Revision 339297 of "११.४ मन्यसे यदि तत्…." on sawiki

{{Orphan|date=जनुवरि २०१४}}

[[File:Bhagvad Gita.jpg|thumb|right|300px|गीतोपदेशः]]
:'''मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो ।'''
:'''योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ॥ ४ ॥'''

==पदच्छेदः==
मन्यसे यदि तत् शक्यं मया द्रष्टुम् इति प्रभो योगेश्वर ततः मे त्वं दर्शय आत्मानम् अव्ययम् ॥ ४ ॥

==अन्वयः==
प्रभो ! तत् मया द्रष्टुं शक्यम् इति यदि मन्यसे ततः हे योगेश्वर ! त्वम् अव्ययम् आत्मानं मे दर्शय ।

==पदार्थः==
:प्रभो = ईश्वर !
:तत् = तत् रूपम्
:द्रष्टुम् = अवलोकितुम्
:मया शक्यम् इति = मया शक्यम् इति
:यदि मन्यसे = चिन्तयसि चेत्
:ततः = तर्हि
:योगेश्वर = योगेश्वर !
:अव्ययम् = अनश्वरम्
:आत्मानम् =	स्वम्
:मे दर्शय = मां प्रदर्शय ।

==तात्पर्यम्==
श्रीकृष्ण ! तत् रूपं मया अवलोकितुं शक्यम् इति यदि चिन्तयसि तर्हि त्वं तत् अनश्वरं रूपं मां दर्शय । 
		
==सम्बद्धसम्पर्कतन्तुः==
*[http://sa.wikisource.org/wiki/भगवद्गीता भगवद्गीता] (मूलश्लोकाः)
*[[भगवद्गीता]]

{{Interwiki conflict}}

[[वर्गः:अनपेक्षितानि-भगवद्गीता]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]

[[es:Bhagavad-gītā]]
[[tr:Bhagavadgita]]