनर्वित्तं पुनर्मित्रं पुनर्भार्या पुनर्मही । एतत्सर्वं पुनर्लभ्यं न शरीरं पुनः पुनः ॥४०९॥ [बृ.चा. १४.३] कश्चिदाम्रवणं छित्त्वा पलाशांश्च निपिञ्चति । पुष्पं दृष्ट्वा फले गृध्नुः स शोचति फलागमे ॥४१०॥ [रा. २.५७.६] देवो राजा गुरुर्भार्या वैद्यनक्षत्रपाठकाः । रिक्तहस्ता न गच्छन्ति गते कार्यं न सिध्यति ॥४११॥ [?] त्वन्मुखं कमलं चेति द्वयोरप्यनयोर्भिदा । कमलं जलसंरोहि त्वन्मुखं त्वदुपाश्रयम् ॥४१२॥ [काव्या. २.१९०] परोऽप्यपत्यं हितकृद्यथौषधं स्वदेहजोऽप्यामयवत्सुतोऽहितः । छिन्द्यात्तदङ्गं यदुतात्मनोऽहितं शेषं सुखं जीवति यद्विवर्जनात॥४१३॥ [भा.पु. ७.५.३७] कः श्रद्धास्यति भूतार्थं सर्वो मां तुलयिष्यति । शङ्कनीया हि लोकेऽस्मिन्निष्प्रतापा दरिद्रता ॥४१४॥ [मृच्छकटिका ५.३४] पूर्वे वयसि कर्माणि कृत्वा पापानि ये नराः । पश्चाद्गङ्गां निषेवन्ते तेऽपि यान्त्युत्तमां गतिम् ॥४१५॥ [म.भा. १३.२७.२९] तरुणिमसमारम्भे तस्याः शरीरसरोवरं सरभसमनोहंस श्रीमन्प्रयासि कथं पुनः । श्रवणलतिकापाशौ पार्श्वे प्रसारितपातितौ हतविधिवशाद्बन्धायान्धो न पश्यति किं भवान॥४१६॥ [नीति.सं. ७७] पीतः क्रुद्धेन तातश्चरणतलहतो वल्लभो येन रोषाद् आबाल्याद्विप्रवर्यैः स्ववदनविवरे धार्यते वैरिणी मे । गेहं मे छेदयन्ति पर्तिदिवसमुमाकान्तपूजानिमित्तं तस्मात्खिन्ना सदाहं द्विजकुलनिलयं नाथ युक्तं त्यजामि ॥४१७॥ [बृ.चा. १५.१६] दूर्वाया भूषणं पत्रं वृक्षाणां भूषणं सुमम् । स्ववृत्तिर्भूषणं पुंसां नारीणां भूषणं पतिः ॥४१८॥ [चा. २४] कृतवैरे न विश्वासः कार्यस्त्विह सुहृद्यपि । छन्नं सन्तिष्ठते वैरं गूढोऽग्निरिव दारुषु ॥४१९॥ [?] द्विजातिपूजाभिरतो दाता ज्ञातिषु चार्जवी । क्षत्रियः स्वर्गभाग्राजंश्चिरं पालयते महीम् ॥४२०॥ [म.भा. ५.३५.६३] धनहीनो न हीनश्च धनिकः स सुनिश्चयः । विद्यारत्नेन हीनो यः स हीनः सर्ववस्तुषु ॥४२१॥ [बृ.चा. १०.१] परकाव्येन कवयः परद्रव्येण चेश्वराः । निर्लोठितेन स्वकृतिं पुष्णन्त्यद्यतने क्षणे ॥४२२॥ [रा.त. ५.१५९] धननाशेऽधिकं दुःखं मन्ये सर्वमहत्तरम् । ज्ञातयो ह्यवमन्यन्ते मित्राणि च धनच्युतम् ॥४२३॥ [म.भा. १२.१७१.३४] तीर्थसेवनमौनभागपि तिमिः सक्तः स्वकुल्याशने वाताशान्ग्रसते शिखी धनपयोमात्राशनोऽप्यन्वहम् । विश्वस्ताञ्जलचारिणः प्रकटितध्यानोऽपि भुङ्क्ते बकः सत्कर्माचरणेऽपि दोषविकृतौ न प्रत्ययः पापिनाम् ॥४२४॥ [रा.त. ६.३०९] कृतविद्योऽपि बलिना व्यक्तं रागेण रज्यते । रागानुरक्तचित्तस्तु किं न कुर्यादसाम्प्रतम् ॥४२५॥ [का.नी. ४.४६] त्वया नीलोत्पलं कर्णेत्स्मरेणास्त्रं शरासवे । मयापि मरणे चेतस्त्रयमेतत्समं कृतम् ॥४२६॥ [काव्या. २.१०६] धनक्षयः शिष्टगर्हा ॥४२७॥ [प्र.भ. १७] त्रासहेतोर्विनीतिस्तु क्रियते जीविताशया । पञ्चत्वं चेद्गमिष्यामि किं सिंहानुनयेन मे ॥४२८॥ [हि. २.१२३] निर्दहति कुलशेषं ॥४२९॥ [प्रसङ्गा. ८२] पयोमुचः परीतापं ॥४३०॥ [काव्या. २.१७३] त्यजेद्धर्मं दयाहीनं विद्याहीनं गुरुं त्यजेत। त्यजेत्क्रोधमुखीं भार्यां निःस्नेहान्बान्धवांस्त्यजेत॥४३१॥ [बृ.चा. ४.१६] त्यजेत संचयांस्तस्मात्तज्जं क्लेशं सहेत कः । न हि संचयवान्कश्चिद्दृश्यते निरुपद्रवः ॥४३२॥ [म.भा. ३.२.४६] नौका च खलजिह्वा ॥४३३॥ [शा.प. दुर्जन. १८] तलवद्दृश्यते व्योम खद्योतो हव्यवाडिव । न चैवास्ति तलं व्योम्नि न खद्योते हुताशनः ॥४३४॥ [म.भा. १२.११२.६२] नोपभोगो न वा दानं ॥४३५॥ [काव्या. २.३२६] द्वावेव कथितौ सद्भिः पन्थानौ वदतां वर । अहिंसा चैव सत्यं च यत्र धर्मः प्रतिष्ठितः ॥४३६॥ [रा. २.६१.१७] त्यजेद्धर्मं दयाहीनं विद्याहीनं गुरुं त्यजेत। त्यजेत्क्रोधमुखीं भार्यां निःस्नेहान्बान्धवांस्त्यजेत॥४३७॥ [बृ.चा. ४.१६] निर्गुणस्य हतं रूपं दुःशीलस्य हतं कुलम् । असिद्धस्य हता विद्या ह्यभोगेन हतं धनम् ॥४३८॥ [बृ.चा. ८.१६] दोग्धि धान्यं हिरण्यं च प्रजा राज्ञि सुरक्षिता । नित्यं स्वेभ्यः परेभ्यश्च तृप्ता माता यथा पयः ॥४३९॥ [म.भा. १२.७२.१९] मितं भुङ्क्ते संविभज्याश्रितेभ्यो मितं स्वपित्यमितं कर्म कृत्वा । ददात्यमित्रेष्वपि याचितः संस् तमात्मवन्तं प्रजहात्यनर्थाः ॥४४०॥ [म.भा. ५.३३.९९] यत्र सूक्तं दुरुक्तं च समं स्यान्मधुसूदन । न तत्र प्रलपेत्प्राज्ञो बधिरेष्विव गायनः ॥४४१॥ [म.भा. ५.९०.१२] भिषजो भेषजं कर्तुं कस्मादिच्छन्ति रोगिणे । यदि कालेन पच्यन्ते भेषजैः किं प्रयोजनम् ॥४४२॥ [म.भा. १२.१३७.५२] मूर्खस्तु प्रहर्तव्यः प्रत्यक्षो द्विपदः पशुः । भिद्यते वाक्यशल्येन अदृशं कण्टकं यथा ॥४४३॥ [बृ.चा. ३.७] यत्रोदकं तत्र वसन्ति हंसास् तथैव शुष्कं परिवर्जयन्ति । न हंसतुल्येन नरेण भाव्यं पुनस्त्यजन्तः पुनराश्रयन्ते ॥४४४॥ [बृ.चा. ७.१३] भूतानामपरः कश्चिद्धिंसायां सततोत्थितः । वञ्चनायां च लोकस्य स सुखेनेह जीवति ॥४४५॥ [म.भा. ३.२००.१०] मृत्योर्वा गृहमेवैतद्या ग्रामे वसतो रतिः । देवामामेष वै गोष्ठो यदरण्यमिति श्रुतिः ॥४४६॥ [म.भा. १२.१६९.२३] यः सर्वकालमबुधैः परिहस्यमानो मूलाङ्कुराद्यपि न जातु पुरस्करोति । व्यापत्सु शास्त्रविटपी स फलं प्रसूय पुंसः किलैकपद एव लुनात्यलक्ष्मीम् ॥४४७॥ [रा.त. ४.