Difference between revisions 119000 and 119001 on sawikisource

[[वर्गः:शिक्षा]]
।। श्रीः।।


    :ः  अथ पाणिनीयशिक्षा  :ः

अथ शिक्षां प्रवक्ष्यामि पाणिनीयं मतं यथा।
शास्त्रानुपूर्वं तद्विद्याद् यथोक्तं लोकवेदयोः   ।।1।।
(contracted; show full)येन धौता गिरः पुंसां विमलैः शब्दवारिभिः।
तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः।।58।।
अज्ञानान्धस्य लोकस्य ज्ञानाञ्जनशलाकया।
चक्षुरुन्मीलितं येन तस्मै पाणिनये नमः।।59।।
त्रिनयनमभिमुखनिःसृतामिमां य इह पठेत्प्रयतश्च सदा द्विजः।
स भवति धनधान्यपशुपुत्रकीर्तिमानतुलं च सुखं समश्नुते दिवीति दिवीति।।60।।11।।
अथ शिक्षामात्मोदात्तश्च हकारं स्वराणां यथा गीत्यचोस्पृष्टोदात्तं चाषस्तु शंकर एकादश।

                     ।। इति पाणिनीयशिक्षा समाप्ता  ।।