Revision 249095 of "देवानन्दस्वामी" on sawiki

{{Infobox Hindu leader
|name= स्वामिनारायणभक्तः देवानन्दस्वामी
|image = Devanand_swami.jpg|देवानन्दस्वामी
|caption = ''देवानन्दस्वामी''
|birth_date= 
|birth_place= बळोलगामः [[गुजरातराज्यम्]]
|birth_name=
|death_date= 
|death_place=  
|guru=
|philosophy= भक्तिगीतानि
|honors=
|Literary works =
|quote= 
|footnotes=
}}
'''देवानन्दस्वामी''' (Devanand Swami) (१८०३-१८५४) [[गुजरातीभाषा]]याः प्रख्यातस्य साहित्यकारस्य कवेः [[दलपतराम]]स्य काव्यगुरुः, बह्मानन्दस्वामिनश्च शिष्यः स्वामिनारायणसम्प्रदायस्य अतुलनीयः कविः आसीत् । तस्य पद्यरचनाः उपदेशप्रधानाः आसन् । अद्यापि तस्य पद्यानि स्वामिनारायणमन्दिरेषु गीयन्ते । सः सम्भवतः मूलीग्रामे निवसति स्म । सः गुर्जरसाहित्यस्य प्रसिद्धस्य कवेः [[दलपतराम]]स्य काव्यगुरुः आसीत् । सः सम्प्रदायस्य नियमेषु निबद्धः कविः आसीत् । अतः सः भक्तिप्रधानाः रचनाः विशेषतः कृतवान् । संसारस्य क्षणभङ्गुरतायाः वर्णनं तस्य कृवितासु दृश्यते । तस्य कृतयः ‘देवानन्दकाव्यम्’ नाम्ना सुरेन्द्रनगरस्य गुरुकुलस्य 'शा.श्रीनारायणदासः' स्वामी प्राकाशयत् ।

==जन्म, शिक्षणं प्रभुमेलनं च ==

बावळा-लीम्बडीग्रामयोः मध्ये राजमार्गे, बगोदरातः ८ कि.मी. दूरे भालप्रदेशे इ.स. १८०३ तमे वर्षे बळोलगामे, शिवभक्तस्य शम्भुदानस्य गृहे तेजस्वी बालकः अवतीर्णः । तस्य नाम आसीत् 'देवीदानः गढवी' । बाल्यकालादेव तस्मै अध्यात्मज्ञानं रोचते स्म । कुटुम्बो भगवतः शम्भोः भक्तेः परम्परा आसीत् । पारम्पिकतया एव भक्तिरचना तस्य हस्तगता अभवत् । सः पितुः समीपे न्यूनम् अध्ययनं करोति स्म । अधिकं कालं तु सः ईश्वरनाम स्मरणेन यापयति स्म । शम्भुदानः गढवी एकस्मिन् मन्दिरे पूजकः आसीत् । देवीदानोऽपि तेन सह बहुवारं पूजायै गच्छति स्म । तत्र सः शम्भोः ध्याने मग्नो भवति स्म । श्रूयते यत् रामायणकालिनेन अत्रिमुनिना तस्य मन्दिरस्य स्थापना कृता आसीत् । देवीदानः बाल्यात् एव प्रभुदर्शनं काङ्क्षते स्म । एकवारं तु सः ईश्वरदर्शनाय स्वीयं मस्तकम् अर्पितुम् इच्छाम् अकरोत् । बालकस्य अनेन हठेन आकाशवाणी अभवत् - ‘आत्मधातं मा कुरु वत्स ! प्रभुं  निश्चयेन  प्राप्स्यसे त्वम् ।’ बालकोऽपि प्रत्यवदत्-’ कुत्र कथञ्च ? आकाशवाणी अभवत् ‘तव ग्राममेव ईश्वरः समागमिष्यति ।’ देवीदानः स्वामिनारायणसम्प्रदायस्य दीक्षां प्राप्य देवान्दः स्वामी  इति सन्यासाश्रमानुकूलं नामाभिधानं कृतवान् । 

स्वामिवर्यः स्वामिनारायणसम्प्रदाये न केवलं कविरूपेण, अपि तु स्थापत्यवित्त्वेनापि प्रसिद्धः वर्तते । तस्य कवित्वं स्थापत्यं च प्रति शोधग्रन्थाः लिख्यन्ते । गुर्जरभाषायाः सेवायां ८००० इतोऽपि अधिकानि पद्यानि रचितवतः कवेः नाम इतोऽपि संशयग्रस्तं वर्तते । सम्प्रति एतस्य सम्प्रदायस्य समीपे स्वामिब्रह्मानन्देन रचितस्य साहित्यस्य निधिः वर्तते । सः संवत् १९५८ तमे वर्षे ‘ब्रह्मानन्दकाव्यम्’ नाम्ना प्रकाशितः । अद्य यावत् तस्य बहवः आवृत्तियोऽपि प्रकाशिताः सन्ति । 

[[वर्गः:गुजरातराज्यस्य जनाः]]
[[en:Devanand Swami]]