Revision 198138 of "११.५ पश्य मे पार्थ…." on sawiki

[[File:Bhagvad Gita.jpg|thumb|right|300px|गीतोपदेशः]]
श्रीभगवानुवाच -<big>
:'''पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः ।'''
:'''नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥ ५ ॥'''

==पदच्छेदः==
पश्य मे पार्थ रूपाणि शतशः अथ सहस्रशः नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥ ५ ॥

==अन्वयः==
पार्थ ! शतशः अथ सहस्रशः नानाविधानि दिव्यानि नानावर्णाकृतीनि च मे रूपाणि पश्य । 

==पदार्थः==
:पार्थ = अर्जुन !
:शतशः अथ सहस्रशः = अपरिमितानि
:नानाविधानि = बहुप्रकाराणि
:दिव्यानि = लोकोत्तराणि
:नानावर्णाकृतीनि च = नानावर्णाकाराणि
:मे = मम
:रूपाणि = स्वरूपाणि
:पश्य = वीक्षस्व ।

==तात्पर्यम्==
अर्जुन ! बहुप्रकाराणि दिव्यानि नावर्णाकाराणि च मम स्वरूपाणि च पश्य ।  
		
==सम्बद्धसम्पर्कतन्तुः==
*[http://sa.wikisource.org/wiki/भगवद्गीता भगवद्गीता] (मूलश्लोकाः)
*[[भगवद्गीता]]

[[वर्गः:अनपेक्षितानि-भगवद्गीता]]

[[es:Bhagavad-gītā]]
[[tr:Bhagavadgita]]