५२९] भैषज्यमेतद्दुःखस्य यदेतन्नानुचिन्तयेत। चिन्त्यात्मानं हि न व्येति भूयश्चापि विवर्धते ॥४४८॥१४ [म.भा. ११.२.१७] पुष्पं पुष्पं विचिन्वीत मूलच्छेदं न कारयेत। माला कार इवारामे न यथाङ्गार कारकः ॥४४९॥ [म.भा. ५.३४.१८] भक्तद्वेषो जडे प्रीतिः सुरुचिर्गुरुलङ्घने । मुखे कटुकता नित्यं धनिनां ज्वरिणामिव ॥४५०॥ [?] यत्सङ्ग्रहो रत्नमहौषधीनां करोति सर्वव्यसनावसानम् । त्यागेन तद्यस्य भवेन्नमोऽस्तु चित्रप्रभावाय धनाय तस्मै ॥४५१॥ [शा.प. २४२, रा.त. ६.२२७] उपकारं करोम्यस्य ममाप्येष करिष्यति । अयं चापि प्रतीकारो रामसुग्रीवयोरिव ॥४५२॥ [का.नी. ९.१०] महाबलान्पश्य महानुभावान् प्रशास्य भूमिं धनधान्यपूर्णाम् । राज्यानि हित्वा विपुलांश्च भोगान् गतान्नरेन्द्रान्वशमन्तकस्य ॥४५३॥ [म.भा. ५.४०.१३] यथा खरश्चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्य । एवं हि शास्त्राणि बहून्यधीत्य चार्थेषु मूढाः खरवद्वहन्ति ॥४५४॥ [सुश्रु. १.१३] फेनमात्रोपमे देहे जीवे शकुनिवत्स्थिते । अनित्ये प्रियसंवासे कथं स्वपिषि पुत्रक ॥४५५॥ यदा विनाशो भूतानां दृश्यते कालचोदितः । तदा कार्ये प्रमाद्यन्ति नराः कालवशं गताः ॥४५६॥ [रा. ३.६२.२०] प्रिया वा मधुरा वा तु स्वाम्येष्वेव विराजते । श्रीरक्षणे प्रमाणं तु वाचः सुनयकर्कशाः ॥४५७॥ महादेवो देवः सरिदपि च सैवामरसरिद् गुहा एवागारं वसनमपि ता एव हरितः । सुहृद्वा कालोऽयं व्रतमिदमदैन्यव्रतमिदं कियद्वा वक्ष्यामो बटविटप एवास्तु दयिता ॥४५८॥ [भर्तृ.सं. २९९] यथा तैलक्षयाद्दीपः प्रम्लानिमुपगच्छति । तथा कर्म क्षयाद्दैवं प्रम्लानिमुपगच्छति ॥४५९॥ [म.भा १३.६.४४] प्राप्य कार्यं गरीयस्तु प्रियमुत्सृज्य दूरतः । हितमेव हि वक्तव्यं सुहृदा मन्त्रिणा सदा ॥४६०॥ मत्या परीक्ष्य मेधावी बुद्ध्या सम्पद्य चासकृत। श्रुत्वा दृष्ट्वाथ विज्ञाय प्राज्ञैर्मैत्रीं समाचरेत॥४६१॥ [म.भा. ५.?] यस्यां यस्यामवस्थायां यत्करोति शुभाशुभम् । तस्यां तस्यामवस्थायां तत्तत्फलमुपाश्नुते ॥४६२॥ [म.भा. ११.२.२३] भर्तारं किल या नारी छायेवानुगता सदा । अनुगच्छति गच्छन्तं तिष्ठन्तं चानुतिष्ठति ॥४६३॥ [रा. २.२९.२०] महान्तमप्यर्थमधर्मयुक्तं यः संत्यजत्यनुपाक्रुष्ट एव । सुखं स दुःखान्यवमुच्य शेते जीर्णां त्वचं सर्प इवावमुच्य ॥४६४॥ [म.भा. ५.४०.२] यस्य चित्तं द्रवीभूतं कृपया सर्वजन्तुषु । तस्य ज्ञानेन मोक्षेण किं जटाभस्मलेपनैः ॥४६५॥ [बृ.चा. १५.२] मदरक्तस्य हंसस्य कोकिलस्य शिखण्डिनः । हरन्ति न तथा वाचो यथा साधुविपश्चिताम् ॥४६६॥ [म.भा. ५.१४८४?] प्राज्ञो वा यदि वा मूर्खः सधनो निर्धनोऽपि वा । सर्वः कालवशं याति शुभाशुभसमन्वितः ॥४६७॥ यदा शरीरस्य शरीरिणश्च पृथक्त्वमेकान्तत एव भावि । आहार्ययोगेन वियुज्यमानः परेण को नाम भवेद्विषादी ॥४६८॥ [शाकुं. ९४] मधुरेण दृशां मानं मधुरेण सुगन्धिना । सहकारोद्गमेनैव शब्दशेषं करिष्यति ॥४६९॥ [काव्या. ३२०] तद्भावभावनिरता तत्संयोगपरायणा । तमेव भूयो भर्तारं सा प्रेत्याप्यनुगच्छति ॥४७०॥ मूर्खश्चिरायुर्जातोऽपि तस्माज्जातमृतो वरः । मृतः स चाल्पदुःखाय यावज्जीवं जडो दहेत॥४७१॥ [बृ.चा. ४.६] प्राकृतो हि प्रशंसन्वा निन्दित्वा किं करिष्यति । वने काक इवाबुद्धिर्वाशमानो निरर्थकम् ॥४७२॥ यस्मिन्यथा वर्तते यो मनुष्यस् तस्मिंस्तथा वर्तितव्यं स धर्मः । मायाचारो मायया वर्तितव्यः साध्वाचारः साधुना प्रत्युदेयः ॥४७३॥ [म.भा. ५.३७.७] मयास्योपकृतं पूर्वं ममाप्येष करिष्यति । इति यः क्रियते सन्धिः प्रतीकारः स उच्यते ॥४७४॥ [कामं. नीति. ९.१०] युगान्ते प्रचलेन्मेरुः कल्पान्ते सप्त सागराः । साधवः प्रतिपन्नार्थान्न चलन्ति कदाचन ॥४७५॥ [बृ.चा. १३.२१] भवने सुहृदो यस्य समागच्छन्ति नित्यशः । चित्ते च तस्य सौख्यस्य न किञ्चित्प्रतिमं सुखम् ॥४७६॥ [पञ्च. २.१७] वणिक्प्रमादी भृतकश्च मानी भिक्षुर्विलासी ह्यधनश्च कामी । वराङ्गना चाप्रियवादिनी च न ते च कर्माणि समारभन्ते ॥४७७॥ [शौनकीनीति ११५] यस्मिन्यदा पुष्करनाभमायया दुरन्तया स्पृष्टधियः पृथग्दृशः । कुर्वन्ति तत्र ह्यनुकम्पया कृपां न साधवो दैवबलात्कृते क्रमम् ॥४७८॥ [भा.पु. ४.६.४८] कान्तावियोगः स्वजनापमानं ऋणस्य शेषं कुनृपस्य सेवा । दारिद्र्यभावाद्विमुखं च मित्रं विनाग्निना पञ्च दहन्ति कायम् ॥४७९॥ यदा न योगोपचितासु चेतो मायासु मिद्धस्य विषज्जतेऽङ्ग । अनन्यहेतुष्वथ मे गतिः स्याद् आत्यन्तिको यत्र न मृत्युहासः ॥४८०॥ गृहेश्वरी सद्गुणभूषितां शुभां पङ्ग्वन्धयोगेन पतिं समेताम् । न लालयेत्पूरयेन्नैव कामं स किं पुमान्न पुमान्मे मृतोऽस्ति ॥४८१॥ योषिद्धिरण्याभरणाम्बरादि द्रव्येषु मायारचितेषु मूढः । प्रलोभितात्मा ह्युपभोगबुद्ध्या पतङ्गवन्नश्यति नष्टदृष्टिः ॥४८२॥ [भा.पु. ११.८.८] एकान्तशीलस्य दृढव्रतस्य सर्वेन्द्रियप्रीतिनिवर्तकस्य । अध्यात्मयोगे गतमानसस्य मोक्षो ध्रुवं नित्यमहिंसकस्य ॥४८३॥ न शब्दशास्त्रेण निरतस्य मोक्षो न वर्णसङ्गे निरतस्य चैव । न भोजनाच्छादनतत्परस्य न लोकचित्तग्रहणे रतस्य ॥४८४॥ [पद्म.सृ. १९] बालातपः प्रेतधूमः स्त्री वृद्धा तरुणं दधि । आयुष्कामो न सेवेत तथा संमार्जनी रजः ॥४८५॥ [गरुड.