Difference between revisions 339246 and 366446 on sawiki{{Orphan|date=जनुवरि २०१४}} [[File:Bhagvad Gita.jpg|thumb|right|300px|गीतोपदेशः]] :'''अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्यहरागमे ।''' :'''रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ॥ १८ ॥''' ==पदच्छेदः== अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्ति अहरागमे रात्र्यागमे प्रलीयन्ते तत्र एव अव्यक्तसंज्ञके ॥ १८ ॥ ==अन्वयः== अहरागमे अव्यक्तात् सर्वाः व्यक्तयः प्रभवन्ति । रात्र्यागमे अव्यक्तसंज्ञके तत्र एव प्रलीयन्ते । ==पदार्थः== :अहरागमे = दिनारम्भे :अव्यक्तात् = कारणीभूतात् :प्रजापतेः सर्वाः = सकलाः :व्यक्तयः = स्थावरजमाः भावाः :प्रभवन्ति = उत्पद्यन्ते :रात्र्यागमे = निशारम्भे :अव्यक्तसञ्ज्ञके = अव्यक्तनामके :तत्र एव = तस्मिन् एव प्रजापतौ :प्रलीयन्ते = विलीनाः भवन्ति । ==तात्पर्यम्== यदा दिनस्य आरम्भः भवति तदा कारणीभूतात् प्रजापतेः सर्वे स्थावरजमात्मकाः प्राणिनः सम्भवन्ति । यदा पुनः रात्रेः आरम्भः तदा कारणीभूते अव्यक्ते तस्मिन् एव प्रजापतौ सर्वेऽपि एते प्रलीनाः भवन्ति । ==बाह्यसम्पर्कतन्तुः== {{Interwiki conflict}} [[वर्गः:अनपेक्षितानि-भगवद्गीता]] [[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]] [[वर्गः:सर्वे अपूर्णलेखाः]] [[eo:Bhagavadgitao]] [[es:Bhagavad-gītā]] [[tr:Bhagavadgita]]⏎ ⏎ [[वर्गः:सारमञ्जूषा योजनीया]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sa.wikipedia.org/w/index.php?diff=prev&oldid=366446.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|