Revision 198200 of "११.३ एवमेतद्यथात्थ…." on sawiki[[File:Bhagvad Gita.jpg|thumb|right|300px|गीतोपदेशः]] :'''एवमेतद्यथात्थ त्वमात्मानं परमेश्वर ।''' :'''द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ॥ ३ ॥''' ==पदच्छेदः== एवम् एतत् यथा आत्थ त्वम् आत्मानं परमेश्वर द्रष्टुम् इच्छामि ते रूपम् ऐश्वरं पुरुषोत्तम ॥ ३ ॥ ==अन्वयः== परमेश्वर ! पुरुषोत्तम ! आत्मानं त्वं यथा आत्थ एवम् एतत् ते ऐश्वरं रूपं द्रष्टुम् इच्छामि । ==पदार्थः== :परमेश्वर = महेश्वर ! :पुरुषोत्तम = पुरुषश्रे ! :आत्मानम् = स्वम् :त्वं यथा आत्थ = त्वं येन प्रकारेण ब्रवीषि :एवम् एतत् = इत्थमेव तत् :ते ऐश्वरम् = तव ज्ञानैश्वर्यादियुक्तम् :रूपम् = आकारम् :द्रष्टुम् = अवलोकयितुम् :इच्छामि = अभिलषामि । ==तात्पर्यम्== श्रीकृष्ण ! पुरुषोत्तम ! आत्मानं भवान् येन प्रकारेण वदति तादृशमेव तव ऐश्वर्ययुक्तम् स्वरूपं द्रष्टुम् अभिलषामि । ==सम्बद्धसम्पर्कतन्तुः== *[http://sa.wikisource.org/wiki/भगवद्गीता भगवद्गीता] (मूलश्लोकाः) *[[भगवद्गीता]] [[वर्गः:अनपेक्षितानि-भगवद्गीता]] [[es:Bhagavad-gītā]] [[tr:Bhagavadgita]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sa.wikipedia.org/w/index.php?oldid=198200.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|