Revision 198204 of "८.१७ अव्यक्ताद्वक्तयः...." on sawiki

[[File:Bhagvad Gita.jpg|thumb|right|300px|गीतोपदेशः]]
:'''सहस्रयुगपर्यन्तमहर्यद् ब्रह्मणो विदुः ।'''
:'''रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ॥ १७ ॥'''

==पदच्छेदः==
सहस्रयुगपर्यन्तम् अहः यत् ब्रह्मणः विदुः रात्रिं युगसहस्रान्तां ते अहोरात्रविदः जनाः ॥ १७ ॥

==अन्वयः==
ब्रह्मणः यत् अहः सहस्रयुगपर्यन्तं ये विदुः ते अहोरात्रविदः जनाः रात्रिं युगसहस्रान्तां विदुः । 	

==पदार्थः==
:ब्रह्मणः = प्रजापतेः
:अहः = दिनम्
:सहस्रयुगपर्यन्तम् = युगसहस्रावधिकम्
:ये विदुः = ये जानन्ति
:ते अहोरात्रविदः = ते कालज्ञाः
:जनाः = मानवाः
:रात्रिम् = निशाम्
:युगसहस्रान्ताम् = युगसहस्रावधिकीम्
:विदुः = जानन्ति ।

==तात्पर्यम्==
कालज्ञाः जनाः प्रजापतेः दिनं युगसहस्रमिति वदन्ति, तथा रात्रिं युगसहस्रम् । तस्मात् ब्रह्मलोकादयः क्षणिकाः ।

==बाह्यसम्पर्कतन्तुः==

[[वर्गः:अनपेक्षितानि-भगवद्गीता]]

[[eo:Bhagavadgitao]]
[[es:Bhagavad-gītā]]
[[tr:Bhagavadgita]]