Revision 310332 of "४.२४ ब्रह्मार्पणम् ब्रह्म...." on sawiki{{Orphan|date=जनुवरि २०१४}}
[[File:Hitopadesha.jpg|thumb|300px|गीतोपदेशः]]
:'''ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् ।'''
:'''ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ २४ ॥'''
==पदच्छेदः==
ब्रह्मार्पणं ब्रह्म हविः ब्रह्माग्नौ ब्रह्मणा हुतम् ब्रह्म एव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ २४ ॥
==अन्वयः==
अर्पणं ब्रह्म । ब्रह्माग्नौ ब्रह्मणा हुतम् हविः ब्रह्म । ब्रह्मकर्मसमाधिना तेन गन्तव्यं ब्रह्मैव ।
==पदार्थः==
:अर्पणम् = समर्पणसाधनं स्रुगादि
:ब्रह्म = परमात्मा
:ब्रह्माग्नौ = परमात्मरूपे अग्नौ
:ब्रह्मणा = यजमानरूपेण परमात्मना
:हुतम् = दत्तम्
:हविः = आज्यादिकं वस्तु
:ब्रह्म = परमात्मा
:ब्रह्मकर्मसमाधिना = कर्मरूप-परमात्मना
:तेन = यजमानेन
:गन्तव्यम् = प्राप्तव्यः
:ब्रह्म एव = परमात्मा एव ।
==तात्पर्यम्==
अत्र यत् समर्पणसाधनं वर्तते तत् ब्रह्म, यः अग्निः तत् ब्रह्म, यो यजमानः तद् ब्रह्म, यत्तेन हुतम् आज्यादि तदपि ब्रह्म, यत् समर्पणं तदपि ब्रह्म, तत्र अवहितेन पुरुषेण प्राप्तव्यमपि ब्रह्मैव । एवं सर्वं खलु इदं ब्रह्म । न तदतिरिक्तं किञ्चिदपि वस्तु इह वर्तते ।
==बाह्यसम्पर्कतन्तुः==
[[वर्गः:अनपेक्षितानि-भगवद्गीता]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[eo:Bhagavadgitao]]
[[es:Bhagavad-gītā]]
[[tr:Bhagavadgita]]
{{Interwiki conflict}}All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sa.wikipedia.org/w/index.php?oldid=310332.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|