Revision 198016 of "मधु (औषधम्)" on sawiki[[चित्रम्:Med u sacu karlovic1.jpg|thumb|200px|right|कूपीषु सङ्गृहीतं मधु]] अयम् आहारपदार्थः प्रायः जगति सर्वत्र उपलभ्यते एव । अयं सस्यजन्यः एव आहारपदार्थः परन्तु कीटकुलीयाः मधुमक्षिकाः सङ्गृह्णन्ति । आङ्ग्लभाषायाम् एतत् Honey इति वदन्ति । मधु विना [[अयुर्वेदः|आयुर्वेदस्य]] चिकित्सानां कल्पनाम् अपि कर्तुं न शक्नुमः तथा प्रसिद्धम् अस्ति मधु आयुर्वेदशास्त्रे । बालानां तु [[औषधम्|औषधस्य]] सेवनं नाम मधुना सह एव इति अर्थः । एतत् मधु [[पुष्पाणि|पुष्पेषु]] भवति । [[मधुमक्षिकाः]] सङ्गृह्य [[नीडम्|नीडे]] रक्षन्ति । अनन्तरं [[मानवः]] नीडतः मधुमक्षिकाभिः सङ्गृहीतं मधु प्राप्नोति । पञ्चसु अमृतसदृशेषु वस्तुषु मधु अपि एकम् । अतः एव पूजावसरेषु सज्जीक्रियमाणे [[पञ्चामृतम्|पञ्चामृते]] अपि मधु योजितं भवति । एतत् मधु मधुमक्षिकाणां गात्रानुसारं, मधुनः सङ्ग्रहणस्य सामर्थ्यस्य अनुगुणं च विभज्यते । आचार्यः [[चणकः]] मधु चतुर्विधम् इति वदति । :'''“माक्षिकं भ्रामरं क्षौद्रं पौत्तिकं मधु जातयः ।“'''[[चित्रम्:Bee on -calyx 935.jpg|thumb|200px|right|पुष्पेभ्यः मकरन्दं सङ्गृह्णती मधुमक्षिका]] :तैलवर्णीयं मधु माक्षिकं मधु । एतत् मधुषु अत्यन्तं श्रेष्ठम् इति उच्यते । :[[घृतम्]] इव यत् भवति तत् पौत्तिकं मधु । एतत् मधु उपयोगाय योग्यं न इति वदन्ति । :कपिलवर्णस्य मधु क्षौत्रं मधु । एतत् मधु शीतगुणयुक्तं पचनार्थं लघु च । :महामधुमक्षिकाभिः सङ्गृहीतं मधु भ्रामरम् (भ्रमरसदॄशीभिः मधुमक्षिकाभिः इति अर्थः) । एतत् मधु किञ्चित् इव श्वेतवर्णीयं भवति । अस्य रुचिः मधुरः भवति । अस्मिन् मधुनि रूक्षगुणः न्यूनः भवति । [[मधुमेहः|मधुमेहादिषु]] रोगेषु (Sugar) माक्षिकस्य मधुनः उपयोगः एव करणीयः इति वदन्ति शास्त्राणि । आचार्यस्य [[सुश्रुतः|सुश्रुतस्य]] अनुसारं मधु अष्ट विधं भवति । योगवाहिद्रव्येषु अत्यन्तं श्रेष्ठं द्रव्यम् अस्ति मधु । यतः विभिन्नानाम् औषधानां निर्माणे उपयुक्तं भवति तथा च बहून् रोगान् शमयति । योगवाहि नाम औषधानां गमनाय अथवा प्रयाणार्थं किञ्चन वाहनम् इव । यत् औषधं यत्र कार्यं कुर्यात् तत्र तस्य औषधस्य गुणं वर्धयत् औषधं यथा सम्यक् कार्यं कुर्यात् तथा करोति मधु । शीतद्रव्यैः सह शीतद्रव्यम् इव, उष्णद्रव्यैः सह उष्णद्रव्यम् इव कार्यं करोति मधु । अतः औषधानां कार्ये वेगं जनयति । [[चित्रम्:Honey comb.jpg|thumb|200px|right|मधुकोषः]] ===आयुर्वेदस्य अनुसारम् अस्य मधुनः स्वभावः=== योगवाहिद्रव्येषु अत्यन्तं श्रेष्ठं मधु शरीरं शुष्कीकरोति । अस्य रुचिः कषायमिश्रितमधुरा । प्रधानरुचिः कषाया । मधु जीर्णानन्तरं कटुरूपेण परिवर्तितं भवति । किञ्चित् मधु जीर्णानन्तरम् अपि मधुररूपेण एव तिष्ठति । तादृशं मधु विश्वासार्हं न । तत्र कदाचित् शर्करायाः संयोगः जातः भवति । शुद्धं मधु तैलवर्णीयं भवति । शुद्धं मधु [[अग्निः|अग्नौ]] स्थाप्यते चेत् शब्दं न जनयति । :१. मधु उष्णीकृत्य अथवा उष्णपदार्थैः सह न उपयोक्तव्यम् । :२. मधु उष्णप्रकृतियुक्ताः अपि न सेवेरन् । :३. उष्णकाले तन्नाम शरदृतौ, ग्रीष्मऋतौ च, मध्याह्नकाले वा मधुनः उपयोगः [[विषम्|विषत्वेन]] परिवर्तते । :४. उष्णगुणप्रधानैः पदार्थैः सह अपि मधु न उपयोक्तव्यम् । :५. मधुना सह वृष्टिजलम् अपि विरुद्धं परिणामं जनयति ।[[चित्रम्:Sealed Honey in frame.JPG|thumb|200px|right|मधुमक्षिलकाणां पालनम्]] :६. शरीरस्य भारं न्यूनीकर्तुम् इच्छुकाः मधु उष्णजले योजयित्वा पिबन्ति । अयम् अपि उत्तमः क्रमः न इति वदति आयुर्वेदः । :७. मधु घृतेन सह वा अन्यैः स्नेहद्रव्यैः सह वा समप्रमाणेन न उपयोक्तव्यम् । प्रमाणे परिवर्तनं कृतं चेत् अमृतसदृशं भवति । :८. वृष्टिकाले मधुनः उपयोगः हितकरः । :९. शीतप्रकृतियुक्ताः आहारेण सह मधुनः उपयोगं कुर्युः इति वदति शास्त्रम् । :१०. मधुनः सेवनम् अधिकं जातं चेत् अत्यधिकं कूपजलं पातव्यम् । तदा दोषः निवारितः भवति । :११. [[कमलम्|कमल]]पुष्पस्य मधु नेत्रे स्थाप्यते चेत् नेत्रस्य निर्मोकः न आगच्छति, दृष्टिशक्तिः वर्धते च । :१२. मधु शरीरे शक्तिं वर्धयति, [[रक्तम्|रक्ते]] हिमोग्लोबिन् अंशं वर्धयति च । :१३. मधु जीर्णानन्तरं कटुरूपेण परिवर्तितं भवति इत्यनेन [[कफः|कफ]]जन्येषु रोगेषु उत्तमम् । व्रणेषु मधुनः उपयोगः उत्तमं परिणामं जनयति । :१४. [[मुखम्|मुखे]] तदा तदा पिटकाः जायन्ते चेत् तत्र मधु लेपनीयम् । :१५. बालानां पीनसं कासं च मधु एव निवारयति । [[वर्गः:लेह्यम्]] [[ckb:هەنگوین]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sa.wikipedia.org/w/index.php?oldid=198016.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|