पु. १०८] नाश्नन्ति पितरो देवाः क्षुद्रस्य वृषलीपतेः । मा . . . . नाश्नन्ति यस्य चोपपतिर्गृहे ॥४८६॥ [गरुड.पु. १०८] सङ्गं त्यजेत मिथुनव्रतिनां मुमुक्षुः सर्वात्मना न विसृजेद्बहिरिन्द्रियाणि । एकश्चरन्रहसि चित्तमनन्त ईशे युञ्जीत तद्व्रतिषु साधुषु चेत्प्रसङ्गः ॥४८७॥ [शौनकी ३०] धर्मः प्रव्रजितस्तपः प्रचलितं सत्यं च दूरं गतं पृथ्वी बन्ध्यफला जनाः कपटिनो लौल्ये स्थिता ब्राह्मणाः । मर्त्याः स्त्रीवशगाः स्त्रियश्च चपला नीचा जना उन्नता हा कष्टं खलु जीवितं कलियुगे धन्या जना ये स्मृताः ॥४८८॥ [गरुड.पु. ११५] यस्मिन्यदा पुष्करनाभमायया दुरन्तया स्पृष्टधियः पृथग्दृशः । कुर्वन्ति तत्र ह्यनुकम्पया कृपां न साधवो दैवबलात्कृते क्रमम् ॥४८९॥ [भा.पु. ४.६.४८] यो धर्मशीलो जितमानरोषो विद्याविनीतो न परोपतापी । स्वदारतुष्टः परद्दारवर्जितो न तस्य लोके भवमस्ति किञ्चित॥४९०॥ [प.पु. १.२२४] अतः कविर्नामसु यावदर्थः स्यादप्रमत्तो व्यवसायबुद्धिः । सिद्धेऽन्यथार्थे न यतेत तत्र परिश्रमं तत्र समीक्षमाणः ॥४९१॥ [भा.पु. २.२.३] भयं प्रमत्तस्य वनेष्वपि स्याद् यतः स आस्ते सहषट्सपत्नः । जितेन्द्रियस्यात्मरतेर्बुधस्य गृहाश्रमः किं नु करोत्यवद्यम् ॥४९२॥ [भा.पु. ५.१.१७] यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः । यत्रैतास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः ॥४९३॥ [म.भा. १३.२८८८?] पुनर्वित्तं पुनर्मित्रं पुनर्भार्या पुनर्मही । एतत्सर्वं पुनर्लभ्यं न शरीरं पुनः पुनः ॥४९४॥ [बृ.चा. १४.४] यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे । कृतमेवास्य जानन्ति स वै पण्डित उच्यते ॥४९५॥ [म.भा. ५.३३.१८] ममत्वं हि न कर्तव्यमैश्वर्ये वा धनेऽपि वा । पूर्वावासं हरन्त्यन्ये राजधर्मं हि तं विदुः ॥४९६॥ [म.भा. २.?] प्रज्ञावांस्त्वेव पुरुषः संयुक्तः परया धिया । उदयास्तमयज्ञो हि न शोचति न हृष्यति ॥४९७॥ [म.भा. ३.२४५.१४] यस्य पुत्रो वशीभूतो भार्या छन्दानुगामिनी । विभवे यश्च सन्तुष्टस्तस्य स्वर्ग इहैव हि ॥४९८॥ [प्र. १४] भोक्तुं पुरुषकारेण दुष्टस्त्रियमिव श्रियम् । व्यवसायं सदैवेच्छेन्न हि क्लीबवदाचरेत॥४९९॥ [का.नी. १३.१०] मार्दवं सर्वभूतानामनसूया क्षमा धृतिः । आयुष्याणि बुधाः प्राहुर्मित्राणां चाविमानना ॥५००॥ [म.भा. ५.३९.३९] पुन्नाम्नो नरकाद्यस्मात्पितरं त्रायते सुतः । तस्मात्पुत्र इति प्रोक्तः स्वयमेव स्वयम्भुवा ॥५०१॥ [म.भा. १.६८.३८] यस्य भार्या गृहे नास्ति साध्वी च प्रियवादिनी । अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम् ॥५०२॥ [म.भा. १२.५५०९?] भस्मना शुद्ध्यते कास्यं ताम्रमम्लेन शुद्ध्यति । रजसा शुद्ध्यते नारी नदी वेगेन शुद्ध्यति ॥५०३॥ [बृ.चा. ६.३] मा वनं छिन्धि स व्याघ्रं मा व्याघ्रान्नीनशो वनात। निर्वनो वध्यते व्याघ्रो निर्व्याघ्रं छिद्यते वनम् ॥५०४॥ [म.भा. ५.२९.४८] यत्क्रोधनो यजते यद्ददाति यद्वा तपस्तप्यति यज्जुहोति । वैवस्वतस्तद्धरतेऽस्य सर्वं मोघः श्रमो भवति क्रोधनस्य ॥५०५॥ [म.भा. १२.२८८.२७] पुमांसो ये हि निन्दन्ति वृत्तेनाभिजनेन च । न तेषु निवसेत्प्राज्ञः श्रेयोऽर्थी पापबुद्धिषु ॥५०६॥ भार्या मूलं गृहस्थस्य भार्या मूलं सुतस्य च । भार्या धर्मफलावाप्त्यै भार्या सन्तानहेतवे ॥५०७॥ ये त्वेनमभिजानन्ति वृत्तेनाभिजनेन च । तेषु साधुषु वस्तव्यं स वासः श्रेष्ठ उच्यते ॥५०८॥ [म.भा. १.७४.११] वध्यन्ते न ह विश्वस्ताः शत्रुभिर्दुर्बला अपि । विश्वस्तास्तेषु वध्यन्ते बलवन्तोऽपि दुर्बलैः ॥५०९॥ [?] पुरतः कृच्छ्रकालस्य धीमान्जागर्ति पूरुषः । स कृच्छ्रकालं सम्प्राप्य व्यथां नैवैति कर्हिचित॥५१०॥ बन्धनानि खलु सन्ति बहूनि प्रेमरज्जुकृतबन्धनमन्यत। दारुभेदनिपुणोऽपि षडङ्घ्रिर् निष्क्रियो भवति पङ्कजकोशे ॥५११॥ [बृ.चा. १५.१७] यस्तु कृच्छ्रमसम्प्राप्तं विचेता नावबुध्यते । स कृच्छ्रकाले व्यथितो न प्रजानाति किंचन ॥५१२॥ [म.भा. १.२२३.२] ब्राह्मणेषु च ये शूराः स्त्रीषु ज्ञातिषु गोषु च । वृन्दादिव फलं पक्वं धृतराष्ट्र पतन्ति ते ॥५१३॥ यत्तु सम्यगुपक्रान्तं कार्यमेति विपर्ययम् । पुमांस्तत्रानुपालभ्यो दैवान्तरितपौरुषः ॥५१४॥ [का.नी. ११.३९] पुष्पे गन्धं तिले तैलं काष्ठेऽग्निं पयसि घृतम् । इक्षौ गुडं तथा देहे पश्यात्मानं विवेकतः ॥५१५॥ [बृ.चा. ७.२१] मुखं पद्मदलाकारं वाक्यं चन्दनशीतलम् । हृदयं वह्निसदृशं त्रिविधं धूर्तलक्षणम् ॥५१६॥ [चा.नी.सा. ७१] भार्यां पतिः सम्प्रविश्य स यस्माज्जायते पुनः । जायाया इति जायात्वं पुराणाः कवयो विदुः ॥५१७॥ [म.भा. १.६८.३६] पुस्तकप्रत्ययाधीतं नाधीतं गुरुसन्निधौ । सभामध्ये न शोभन्ते जारगर्भा इव स्त्रियः ॥५१८॥ [बृ.चा. १७.१] यस्य स्नेहो भयं तस्य स्नेहो दुःखस्य भाजनम् । स्नेहमूलानि दुःखानि तानि त्यक्त्वा वसेत्सुखम् ॥५१९॥ [बृ.चा. १३.५] ब्राह्मणो ब्राह्मणं वेद भर्ता वेद स्त्रियं तथा । अमात्यं नृपतिर्वेद राजा राजानमेव च ॥५२०॥ [म.भा. ५.३८.२५] यस्य स्त्रीषु रतेः शक्तिर्जीर्णशक्तिश्च भोजने । देहेऽधिकबला शकित्स्तस्यारोग्यं प्रचक्षते ॥५२१॥ [प्र. १३] प्रकीर्णविषयारण्ये धावन्तं विप्रमाथिनम् । ज्ञानाङ्कुशेन कुर्वीत वाच्यमिन्द्रियदन्तिनम् ॥