Revision 198201 of "११.८ न तु मां शक्यासे…." on sawiki

[[File:Bhagvad Gita.jpg|thumb|right|300px|गीतोपदेशः]]
:'''न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा ।'''
:'''दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ॥ ८ ॥'''

==पदच्छेदः==
न तु मां शक्यसे द्रष्टुम् अनेन ए व स्वचक्षुषा दिव्यं ददामि ते चक्षुः पश्य मे योगम् ऐश्वरम् ॥ ८ ॥

==अन्वयः==
अनेन स्वचक्षुषा एव मां द्रष्टुं न शक्यसे । ते दिव्यं चक्षुः ददामि । ऐश्वरं मे योगं पश्य ।	

==पदार्थः==
अनेन = एतेन
:स्वचक्षुषा एव = स्वनेत्रेण एव
:मां द्रष्टुम् = माम् अवलोकितुम्
:न तु शक्यसे = न समर्थः भवसि
:ते = तुभ्यम्
:दिव्यम् = अलौकिकम्
:चक्षुः = नेत्रम्
:ददामि = यच्छामि
:ऐश्वरम् = ईश्वरसम्बन्धि
:मे योगम् = मम सामर्थ्यम्
:पश्य = अवलोकय ।

==तात्पर्यम्==
एतेन नेत्रेण एव मां द्र्ष्टुं त्वं समर्थः न भवसि । अतः तुभ्यम् अलौकिकं नेत्रं यच्छामि येन ईश्वरस्य मम असाधारणं सामर्थ्यं पश्य ।
		
==सम्बद्धसम्पर्कतन्तुः==
*[http://sa.wikisource.org/wiki/भगवद्गीता भगवद्गीता] (मूलश्लोकाः)
*[[भगवद्गीता]]

[[वर्गः:अनपेक्षितानि-भगवद्गीता]]

[[es:Bhagavad-gītā]]
[[tr:Bhagavadgita]]