Difference between revisions 310332 and 339261 on sawiki{{Orphan|date=जनुवरि २०१४}} [[File:Hitopadesha.jpg|thumb|300px|गीतोपदेशः]] :'''ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् ।''' :'''ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ २४ ॥''' ==पदच्छेदः== ब्रह्मार्पणं ब्रह्म हविः ब्रह्माग्नौ ब्रह्मणा हुतम् ब्रह्म एव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ २४ ॥ ==अन्वयः== अर्पणं ब्रह्म । ब्रह्माग्नौ ब्रह्मणा हुतम् हविः ब्रह्म । ब्रह्मकर्मसमाधिना तेन गन्तव्यं ब्रह्मैव । ==पदार्थः== :अर्पणम् = समर्पणसाधनं स्रुगादि :ब्रह्म = परमात्मा :ब्रह्माग्नौ = परमात्मरूपे अग्नौ :ब्रह्मणा = यजमानरूपेण परमात्मना :हुतम् = दत्तम् :हविः = आज्यादिकं वस्तु :ब्रह्म = परमात्मा :ब्रह्मकर्मसमाधिना = कर्मरूप-परमात्मना :तेन = यजमानेन :गन्तव्यम् = प्राप्तव्यः :ब्रह्म एव = परमात्मा एव । ==तात्पर्यम्== अत्र यत् समर्पणसाधनं वर्तते तत् ब्रह्म, यः अग्निः तत् ब्रह्म, यो यजमानः तद् ब्रह्म, यत्तेन हुतम् आज्यादि तदपि ब्रह्म, यत् समर्पणं तदपि ब्रह्म, तत्र अवहितेन पुरुषेण प्राप्तव्यमपि ब्रह्मैव । एवं सर्वं खलु इदं ब्रह्म । न तदतिरिक्तं किञ्चिदपि वस्तु इह वर्तते । ==बाह्यसम्पर्कतन्तुः== {{Interwiki conflict}}⏎ ⏎ [[वर्गः:अनपेक्षितानि-भगवद्गीता]] [[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]⏎ [[वर्गः:सर्वे अपूर्णलेखाः]] [[eo:Bhagavadgitao]] [[es:Bhagavad-gītā]] [[tr:Bhagavadgita]]⏎ {{Interwiki conflict}} All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sa.wikipedia.org/w/index.php?diff=prev&oldid=339261.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|