५२२॥ [का.नी. १.२५] प्रकुप्यत्यप्रतीकार्थे स्वतेजस्तप्तचेतसाम् । शरणं मरणं त्यक्त्वा किमिवान्यद्यशोऽर्थिनाम् ॥५२३॥ [रा.त. ६.२७८] सज्जमानमकार्येषु सुहृदो वारयन्ति ते । सत्यं ते नैव सुहृदो गुरवो गुरवो हि ते ॥५२४॥ [का.नी. ४.४५] फलं कतकवृक्षस्य यद्यप्यम्बुप्रसादकम् । न नामग्रहणादेव तस्य वारि प्रसीदति ॥५२५॥ [मनु. ६.६७] प्राप्ते भार्ये परित्राणं प्रीतिविश्रम्भभाजनम् । केन रत्नमिदं सृष्टं मित्रमित्यक्षरद्वयम् ॥५२६॥ [पञ्च. २.१९०] सत्यं वक्तुमशेषमस्ति सुलभा वाणी मनोहारिणी दातुं दानवरं शरण्यमभयं स्वच्छं पितृभ्यो जलम् । पूजार्थं परमेश्वरस्य विमलः स्वाध्याययज्ञः परम् क्षुद्व्याधेः पूर्वमूलमस्ति शमनं क्लेशात्मकिः किं धनैः ॥५२७॥ [शान्तिश. ४.५] फलतीह पूर्वसुकृतं विद्यावन्तोऽपि कुलसमुद्भूताः । यस्य यदा विभवः स्यात्तस्य तदा दासतां यान्ति ॥५२८॥ [पञ्च. ५.८] सर्वनाशे च सञ्जाते प्राणानामपि संशये । अपि शत्रुं प्रणम्यापि रक्षेत्प्राणान्धनानि च ॥५२९॥ [पञ्च. ४.२२] प्रमाणाभ्यधिकस्यापि गण्डश्याममदच्युतेः । पदं मूर्ध्नि समाधत्ते केसरी मत्तदन्तिनः ॥५३०॥ [पञ्च. १.३१८१६] सञ्चये च विनाशान्ते मरणान्ते च जीविते । संयोगे विप्रयोगान्ते को नु विप्रणयेन्मनः ॥५३१॥ [म.भा. १२.१०५.४४] प्राप्तविद्यार्थशिल्पानां देशान्तरनिवासिनाम् । क्रोशमात्रोऽपि भूभागः शतयोजनवद्भवेत॥५३२॥ [पञ्च. १.४३२] सतां मतमतिक्रम्य योऽसतां वर्तते मते । कालेन व्यसनं प्राप्य पश्चात्तापं स गच्छति ॥५३३॥ [म.भा. ३.४१४७?] पृथिवी रत्नसम्पूर्णा हिरण्यं पशवः स्त्रियः । नालमेकस्य तत्सर्वमिति मत्वा शमं व्रजेत॥५३४॥ [म.भा. १.३१७५?] व्यथयन्ति परं चेतो मनोरथशतैर्जनाः । नानुष्ठानैर्धनैर्हीनाः कुलजाः विधवा इव ॥५३५॥ [पञ्च. २.१०१] बोद्धारो मत्सरग्रस्ताः प्रभवः स्मयदूषिताः । अबोधोपहताः चान्ये जीर्णमङ्गे सुभाषितम् ॥५३६॥ [नी.श. २] विपुलमपि धनौघं प्राप्य भोगान्स्त्रियो वा पुरुष इह न शक्तः कर्म हीनोऽपि भोक्तुम् । सुनिहितमपि चार्थं दैवतै रक्ष्यमाणं व्ययगुणमपि साधुं कर्मणा संश्रयन्ते ॥५३७॥ [म.भा. १३.६.४५] फलं धर्मस्य विभवो विभवस्य फलं सुखम् । सुखमूलं तु तन्वङ्ग्यो विना ताभिः कुतः सुखम् ॥५३८॥ [शुक. ४०] वणिगालोक्य निजे हृदि सोत्साहं परिचितग्रहीतारम् । हृष्यति तद्धनलुब्धो यद्वत्पुत्रेण जातेन ॥५३९॥ [?] बहुधा बहुभिः सार्धं चिन्तिताः सुनिरूपिताः । कथञ्चिन्न विलीयन्ते विद्वद्भिश्चिन्तिता नयाः ॥५४०॥ [पञ्च. ३.७५] श्यामा प्रिया केशव एव देवो मानो धनं मन्मथ एव धन्वी । वाणी सखी वारण एव यानं कालो वसन्तः कवितैव विद्या ॥५४१॥ [प्र. ११] बुभुक्षितः किं न करोति पापं क्षीणा जना निष्करुणा भवन्ति । आख्याहि भद्रे प्रियदर्शनस्य न गङ्गदत्तः पुनरेति कूपम् ॥५४२॥ [पञ्च. ४.१६] प्रायेण श्रीमतां लोके भोक्तुं शक्तिर्न विद्यते । दरिद्राणां तु राजेन्द्र अपि काष्ठं हि जीर्यते ॥५४३॥ [म.भा. ५.३४.४९] शत्रुणा योजयेच्छत्रुं बलिना बलवत्तरम् । स्वकार्याय यतो न स्यात्काचित्पीडात्र तत्क्षये ॥१८॥ [पञ्च. ४.१८] प्रायः कन्दुकपातेनोत्पतत्यार्यः पतन्नपि । तथा त्वनार्यः पतति मृत्पिण्डपतनं यथा ॥५४५॥ बहूनामप्यसाराणां समवायो बलावहः । तृणैरावेष्ट्यते रज्जुस्तया नागोऽपि बध्यते ॥५४६॥ [सु. २७४२] वैषम्यमपि संप्राप्ता गोपायन्ति कुलस्त्रियः । आत्मानमात्मना सत्यो जितस्वर्गा न संशयः ॥५४७॥ [म.भा. ३.६८.८] प्रारभ्यते न खलु विघ्नभयेन नीचैः प्रारभ्य विघ्नविहता विरमन्ति मध्याः । विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः प्रारब्धमुत्तमजना न परित्यजन्ति ॥५४८॥ शक्याशक्यमविज्ञाय यस्त्वसाध्ये प्रवर्तते । स केवलमवाप्नोति निजजीवितसंक्षयम् ॥५४९॥ [सं.पा. ४२] प्रणयादुपकाराद्वा यो विश्वसिति शत्रुषु । स सुप्त इव वृक्षाग्रात्पतितः प्रतिबुध्यते ॥५५०॥ [हि. ४.१०] विप्रो वृक्षस्तस्य मूलं च सन्ध्या वेदः शाखा धर्मकर्माणि पत्रम् । तस्मान्मूलं यत्नतो रक्षणीयं छिन्ने मूले नैव शाखा न पत्रम् ॥५५१॥ [बृ.चा. १०.१३] शक्ष्यामि कर्तुमिदमल्पमयत्नसाध्यम् अनादरः क इति कृत्यमुपेक्षमाणाः । केचित्प्रमत्तमनसः परितापदुःखम् आपत्प्रसङ्गसुलभं पुरुषाः प्रयान्ति ॥५५२॥ [पञ्च. ३.२५१] विश्राम्यन्ति महात्मानो यत्र कल्पतराविव । स श्लाघ्यं जीवति श्रीमान्सत्सम्भोगफलाः श्रियः ॥५५३॥ [का.नी. ५.७२] सञ्चिन्त्य सञ्चिन्त्य तमुग्रदण्डं मृत्युं मनुष्यस्य विचक्षणस्य । वर्षाम्बुसिक्ता इव चर्मबन्धाः सर्वे प्रयत्नाः शिथिलीभवन्ति ॥५५४॥ [भोज.प्र. ९०] प्रविष्टः सर्वभूतानि यथा चरति मारुतः । चारेणैवं चरेद्राजा स्मृतं तन्मारुतं व्रतम् ॥५५५॥ [राम. २.१२२.२०] विहितस्याननुष्ठानान्निन्दितस्य च सेवनात। अनिग्रहाच्चेन्द्रियाणां नरः पतनं ऋच्छति ॥५५६॥ [याज्ञ. ३.२१९] शतह्रदानां लोलत्वं शस्त्राणां तीक्ष्णतां तथा । गरुडानिलयोः शैघ्र्यमनुगच्छन्ति योषितः ॥५५७॥ [रा. ३.१३.६] व्यञ्जनं हन्ति वै पूर्वं चैव पयोधरौ । रतिरिष्टांस्तथा लोकान्हन्याच्च पितरं रजः ॥५५८॥ [पञ्च. ३.२०४?] प्लवन्ते धर्मलघवो लोकेऽम्भसि यथा प्लवाः । मज्जन्ति पापगुरवः शस्त्रं स्कन्नमिवोदके ॥५५९॥ [म.भा. १३.१.१५] सर्वेषामेव शौचानामर्थशौचं परं स्मृतम् । योऽर्थे शुचिर्हि स शुचिर्न मृत्वारिशुचिः शुचिः ॥५६०॥ [मनु. ५.१०६] शठस्तु समयं प्राप्य नोपाकारं हि मन्यते । वरं तमुपकर्तारं दोषदृष्ट्या च दूषयेत॥५६१॥ [सं. पाठोप. ४७] सुखं ह्यवमतः शेते सुखं च प्रतिबुध्यते । सुखं चरति लोकेऽस्मिन्नवमन्ता विनश्यति ॥५६२॥ [मनु. २.१६३] प्रयाति शमनं यस्य तेजस्तेजस्वितेजसाम् । वृथा जातेन किं तेन मातुर्यौवनहारिणा ॥५६३॥ [पञ्च. ३.३२] ॥५६४॥ विकारं याति नो चित्तं वित्ते यस्य कदाचन । मित्रं स्यात्सर्वकाले च कारयेन्मित्रमुत्तमम् ॥५६५॥ [पञ्च. २.११४] ॥५६६॥ विपुलमपि धनौघं प्राप्य भोगान्स्त्रियो वा पुरुष इह न शक्तः कर्म हीनोऽपि भोक्तुम् । सुनिहितमपि चार्थं दैवतै रक्ष्यमाणं व्ययगुणमपि साधुं कर्मणा संश्रयन्ते ॥५६७॥ [म.भा. १३.६.४५] योऽभ्यर्थितः सद्भिरसज्जमानः करोत्यर्थं शक्तिमहापयित्वा । क्षिप्रं यशस्तं समुपैति सन्तं अलं प्रसन्ना हि सुखाय सन्तः ॥५६८॥ [म.भा. ५.४०.१] षण्णामात्मनि युक्तानामिन्द्रियाणां प्रमाथिनाम् । यो धीरो धारयेद्रश्मीन्स स्यात्परमसारथिः ॥५६९॥ [?] वेदाः प्रमाणं स्मृतयः प्रमाणं धर्मार्थयुक्तं वचनं प्रमाणम् । यस्य प्रमाणं न भवेत्प्रमाणकस् तस्य कुर्याद्वचनं प्रमाणम् ॥५७०॥ [दं.श. २४] सहायबन्धना ह्यर्थाः सहायाश्चार्थबन्धनाः । अन्योन्यबन्धनावेतौ विनान्योन्यं न सिध्यतः ॥५७१॥ [म.भा. ५.३७.३४] वैराग्ये संचरत्येको नीतौ भ्रमति चापरः । शृङ्गारे रमते कश्चिद्भुवि भेदाः परस्परम् ॥५७२॥ [शृ.श. १०२] हृदि विद्ध इवात्यर्थं यथा सन्तप्यते जनः । पीडितोऽपि हि मेधावी न तां वाचमुदीरयेत॥५७३॥ [का.नीति. ३.२४] विद्वद्भिः सुहृदामत्र चिह्नैरेतैरसंशयम् । परीक्षाकरणं प्रोक्तं होमाग्नेरिव पण्डितैः ॥५७४॥ [पञ्च. २.११५] सन्तोषस्त्रिषु कर्तव्यः स्वदारे भोजने धने । त्रिषु चैव न कर्तव्योऽध्ययने जपदानयोः ॥५७५॥ [बृ.चा. ७.३] प्रसारितकरे मित्रे जगदुद्द्योतकारिणि । किं न कैरव लज्जा ते कुर्वतः कोशसंवृतिम् ॥५७६॥ [शा.प. ११३८] यो यत्र सततं याति भुङ्क्ते चैव निरन्तरम् । स तत्र लघुतां याति यदि शक्रसमो भवेत॥५७७॥ [चा.नी. ४२] लब्धव्यमर्थं लभते मनुष्यो देवोऽपि तं वारयितुं न शक्तः । अतो न शोचामि न विस्मयो मे ललाटलेखा न पुनः प्रयाति ॥५७८॥ [महा.ना. २१४?] ये च मूढतमा लोके ये च बुद्धेः परं गताः । ते नराः सुखमेधन्ते क्लिश्यत्यन्तरितो जनः ॥५७९॥ [म.भा. १२.१६८.२४] वरं न राज्यं न कुराजराज्यं वरं न मित्रं न कुमित्रमित्रम् । वरं न शिष्यो न कुशिष्यशिष्यो वरं न दारा न कुदारदारः ॥५८०॥ [बृ.चा. ६.१३] यो जितः पञ्चवर्गेण सहजेनात्म कर्शिना । आपदस्तस्य वर्धन्ते शुक्लपक्ष इवोडुराड॥५८१॥ [म.भा. ५.३४.५३] प्रालेयलेशमिश्रे मरुति प्राभातिके च वाति जडे । गुणदोषज्ञः पुरुषो जलेन कः शीतमपनयति ॥५८२॥ [पञ्च. ३.३४१] प्राणत्यागे समुत्पन्ने यदि स्यान्मित्रदर्शनम् । तद्द्वाभ्यां सुखदं पश्चाज्जीवतोऽपि मृतस्य च ॥५८३॥ [पञ्च. २.१७५] सङ्गः सत्सु विधीयतां भगवतो भक्तिर्दृढाधीयतां शान्त्यादिः परिचीयतां दृढतरं कर्माशु सन्त्यज्यताम् । सद्धियो ह्युपसर्प्यतां प्रतिदिनं तत्पादुका सेव्यतां बह्यैकाक्षरमर्थ्यतां श्रुतिशिरोवाक्यं समाकर्ण्यताम् ॥५८४॥ [साधनपञ्चक २] विरहोऽपि सङ्गमः खलु परस्परं सङ्गतं मनो येषाम् । यदि हृदयं तु विघट्टितं समागमोऽपि विरहं विशेषयति ॥५८५॥ [शृ.श. ६५ (८०)] प्रणयमधुराः प्रेमोद्गारा रसाश्रयतां गताः फणितिमधुरा मुग्धप्रायाः प्रकाशितसम्मदाः । प्रकृतिसुभगा विस्रम्भार्द्राः स्मरोदयदायिनी रहसि किमपि स्वैरालापा हरन्ति मृगीदृशाम् ॥५८६॥ [शृ.श. २०] शरत्पद्मोत्सवं वक्त्रं वचश्च श्रवणामृतम् । हृदयं क्षुरधाराभं स्त्रीणां को वेद चेष्टितम् ॥५८७॥ [भा.पु. ६.१८.४१] यो नोद्धतं कुरुते जातु वेषं न पौरुषेणापि विकत्थतेऽन्यान। न मूर्च्छितः कटुकान्याह किञ्चित् प्रियं सदा तं कुरुते जनो हि ॥५८८॥ [म.भा. ५.३३.९२] प्रतीपं कृष्णमाणो हि नोत्तरेदुत्तरेन्नरः । बाह्यमानोऽनुकूलं तु नद्योघाद्वद्यसनात्तथा ॥५८९॥ [कथा.स. ३१.८७] संप्राप्य पण्डितः कृच्छ्रं प्रज्ञया हि विगाहते । बालस्तु कृच्छ्रमासाद्य शिलेवाम्भसि मज्जति ॥५९०॥ {रा. ३.६८.५३] प्रणिपातेन हि गुरून्सतोऽनूचानचेष्टितैः । कुर्वीताभिमुखान्भूत्यै देवान्सुकृतकर्मणा ॥५९१॥ सम्मानाद्ब्राह्मणो नित्यमुद्विजेत विषादिव । अमृतस्येव चाकाङ्क्षेदवमानस्य सर्वदा ॥५९२॥ [मनु २.१६२] प्रसन्नाः कान्तिहारिण्यो नानाश्लेषविचक्षणाः । भवन्ति कस्यचित्पुण्यैर्मुखे वाचो गृहे स्त्रियः ॥५९३॥ सर्वौषधीनाममृता प्रधाना सर्वेषु सौख्येष्वशनं प्रधानम् । सर्वेन्द्रियाणां नयनं प्रधानं सर्वेषु गात्रेषु शिरः प्रधानम् ॥५९४॥ [बृ.चा. ९.४] राजा राष्ट्रकृतं पापं राज्ञः पापं पुरोहितः । भर्ता च स्त्रीकृतं पापं शिष्यपापं गुरुस्तथा ॥५९५॥ यो नात्युक्तः प्राह रूक्षं प्रियं वा यो वा हतो न प्रतिहन्ति धैर्यात। पापं च यो नेच्छति तस्य हन्तुस् तस्मै देवाः स्पृहयन्ते सदैव ॥५९६॥ [म.भा. १२.२८८.१७] प्रतिक्षणमयं कायः क्षीयमाणो न लक्ष्यते । आमकुम्भ इवाम्भःस्थो विशीर्णः सन्विभाव्यते ॥५९७॥ [हि. ४.