Difference between revisions 309869 and 339297 on sawiki{{Orphan|date=जनुवरि २०१४}} [[File:Bhagvad Gita.jpg|thumb|right|300px|गीतोपदेशः]] :'''मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो ।''' :'''योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ॥ ४ ॥''' ==पदच्छेदः== मन्यसे यदि तत् शक्यं मया द्रष्टुम् इति प्रभो योगेश्वर ततः मे त्वं दर्शय आत्मानम् अव्ययम् ॥ ४ ॥ ==अन्वयः== प्रभो ! तत् मया द्रष्टुं शक्यम् इति यदि मन्यसे ततः हे योगेश्वर ! त्वम् अव्ययम् आत्मानं मे दर्शय । ==पदार्थः== :प्रभो = ईश्वर ! :तत् = तत् रूपम् :द्रष्टुम् = अवलोकितुम् :मया शक्यम् इति = मया शक्यम् इति :यदि मन्यसे = चिन्तयसि चेत् :ततः = तर्हि :योगेश्वर = योगेश्वर ! :अव्ययम् = अनश्वरम् :आत्मानम् = स्वम् :मे दर्शय = मां प्रदर्शय । ==तात्पर्यम्== श्रीकृष्ण ! तत् रूपं मया अवलोकितुं शक्यम् इति यदि चिन्तयसि तर्हि त्वं तत् अनश्वरं रूपं मां दर्शय । ==सम्बद्धसम्पर्कतन्तुः== *[http://sa.wikisource.org/wiki/भगवद्गीता भगवद्गीता] (मूलश्लोकाः) *[[भगवद्गीता]] {{Interwiki conflict}}⏎ ⏎ [[वर्गः:अनपेक्षितानि-भगवद्गीता]] [[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]⏎ [[वर्गः:सर्वे अपूर्णलेखाः]] [[es:Bhagavad-gītā]] [[tr:Bhagavadgita]]⏎ {{Interwiki conflict}} All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sa.wikipedia.org/w/index.php?diff=prev&oldid=339297.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|