Revision 366506 of "११.३ एवमेतद्यथात्थ…." on sawiki{{Orphan|date=जनुवरि २०१४}}
[[File:Bhagvad Gita.jpg|thumb|right|300px|गीतोपदेशः]]
:'''एवमेतद्यथात्थ त्वमात्मानं परमेश्वर ।'''
:'''द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ॥ ३ ॥'''
==पदच्छेदः==
एवम् एतत् यथा आत्थ त्वम् आत्मानं परमेश्वर द्रष्टुम् इच्छामि ते रूपम् ऐश्वरं पुरुषोत्तम ॥ ३ ॥
==अन्वयः==
परमेश्वर ! पुरुषोत्तम ! आत्मानं त्वं यथा आत्थ एवम् एतत् ते ऐश्वरं रूपं द्रष्टुम् इच्छामि ।
==पदार्थः==
:परमेश्वर = महेश्वर !
:पुरुषोत्तम = पुरुषश्रे !
:आत्मानम् = स्वम्
:त्वं यथा आत्थ = त्वं येन प्रकारेण ब्रवीषि
:एवम् एतत् = इत्थमेव तत्
:ते ऐश्वरम् = तव ज्ञानैश्वर्यादियुक्तम्
:रूपम् = आकारम्
:द्रष्टुम् = अवलोकयितुम्
:इच्छामि = अभिलषामि ।
==तात्पर्यम्==
श्रीकृष्ण ! पुरुषोत्तम ! आत्मानं भवान् येन प्रकारेण वदति तादृशमेव तव ऐश्वर्ययुक्तम् स्वरूपं द्रष्टुम् अभिलषामि ।
==सम्बद्धसम्पर्कतन्तुः==
*[http://sa.wikisource.org/wiki/भगवद्गीता भगवद्गीता] (मूलश्लोकाः)
*[[भगवद्गीता]]
{{Interwiki conflict}}
[[वर्गः:अनपेक्षितानि-भगवद्गीता]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[es:Bhagavad-gītā]]
[[tr:Bhagavadgita]]
[[वर्गः:सारमञ्जूषा योजनीया]]All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sa.wikipedia.org/w/index.php?oldid=366506.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|