७२] वित्तं देहि गुणान्वितेषु मतिमन्नान्यत्र देहि क्वचित् प्राप्तं वारिनिधेर्जलं घनमुखे माधुर्ययुक्तं सदा । जीवान्स्थावरजङ्गमांश्च सकलान्संजीव्य भूमण्डलं भूयः पश्य तदेव कोटिगुणितं गच्छन्तमम्भोनिधिम् ॥५९८॥ [बृ.चा. ८.५] प्रियमनुचितं क्ष्मापण्यस्त्रीक्षणप्रभुरीश्वरो रमयति यतो धिक्तान्भृत्यान्स्ववृत्तिसुखार्थिनः । नृपमपथगं पान्ति प्राणानुपेक्ष्य निजान् अपि प्रसभमिह ये तैः पूतेयं महात्मभिरुर्वरी ॥५९९॥ प्रणीतश्चाप्रणीतश्च यथाग्निर्दैवतं महत। एवं विद्वानविद्वांश्च ब्राह्मणो दैवतं परम् ॥६००॥ संसारश्रान्तचित्तानां तिस्रो विश्रान्तिभूमयः । अपत्यं च कलत्रं च सतां सङ्गतिरेव च ॥६०१॥ [प्रसङ्गाभ २] वाति गन्धः सुमनसां प्रतिवातं कथञ्चन । धर्मजस्तु मनुष्याणां वाति गन्धः समन्ततः ॥६०२॥ [रा. २.६१.१९] शयानं चानुशेते हि तिष्ठन्तं चानुतिष्ठति । अनुधावति धावन्तं कर्म पूर्वकृतं नरम् ॥६०३॥ [रा. २.६१.१९] विद्वानृजुरभिगम्यो विदुषि शठे चाप्रमादिना भाव्यम् । ऋजुमूर्खस्त्वनुकम्प्यो मूर्खशठः सर्वथा त्यज्यः ॥६०४॥ [पञ्च. ?] यो हि दिष्टमुपासीनो निर्विचेष्टः सुखं स्वपेत। अवसीदेत्सुदुर्बुद्धिरामो घट इवाम्भसि ॥६०५॥ [म.भा. ३.३३.१२] राजा राष्ट्रकृतं पापं राज्ञः पापं पुरोहितः । भर्ता च स्त्रीकृतं पापं शिष्यपापं गुरुस्तथा ॥६०६?॥ [बृ.चा. ६.१०] राजा वेश्या यमश्चाग्निस्तस्करो बालयाचकौ । परदुःखं न जानन्ति अष्टमो ग्रामकण्टकः ॥६०६॥ [बृ.चा. १७.१९] विद्यार्थी सेवकः पान्थः क्षुधार्तो भयकातरः । भाण्डारी प्रतिहारी च सप्त सुप्तान्प्रबोधयेत॥६१०॥ [बृ.चा. ९.६] शोकेन रोगा वर्धन्ते पयसा वर्धते तनुः । घृतेन वर्धते वीर्यं मांसान्मांसं प्रवर्धते ॥६११॥ [बृ.चा. १०.२०] श्लाघ्यं जन्म सुरूपता धनिकता नीरोगता प्राज्ञता स्वाचारस्थिरता दया सुकुलता दाक्षिण्यवद्दारता । आयुष्मद्गुणिपुत्रता स्ववशता सौन्जन्यवन्मित्रता श्रीशे भक्तिरती च यस्य स नरः स्यान्मानवानन्दवान॥६१२॥ [प्रसङ्गाभ १२] वयसः परिणामेऽपि यः खलः खल एव सः । सम्पक्वमपि माधुर्यं नोपयातीन्द्रवारुणम् ॥६१३॥ [बृ.चा. १२.२३] शुचि भूषयति श्रुतं वपुः प्रशमतस्तस्य भवत्यलं क्रिया । प्रशमाभरणं पराक्रमः स नयापादितसिद्धिभूषणः ॥६१४॥ [किरात. २.३२] यो हि वेदे च शास्त्रे च ग्रन्थ धारण तत्परः । न च ग्रन्थार्थ तत्त्वज्ञस्तस्य तद्धारणं वृथा ॥६१५॥ [म.भा. १२.२९३.२४] रुजन्ति हि शरीराणि रोगाः शारीरमानसाः । सायका इव तीक्ष्णाग्राः प्रयुक्ता दृधधन्विभिः ॥६१६॥ [म.भा. १२.३१८.३] भारं स वहते तस्य ग्रन्थस्यार्थं न वेत्ति यः । यस्तु ग्रन्थार्थ तत्त्वज्ञो नास्य ग्रन्थागमो वृथा ॥६१७॥ [म.भा. १२.२९३.२५] रम्याणि वीक्ष्य मधुरांश्च निशम्य शब्दान्पर्युत्सुकीभवति यत्सुखेतेऽपि जन्तुः । तच्चेतसा स्मरति नूनमबोधपूर्वं भावस्थिराणि जननान्तरसौहृदानि ॥६१८॥ [अ.शाकुं] सन्तुष्टो भार्यया भर्ता भर्त्रा भार्या तथैव च । यस्मिन्नेव कुले नित्यं कल्याणं तत्र वै ध्रुवम् ॥६१९॥ [मनु ३.६०] शीतभीताश्च ये विप्रा रणभीताश्च क्षत्रियाः । अग्निभीता च या नारी त्रयः स्वर्गं न यान्ति हि ॥६२०॥ [चाणक्य ९६] रसायनविदश्चैव सुप्रयुक्तरसायनाः । दृश्यन्ते जरया भग्ना नगा नागैरिवोत्तमैः ॥६२२॥ [म.भा. १२.२८.४६] योऽर्थकामस्य वचनं प्रातिकूल्यान्न मृष्यते । शृणोति प्रतिकूलानि द्विषतां वशमेति सः ॥६२३॥ [म.भा. ५.१२२.२३] लक्ष्म्या लक्ष्मीवतां लोके विकाशिन्या च किं तया । बन्धुभिश्च सुहृद्भिश्च विश्रब्धं वा न भुज्यते ॥६२४॥ [का.नी. ५.७६] लक्ष्मीर्धर्मश्च सन्तानः कीर्तिश्चायुष्यवैभवम् । वर्धते दयया नित्यं राजन्भूतदयां कुरु ॥६२६॥ [प्र. १७] प्रतिदिवसं याति लयं वसन्तवाताहतेव शिशिरश्रीः । बुद्धिर्बुद्धिमतामपि कुटुम्बभारस्य चिन्ताभिः ॥६२७॥ रम्या रामा यदि कुलवधूस्त्यागभोगाय वित्ते वक्त्रे वाणी सरलकविता केशवे चित्तवृत्तिः । सद्भिः सङ्गो वपुषि दृढता सत्कुले जन्म पुंसां धिग्धिग्दूरादनशनपथं सर्गमेकान्तदुर्गम् ॥६२८॥ [प्र. १३] पूर्णापूर्णे माने परिचितजनवञ्चनं तथा नित्यम् । मिथ्याक्रयस्य कथनं प्रकृतिरियं स्यात्किरातानाम् ॥६२९॥ [पञ्च १.१७] विवेकिनमनुप्राप्ता गुणा यान्ति मनोज्ञताम् । सुतरां रत्नमाभाति चामीकरनियोजितम् ॥६३०॥ [बृ.चा. १६.९] पूर्णेन्दुमालोक्य यथा प्रीतिमाञ्जायते नरः । एवं यत्र प्रजाः सर्वा निर्वृत्तास्तच्छशिव्रतम् ॥६३१॥ सत्कृता लालिताश्चैव वैदेहि प्राकृताः स्त्रियः । दरिद्रमवमन्यन्ते भर्तारं न तु सत्स्त्रियः ॥६३२॥ [भाव. २०] कश्चित्तरति काष्ठेन सुगम्भीरां महानदीम् । स तारयति तत्काष्ठं स च काष्ठेन तार्यते ॥६३३॥ कुमुदान्येव शशाङ्कः स्वैता बोधयति पङ्कजान्येव । वशिनां हि परपरिग्रहसंश्लेषपराङ्मुखी वृत्तिः ॥६३४॥ [अ.शा. ५.३८] निर्गत्य न विशेद्भूयो महतां दन्तिदन्तवत। कूर्मग्रीवेव नीचानां वच आयाति याति च ॥६३५॥ [?] बालिशस्तु नरो नित्यं वैक्लव्यं योऽनुवर्तते । स मज्जत्यवशः शोके भाराक्रान्तेव नौर्जले ॥६३६॥ [रा. ४.७.१०] कुपुत्रे नास्ति विश्वासः कुभार्यायां कुतो रतिः । कुराज्ये निर्वृतिर्नास्ति कुदेशे जीविका ॥६३७॥ [म.भा. १२.?] जीवितं न शरीरेण जात्यैव सह जायते । उभे सह विवर्तेते उभे सह विनश्यतः ॥