Revision 198205 of "१.३० गाण्डीवं स्रंसतॆ…" on sawiki

{{db-multiple|G6|rationale=Duplicate page. Another similar page exists.}}
[[File:Bhagvad Gita.jpg|thumb|right|300px|गीतोपदेशः]]
:'''गाण्डीवं स्रंसते हस्तात् त्वक्चैव परिदह्यते ।'''
:'''न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥ ३० ॥'''

==पदच्छेदः==
गाण्डीवम्, स्रंसते, हस्तात्, त्वक्, च, एव, परिदह्यते । न, च, शक्नोमि, अवस्थातुम्, भ्रमति, इव, च, मे, मनः ॥

==अन्वयः==
रोमहर्षः वेपथुश्च मे शरीरे जायते । हस्तात् गाण्डीवं स्रंसते । त्वक् च एव परिदह्यते । अवस्थातुं न शक्नोमि । मे मनः भ्रमति इव । 

==अन्वयार्थः==
:हस्तात्       = करात्
:गाण्डीवम्     = गाण्डीवनामकं धनुः
:स्रंसते         = भ्रश्यति
:त्वक् च एव   = चर्म च
:परिदह्यते     = सन्तप्यते
:अवस्थातुम्   = थातुम्
:न शक्नोमि   = नहि प्रभवामि
:मनः          = चित्तम्
:भ्रमति इव    = भ्राम्यति इति मन्ये ।

==तात्पर्यम्==
मम शरीरे कम्पः जायते । अहं रोमाञ्चम् अनुभवन् अस्मि । गाण्डीवं धनुः मम हस्तात् स्रंसते । मम त्वक् दग्धा इव भवति । अहं सम्यक् स्थातुं न शक्नोमि । मम मनः भ्रमति इव । 

==श्लोकवैशिष्ट्यम्==
विषयस्य सुबोधाय मिलित्वा दत्तम् ।

==बाह्यसम्पर्कतन्तुः==

[[वर्गः:Duplicate Pages]]

[[eo:Bhagavadgitao]]
[[es:Bhagavad-gītā]]
[[tr:Bhagavadgita]]