Revision 339246 of "८.१८ भूतग्रामः स एव...." on sawiki

{{Orphan|date=जनुवरि २०१४}}

[[File:Bhagvad Gita.jpg|thumb|right|300px|गीतोपदेशः]]
:'''अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्यहरागमे ।'''
:'''रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ॥ १८ ॥'''

==पदच्छेदः==
अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्ति अहरागमे रात्र्यागमे प्रलीयन्ते तत्र एव अव्यक्तसंज्ञके ॥ १८ ॥

==अन्वयः==
अहरागमे अव्यक्तात् सर्वाः व्यक्तयः प्रभवन्ति । रात्र्यागमे अव्यक्तसंज्ञके तत्र एव प्रलीयन्ते ।

==पदार्थः==
:अहरागमे = दिनारम्भे
:अव्यक्तात् = कारणीभूतात्
:प्रजापतेः सर्वाः = सकलाः
:व्यक्तयः = स्थावरजमाः भावाः
:प्रभवन्ति = उत्पद्यन्ते
:रात्र्यागमे = निशारम्भे
:अव्यक्तसञ्ज्ञके = अव्यक्तनामके
:तत्र एव = तस्मिन् एव प्रजापतौ
:प्रलीयन्ते = विलीनाः भवन्ति ।

==तात्पर्यम्==
यदा दिनस्य आरम्भः भवति तदा कारणीभूतात् प्रजापतेः सर्वे स्थावरजमात्मकाः प्राणिनः सम्भवन्ति । यदा 	पुनः रात्रेः आरम्भः तदा कारणीभूते अव्यक्ते तस्मिन् एव प्रजापतौ सर्वेऽपि एते प्रलीनाः भवन्ति ।

==बाह्यसम्पर्कतन्तुः==

{{Interwiki conflict}}

[[वर्गः:अनपेक्षितानि-भगवद्गीता]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]

[[eo:Bhagavadgitao]]
[[es:Bhagavad-gītā]]
[[tr:Bhagavadgita]]