६३८॥ (नोतिनिन्देश्रुत्) प्रज्ञाशरेणाभिहतस्य जन्तोश् चिकित्सकाः सन्ति न चौषधानि । न होममन्त्रा न च मङ्गलानि नाथर्वणा नाप्यगदाः सुसिद्धाः ॥६३९॥ [म.भा. ५.३७.५४] बन्धनानि खलु सन्ति बहूनि प्रेमरज्जुकृतबन्धनमन्यत। दारुभेदनिपुणोऽपि षडङ्घ्रिर् निष्क्रियो भवति पङ्कजकोशे ॥६४०॥ [बृ.चा. १५.१७] भार्या हि परमो नाथः पुरुषस्येह पठ्यते । असहायस्य लोकेऽस्मिंल्लोकयात्रा सहायिनी ॥६४१॥ [म.भा. १२.१४२.८] कोशद्वन्द्वमियं दधाती नलिनी कादम्बचञ्चूक्षतं धत्ते चूतलता नवं किसलयं पुंस्कोकिलास्वादितम् । इत्याकर्ण्य मिथः सखीजनवचः सा दीर्घकायास्तते चैलान्तेन तिरोदधे स्तनतटं बिम्बाधरं पाणिना ॥६४१॥ [कुव. ६७] जानाति विश्वासयितुं मनुष्यान् विज्ञात दोषेषु दधाति दण्डम् । जानाति मात्रां च तथा क्षमां च तं तादृशं श्रीर्जुषते समग्रा ॥६४३॥ [म.भा. ५.३३.८६] एकाग्रः स्यादविवृतो नित्यं विवरदर्शकः । राजन्राज्यं सपत्नेषु नित्योद्विग्नः समाचरेत॥६४४॥ कर्मभूमिमिमां प्राप्य कर्तव्यं कर्म यच्छुभम् । अग्निर्वायुश्च सोमश्च कर्मणां फलभागिनः ॥६४५॥ [रा. २.१०९.२८] न किञ्चित्सहसा कार्यं कार्यं कार्यविदा क्वचित। क्रियते चेद्विविच्यैव तस्य श्रेयः करस्थितम् ॥६४६॥ [का.नी. ११.४७] दातारो यदि कल्पशाखिभिरलं यद्यर्थिनः किं तृणैर् ज्ञातिश्चेदनलेन किं यदि सुहृद्दिव्यौषधैः किं फलम् । किं कर्पूरशलाकया यदि दृशोः पन्थानमेति प्रिया संसारे नसतीन्द्रजालमपरं यद्यस्ति तेनापि किम् ॥६४७॥ [स.कं. ४.७१] एकान्ते सुखमास्यता परतरे चेतः समाधीयतां प्राणात्मा सुसमीक्ष्यतां जगदिदं तद्व्यापितं दृश्यताम् । प्राक्कर्म प्रविलोप्यतां चितिबलान्नाप्युत्तरे श्लिष्यतां प्रारब्धं त्विह भुज्यतामथ परब्रह्मात्मनास्थीयताम् ॥६४८॥ धूमाद्गाढमलीमसाच्छुचिपयः सूते घनस्योद्गमो लोहस्यातिशितस्य जातिरचलात्कुष्ठाश्ममालामयात। किं चात्यन्तजडाज्जलाद्द्युतिमतो ज्वालाध्वजस्योद्भवो जन्मावध्यनुकारिणो न महतां सत्यं स्वभावाः क्वचित॥६४९॥ [रा.त. ४.११] भूतानामपरः कश्चिद्धिंसायां सततोत्थितः । वञ्चनायां च लोकस्य स सुखेष्वेव जीर्यते ॥६५०॥ [म.भा. १२.३१८.१२] एकामिषप्रभवमेव सहोदराणाम् उज्जृम्भते जगति वैरमिति प्रसिद्धम् । पृथ्वीनिमित्तमभवत्कुरुपाण्डवानां तीव्रस्तथा हि भुवनक्षयकृद्विरोधः ॥६५१॥ ते पिबन्तः कषायांश्च सर्पींषि विविधानि च । दृश्यन्ते जरया भग्ना नगा नागैरिवोत्तमैः ॥६५२॥ [म.भा. ३?] न कालस्य प्रियः कश्चिन्न द्वेष्योऽपि कपीश्वर । कालः कालयते सर्वान्सर्वः कालेन बध्यते ॥६५३॥ [रा. ४.२७.७] एकाकिना न गन्तव्यं यदि कार्यशतं भवेत। एककुक्कुटमात्रेण ब्राह्मणः परिरक्षितः ॥६५४॥ [चा.नी. ५६] न दानैः शुध्यते नारी नोपवासशतैरपि । न तीर्थसेवया तद्वद्भर्तुः पदोदकैर्यथा ॥६५५॥ [बृ.चा. १७.१०] भैषज्यमेतद्दुःखस्य यदेतन्नानुचिन्तयेत। चिन्त्यमानं हि न व्येति भूयश्चापि विवर्धते ॥६५६॥ [म.भा. ११.२.१७] न दिष्टमप्यतिक्रान्तुं शक्यं भूतेन केनचित। दिष्टमेव ध्रुवं मन्ये पौरुषं तु निरर्थकम् ॥६५७॥ [म. ६.७८] भिषजो भेषजं कर्तुं कस्मादिच्छन्ति रोगिणे । यदि कालेन पच्यन्ते भेषजैः किं प्रयोजनम् ॥६५८॥ [म.भा. १२.१३७.५२] भार्या यस्य गृहे नित्यमतीव परिगर्विता । तस्य लक्ष्मीः क्षयं याति कृष्णपक्षे यथा शशी ॥६५९॥ [?] न कर्मणा लभ्यते चिन्तया वा नाप्यस्य दाता पुरुषस्य कश्चित। पर्याय योगाद्विहितं विधात्रा कालेन सर्वं लभते मनुष्यः ॥६६०॥ [म.भा. १२.२६.५] भोक्तुं पुरुषकारेण दुष्टस्त्रियमिव श्रियम् । व्यवसायं सदैवेच्छेन्न हि क्लीबवदाचरेत॥६६१॥ [का.नी. १३.१०] धूमायन्ते व्यपेतानि ज्वलन्ति सहितानि च । धृतराष्ट्रोल्मुकानीव ज्ञातयो भरतर्षभ ॥६६२॥ [म.भा. ५.३६.५८] कुर्मः किल्बिषमेतदेव हृदये कृत्वेति कौतूहलात् स्वैरिण्यः क्षितिपाश्च धिक्चपलतां क्रौर्यं च कुर्युः सकृत। पापाक्रान्तधियो भवन्त्यथ यथा नान्त्यान्स्पृशन्त्योऽपि ता दूयन्ते न च ते यथा स्वपितरौ घ्नन्तोऽपि शान्तत्रपाः ॥६६३॥ [रा.त. ४.६२६] दुर्भिक्षादेव दुर्भिक्षं क्लेशात्क्लेशं भयाद्भयम् । मृतेभ्यः प्रमृतं यान्ति दरिद्राः पापकारिणः ॥६६४॥ [म.भा. १२.१७४.३] बहवोऽविनयान्नष्टा राजानः सपरिच्छदाः । वनस्था अपि राज्यानि विनयात्प्रतिपेदिरे ॥६६५॥ [मनु. ७.४०] जलरेखा खलप्रीतिरर्धवारिघटस्थता । शिरसा धार्यमाणोऽपि खलः खलखलायते ॥६६६॥ [?] जीवन्तं मृतवन्मन्ये देहिनं धर्मवर्जितम् । मृतो धर्मेण संयुक्तो दीर्घजीवी न संशयः ॥६६७॥ [बृ.चा. १३.९] न वाचा दुर्गमः पारः कार्याणां राक्षसाधम । कार्याणां कर्मणा पारं यो गच्छति स बुद्धिमान॥६६८॥ नयेन जाग्रत्यनिशं नरेश्वरे सुखं स्वपन्तीह निराधयः प्रजाः । प्रमत्तचित्ते स्वपतीह सम्भ्रमात् प्रजागरेणास्य जगत्प्रबुध्यते ॥६६९॥ [का.नी. ७.५८] चिता दहति निर्जीवं चिन्ता जीवं दहत्यहो । बिन्दुनैवाधिका चिन्ता चितात्यल्पा हि भूतले ॥६७०॥ [प्र.भ. १७] न कुलं वृत्ति हीनस्य प्रमाणमिति मे मतिः । अन्त्येष्वपि हि जातानां वृत्तमेव विशिष्यते ॥६७१॥ [म.भा. ५.३२.२२] दुर्बुद्धिमकृतप्रज्ञं छन्नं कूपं तृणैरिव । विवर्जयीत मेधावी तस्मिन्मैत्री प्रणश्यति ॥६७२॥ [म.भा. ५.३९.