Revision 198140 of "११.२ भवाप्यायौ हि…." on sawiki[[File:Bhagvad Gita.jpg|thumb|right|300px|गीतोपदेशः]] :'''भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया ।''' :'''त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥ २ ॥''' ==पदच्छेदः== भवाप्ययौ हि भूतानां श्रुतौ विस्तरशः मया त्वत्तः कमलपत्राक्ष माहात्म्यम् अपि च अव्ययम् ॥ २ ॥ ==अन्वयः== कमलपत्राक्ष ! भूतानां भवाप्ययौ हि विस्तरशः त्वत्तः मया श्रुतौ । अव्ययं माहात्म्यम् अपि च । ==पदार्थः== :कमलपत्राक्ष = पद्मपत्रनेत्र ! :भूतानाम् = प्राणिनाम् :भवाप्ययौ = उत्पत्तिप्रलयौ :विस्तरशः = वैपुल्येन :त्वत्तः = तव सकाशात् :मया श्रुतौ = मया आकर्णितौ\ :अव्ययम् = अक्षयम् :माहात्म्यम् अपि च = प्रभावोऽपि (श्रुतः) । ==तात्पर्यम्== हे पद्मपत्रनेत्र, श्रीकृष्ण ! प्राणिनाम् उत्पत्तिं प्रलयं च भवतः मुखात् विस्तरेण अहं श्रुतवान् । भवतः अक्षयं प्रभावमपि श्रुतवान् । ==सम्बद्धसम्पर्कतन्तुः== *[http://sa.wikisource.org/wiki/भगवद्गीता भगवद्गीता] (मूलश्लोकाः) *[[भगवद्गीता]] [[वर्गः:अनपेक्षितानि-भगवद्गीता]] [[es:Bhagavad-gītā]] [[tr:Bhagavadgita]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sa.wikipedia.org/w/index.php?oldid=198140.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|