Revision 246271 of "गिरनारपर्वतः" on sawiki

{{Infobox mountain
| name              = Mount Girnar
| other_name        = Highest Mountain of Gujarat
| photo             = Girnar 1.jpg
| photo_size        = 250
| photo_alt         = Girnar
| photo_caption     = Girnar from Rupayatan
| elevation         = 
| elevation_m       = 1031
| elevation_ft      = 3382
| elevation_ref     = 
| prominence        = 
| prominence_m      = 
| prominence_ft     = 
| prominence_ref    = 
| listing           = 
| range             = Giri Taleti
| parent_peak       = 
| location          = [[Bhavnath]], [[Junagadh]], {{flag|India}}
| map               = 
| map_alt           = 
| map_caption       = 
| map_relief        = 
| map_size          = 
| label             = 
| label_position    = 
| lat_d             = 21 | lat_m = 29 | lat_s = 41 | lat_NS = N
| long_d            = 70 | long_m = 30 | long_s = 20 | long_EW = E
| x                 = 
| y                 =
| region            = 
| coordinates_ref   = 
| grid_ref_UK       = 
| grid_ref_Ireland  = 
| topo              = 
| type              = 
| volcanic_arc/belt = 
| age               = 
| last_eruption     = 
| first_ascent      = 
| easiest_route     = 
}}

गिरनारपर्वतः [[गुजरातराज्यम्|गुजरातराज्यस्य]] पश्चिमभागे [[जुनागढमण्डलम्|जुनागढमण्डले]] अस्ति । [[गुजरातराज्यम्|गुजरातराज्यस्य]] उन्नततमः पर्वतः गिरनारपर्वतः पञ्चशिखराणि स्वस्मिन् धरति । तानि - गोरखशिखरम्, अम्बाजीशिखरम्, गोमुखशिखरम्, जैनमन्दिरशिखरम्, माळीपरबशिखरम् च ।  एतानि शिखराणि क्रमेण ३३०० मी., ३६०० मी., ३१२० मी., ३३०० मी., १८०० मी. च उन्नतानि सन्ति । गिरनारस्य पञ्चशिखरेषु ८६६ मन्दिराणि सन्ति । प्रस्तरैः निर्मितः सोपानमार्गः एकस्मात् शिखरात् अन्यत् शिखरं प्रति सम्प्रापयति । एवं प्रसिद्धिरस्ति यत् तत्र ९,९९९ सोपानानि सन्ति । परन्तु सोपानसङ्ख्याविषये बहूनां जनानां मान्यता भिन्नापि श्रूयते । प्रतिवर्षं गिरनारपर्वतप्रदक्षिणार्थं लक्षाधिकाः भक्ताः गच्छन्ति । प्रतिवर्षं तत्र  गिरनारारोहणस्पर्धा अपि भवति ।

==इतिहासः==
	सौराष्ट्रे मौर्यवंशस्य इतिहासः उज्वलः अस्ति । मगधस्य नन्दवंशस्य नाशं कृत्वा, गणराज्यपरम्परां समाप्य, भारतस्य चक्रवर्तिराजा चन्द्रगुप्तः ई.स. ३२२ तमे वर्षे सौराष्ट्रं जित्वा गिरनारे स्वकीयं पुष्पमित्रनामकम् उपराजत्वेन न्ययुङ्क्त ।
	कालांशे अत्र अनेकैः राजभिः राज्यं कृतम् । तेषु राज्ञा कुमारपाळेन गिरनारारोहणाय व्यवस्थितानि सोपानानि ई.स. १५५२ मध्ये निर्मापितानि । अत्र उपरकोटस्य दुर्गः अपि दर्शनीयं स्थलमस्ति । उपरकोटस्य दुर्गः राज्ञा ग्रहरिपुणा निर्मितः । एषः दुर्गः बहु सत्तापरिवर्तनं दृष्टवान्, तद्विषये सर्वोत्कृष्टा वा रोचकी कथा वर्तते यद्  उपरकोटस्य दुर्गे यदा राज्ञः राखेङ्गारस्य शासनम् आसीत्, तदा सिद्धराजजयसिंहः राखेङ्गारं हत्वा तस्य राज्ञीं राणकदेवीं बलेन हृत्वा गच्छन् आसीत् । तस्मिन् समये राणकदेवी गिरनारपर्वतं उक्तवती – 

ગોઝારા ગિરનાર, વળામણ વેરીને કિયો ?    गोजारा गिरनार, वळामणवेरीने कियो ?
મરતા રા'ખેંગાર, ખડેડી ખાંગો ન થિયો ?      मरता रा'यखेङ्गार, खखेडी खाङ्गो न थियो?
अर्थात् हे गिरनार ! शत्रुणामाक्रमणे राखेंगारः मृतः तथाऽपि त्वं न पतितः ? एतद् श्रुत्वा गिरनारपर्वतस्य पतनमारब्धम् । गिरनारपर्वतं पतन्तं दृष्ट्वा राणकदेवी उक्तवती –

પડમા પડમા મારા આધાર
अर्थात् मा पत, मा पत मे आधार ! 
	तस्मिन्नैव काले पतनं स्थगितं, परन्तु याः शिलाः पतितुम् अनमन्, ताः तत्राद्यापि नमिता एव दरीदृश्यन्ते । ऊपरकोटभागे एताः शिलाः दर्शनायाः सन्ति । 


==गिरनारस्य परिक्रमा== 
गिरनारं परितः ३६ कि.मी. परिमितस्य लम्बमाना चतुर्दिनानां परिक्रमा भवति, या कार्तिकमासस्य शुक्लैकादशीतः पूर्णिमा पर्यन्तं चलति । एषा परिक्रमापरम्परा कदा आरब्धा ? तत् तु निश्चितं नास्ति । परन्तु प्रारम्भिके काले केवलं सन्यासिनः एव परिक्रमां कुर्वन्ति स्म । कालान्तरं गृहस्थाः अपि आरभन्त । पूर्वस्मिन् काले केवलं भजनं कुर्वन्तः सर्वे परिक्रमां कुर्वन्ति स्म । परन्तु अधुना मार्गे भोजनादिनामपि व्यवस्था भवति, एतस्मै सामाजिकसंस्थाद्वारा अन्नक्षेत्राणि अपि चाल्यन्ते । इयं परम्परा चिरकालात् साम्प्रति प्रचलति वर्तते । 

<gallery>
File:Bhavnath Mahadev.jpg|भवनाथमन्दिरम्
File:Girnar 1.jpg|गिरनारपर्वतः
File:Girnar Full View.jpg|गिरनारपर्वतः
File:Girnar A.jpg|भवनाथमार्गः
</gallery>

==बाह्यसम्पर्कतन्तुः==
* [http://jainreligion.in/Jain-Tirth/Girnarji.asp Girnar, Girnar Jain Tirth]

[[वर्गः:गुजरातराज्यम्]]
[[वर्गः: गुजरातराज्यस्य प्रेक्षणीयस्थानानि]]
[[en: Girnar]]