३५] न सा प्रीतिर्दिविष्ठस्य सर्वकामानुपाश्नतः । अभवद्या परा प्रीतिर्गङ्गायाः पुलिने नृणाम् ॥६७३॥ [म.भा. १३.२७.५९] तीर्थस्थितः स्वकुलजांस्तिमिरत्ति भुङ्क्ते मौनी बकस्तिमिमुपेत्य वनान्तवासी । व्याधो निहन्ति तु बकं प्रभवन्ति ते ते पात्राण्युपर्युपरि वञ्चनचञ्चुतायाम् ॥६७४॥ [रा.त. ५.३०४] एतल्लब्धमिदं च लभ्यमधिकं च मूल्यलभ्यं ततो लभ्यं चापरमित्यनारतमहो लभ्यं धनं ध्यायसि । नैतद्वेत्सि पुनर्भवन्तमचिरादाशापिशाची बलात् सर्वग्रासमियं ग्रसिष्यति महामोहान्धकारावृतम् ॥६७५॥ [?] पूर्वं सम्मानना यत्र पश्चाच्चैव विमानना । जह्यात्तत्सत्त्ववान्स्थानं शत्रोः संमानितोऽपि सन॥६७६॥ धर्मादर्थः प्रभवति धर्मात्प्रभवते सुखम् । धर्मेण लभ्यते सर्वं धर्मसारमिदं जगत॥६७७॥ [रा. ३.९.३०] न वैराण्यभिजानन्ति गुणान्पश्यन्ति नागुणान। विरोधं नाधिगच्छन्ति ये त उत्तमपूरुषाः ॥६७८॥ [म.भा. २.६५.६] क्षीणो रविमवति शशी वृद्धौ च वर्धयति पयसां नाथम् । अन्ये विपदि सहाया धनिनां श्रियमनुभवन्त्यन्ये ॥६७९॥ [पञ्च. ५.] कुभार्यां च कुपुत्रं च कुराजानं कुसौहृदम् । कुसम्बन्धं कुदेशं च दूरतः परिवर्जयेत॥६८०॥ [म.भा. १२] किं कुलेन विशालेन शीलमेवात्र कारणम् । कृमयः किं न जायन्ते कुसुमेषु सुगन्धिषु ॥६८१॥ [शा.प. १४८५] न हि कस्य प्रियः को वा विप्रियो वा जगत्त्रये । काले कार्यवाशात्सर्वे भवन्त्येवाप्रियाः प्रियाः ॥६८२॥ [ब्र.वै.पु. जन्मखण्ड] तीक्ष्णोपायप्रान्तगम्योऽपि योऽर्थस् तस्याप्यादौ संश्रयः साधुयुक्तः । उत्तुङ्गाग्रः सारभूतो वनानां सालोऽभ्यर्च्य च्छिद्यते पादपेन्द्रः ॥६८३॥ [?] नापितस्य गृहे क्षौरं पाषाणे गन्धलेपनम् । आत्मरूपं जले पश्यन्शक्रस्यापि श्रियं हरेत॥६८४॥ [?] पुन्नाम्नो नरकाद्यस्मात्त्रायते पितरं सुतः । तस्मात्पुत्र इति प्रोक्तः स्वयमेव स्वयम्भुवा ॥६८५॥ [म.भा. १.६८.३८] धर्माख्याने श्मशाने च रोगिणां या मतिर्भवेत। सा सर्वदैव तिष्ठेच्चेत्को न मुच्येत बन्धनात॥६८६॥ [बृ.चा. १४.६] कालो हेतुं विकुरुते स्वार्थस्तमनुवर्तते । स्वार्थं प्राज्ञोऽभिजानाति प्राज्ञं लोकोऽनुवर्तते ॥६८७॥ [म.भा. १२.१३६.१५१] न स्वे सुखे वै कुरुते प्रहर्षं नान्यस्य दुःखे भवति प्रतीतः । दत्त्वा न पश्चात्कुरुतेऽनुतापं न कत्थते सत्पुरुषार्य शीलः ॥६८८॥ [म.भा. ५.३३.९४] तिलार्धं स्वीयभागश्च निःसारं बदरीफलम् । आहारात्परतः श्रेयो धूलिः परगृहादपि ॥६८९॥ [चाणक्य ६६] धर्म एव प्लवो नान्यः स्वर्गं द्रौपदि गच्छताम् । सैव नौः सागरस्येव वणिजः पारं ऋच्छतः ॥६९०॥ [म.भा. ३.३२.२२] न स्कन्दते न व्यथते न विनश्यति कर्हि चित। वरिष्ठमग्निहोत्रेभ्यो ब्राह्मणस्य मुखे हुतम् ॥६९१॥ [मनु. ७.८४] दोग्धव्यं न च मित्रेषु न विश्वस्तेषु कर्हिचित। येषां चान्नानि भुञ्जीत यत्र च स्यात्प्रतिश्रयः ॥६९२॥ [?] किं करिष्यति संसर्गः स्वभावो दुरतिक्रमः । पश्याम्रफलसंसर्गी कषायो मधुरः कुतः ॥६९३॥ [?] धर्मात्मनः शुभैर्वृत्तैः क्रतुभिश्चाप्तदक्षिणैः । धूतपापा गताः स्वर्गं पितामहनिषेवितम् ॥६९४॥ [र.गो. २.११४.१८] न विश्वासाज्जातु परस्य गेहं गच्छेन्नरश्चेतयानो विकाले । न चत्वरे निशि तिष्ठेन्निगूढो न राजन्यां योषितं प्रार्थयीत ॥६९५॥ [म.भा. ५.३७.२६] वध्यन्ते न ह्यविश्वस्ताः शत्रुभिर्दुर्बला अपि । विश्वस्तास्तेषु वध्यन्ते बलवन्तोऽपि दुर्बलैः ॥६९६॥ [?] न वैरमुद्दीपयति प्रशान्तं न दर्ममारोहति नास्तमेति । न दुर्गतोऽस्मीति करोति मन्युं तमार्य शीलं परमाहुरग्र्यम् ॥६९७॥ [म.भा. ५.३३.९३] काले मृदुर्यो भवति काले भवति दारुणः । स वै सुखमवाप्नोति लोकेऽमुष्मिन्निहैव च ॥६९८॥ [म.भा. १२.१३८.६६] चिकीर्षितं विप्रकृतं च यस्य नान्ये जनाः कर्म जानन्ति किञ्चित। मन्त्रे गुप्ते सम्यगनुष्ठिते च स्वल्पो नास्य व्यथते कश्चिदर्थः ॥६९९॥ [म.भा. ५.३३.१००] धनेनाधर्मलब्धेन यच्छिद्रमपिधीयते । असंवृतं तद्भवति ततोऽन्यदवदीर्यते ॥७००॥ [म.भा. ५.३५.६०] मदरक्तस्य हंसस्य कोकिलस्य शिखण्डिनः । हरन्ति न तथा वाचो यथा साधु विपश्चिताम् ॥७०१॥ [म.भा. ५.?] न स्पृशत्यायुधं जातु न स्त्रीणां स्तनमण्डलम् । अमनुष्यस्य कस्यापि हस्तोऽयं न किलाफलः ॥७०२॥ [काव्या. ३.१२१] कोशमूलो हि राजेति प्रवादः सार्वलौकिकः । एतत्सर्वं जहातीह कोशव्यसनवान्नृपः ॥७०३॥ [का.नी. १३.३३] कालेन शीघ्राः प्रविवान्ति वाताः कालेन वृष्टिर्जलदानुपैति । कालेन पद्मोत्पलवज्जलं च कालेन पुष्पन्ति नगा वनेषु ॥७०४॥ [म.भा. १२.२६.८] त्वमेव धातुः पूर्वोऽसि त्वमेव प्रत्ययः परः । अनाख्यातं न ते किञ्चिन्नाथ केनोपमीयसे ॥७०५॥ [सर्वस्व.टी. १६.७५१] क्षीरिण्यः सन्तु गावो भवतु वसुमती सर्वसम्पन्नसस्या पर्जन्यः कालवर्षी सकलजनमनोनन्दिनो वान्तु वाताः । मोदन्तां जन्मभाजः सततमभिमता ब्राह्मणाः सन्तु सन्तः श्रीमन्तः पान्तु पृथ्वीं प्रशमितरिपवो धर्मनिष्ठाश्च भूपाः ॥७०६॥ इति श्रीसुभाषितरत्नभाण्डागारे सप्तमं सङ्कीर्णप्रकरणं ॥ समाप्तोऽयं ग्रन्थः ॥ </poem> [[वर्गः:परिशीलनीयानि]]⏎ [[वर्गः:Delete]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sa.wikipedia.org/w/index.php?diff=prev&oldid=296359.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|