Difference between revisions 119006 and 119007 on sawikisource[[वर्गः:शिक्षा]] ।। श्रीः।। :ः '''अथ पाणिनीयशिक्षा''' :ः <big>'''अथ शिक्षां''' प्रवक्ष्यामि पाणिनीयं मतं यथा।</big> <big>शास्त्रानुपूर्वं तद्विद्याद् यथोक्तं लोकवेदयोः ।।1।।</big> <big>प्रसिद्धमपि शब्दार्थमविज्ञातमबुद्धिभिः।</big> <big>पुनर्व्यक्तीकरिष्यामि वाच उच्चारणे विधिम् ।।2।।</big> <big>त्रिषष्टिश्चतुःषष्टिर्वा वर्णाः शम्भुमते मताः।</big> <big>प्राकृते संस्कृते चापि स्वयं प्रोक्ताः स्वयंभुवा।।3।।</big> <big>स्वरा विंशतिरेकश्च स्पर्शानां पञ्चविंशतिः।</big> <big>यादयश्च स्मृता ह्यष्टौ चत्वारश्च यमाः स्मृताः।।4।।</big> <big>अनुस्वारो विसर्गश्च क पौ चापि पराश्रितौ ।</big> <big>दुःस्पृष्टश्चेति विज्ञेयो ऋकारः प्लुत एव च ।।5। ।।1।।</big> <big>'''आत्मा''' बुद्ध्या समेत्यार्थान्मनो युङ्क्ते विवक्षया।</big> <big>मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ।।6।।</big> <big>मारुतस्तूरसि चरन्मन्द्रं जनयति स्वरम्।</big> <big>प्रातःसवनयोगं तं छन्दो गायत्रमाश्रितम् ।।7।।</big> <big>कण्ठे माध्यन्दिनयुगं मध्यमं त्रैष्टुभानुगम्।</big> <big>तारं तार्तीयसवनं शीर्षण्यं जागतानुगम्।।8।।</big> <big>सोदीर्णो मूर्धन्यभिहतो वक्त्रमापद्य मारुतः।</big> <big>वर्णाञ्जनयते तेषां विभागः पञ्चधा स्मृतः।।9।।</big> <big>स्वरतः कालतः स्थानात्प्रयत्नानुप्रदानतः।</big> <big>इति वर्णविदः प्राहुर्निपुणं तन्निबोधत।।10। ।।2।।</big> <big>'''उदात्तश्चा'''नुदात्तश्च स्वरितश्च स्वरास्त्रयः।</big> <big>ह्रस्वो दीर्घः प्लुत इति कालतो नियमा अचि।।11।।</big> <big>उदात्ते निषादगान्धारावनुदात्त ऋषभधैवतौ।</big> <big>स्वरितप्रभवा ह्येते षड्जमध्यमपञ्चमाः।।12।।</big> <big>अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा।</big> <big>जिह्नवामूलं च दन्ताश्च नासिकोष्ठौ च तालु च।।1 ।3।।</big> <big>ओभावश्च विवृत्तिश्च शषसा रेफ एव च।</big> <big>जिह्नवामूलमुपध्मा च गतिरष्टविधोष्मणः।।14।।</big> <big>यद्योभावप्रसंधानमुकारादिपरं पदम्।</big> <big>स्वरान्तं दताद्दृशं विद्याद्यदन्यह्यक्तमूष्मणः।।15। ।।3।।</big> <big>'''हकारं''' पञ्चमैर्युक्तमन्तःस्थाभिश्च संयुतम्।</big> <big>औरस्यं तं विजानीयात्कण्ठ्यमाहुरसंयुतम्।।16।</big> <big>कण्ठ्यावहाविचुयशास्तालव्या ओष्ठजावुपू।</big> <big>स्युर्मूर्धन्या ऋटुरषा दन्त्या लृतुलसाः स्मृताः।।17।।</big> <big>जिह्नवामूले तु कुः प्रोक्तो दन्त्योष्ठ्यो वः स्मृतो बुधैः।</big> <big>एऐ तु कण्ठ्यतालव्यौ ओऔ कण्ठोष्ठजौ स्मृतौ।।18।।</big> <big>अर्धमात्रा तु कण्ठ्या स्यादेकारैकारयोर्भवेत्।</big> <big>ओकारौकारयोर्मात्रा तयोर्विवृतसंवृतम्।।19।।</big> <big>संवृतं मात्रिकं ज्ञेयं विवृतं तु द्विमात्रिकम्।</big> <big>घोषा वा संवृताः सर्वे अघोषा विवृताः स्मृता।।20।। ।।4।।</big> <big>'''स्वराणा'''मूष्मणां चैव विवृतं करणं स्मृतम्।</big> <big>तेभ्योऽपि विवृतावेङौ ताभ्यामैचौ तथैव च।।21।।</big> <big>अनुस्वारयमानां च नासिका स्थानमुच्यते।</big> <big>अयोगवाहा विज्ञेया आश्रयस्थानभागिनः।।22।।</big> <big>अलाबुवीणानिर्घोषो दन्त्यमूल्यस्वराननु।</big> <big>अनुस्वारस्तु कर्तव्यो नित्यं ह्रोः शषसेषु च।।23।।</big> <big>अनुस्वारे विवृत्यां तु विरामे चाक्षरद्वये।</big> <big>द्विरोष्ठ्यौ तु विगृह्णीयाद्यत्रोकारवकारयोः।।24।।</big> <big>व्याघ्री यथा हरेत्पुत्रान्दंष्ट्राभ्यां न च पीडयेत्।</big> <big>भीता पतनभेदाभ्यां तद्वद्वर्णान्प्रयोजयेत्।।25।। ।।5।।</big> <big>यथा'''यथा''' सौराष्ट्रिका नारी तक्रँ इत्यभिभाषते।⏎ ⏎ </big> <big>एवं रङ्गाः प्रयोक्तव्याः खे अराँ इव खेदया।।26।।⏎ ⏎ </big> <big>रङ्गवर्णं प्रयुञ्जीरन्नो ग्रसेत्पूर्वमक्षरम्।⏎ ⏎ </big> <big>दीर्घस्वरं प्रयुञ्जीयात्पश्चान्नासिक्यमाचरेत्।।27।।⏎ ⏎ </big> <big>हृदये चैकमात्रस्त्वर्धमात्रस्तु मूर्धनि।⏎ ⏎ </big> <big>नासिकायां तथार्धं च रङ्गस्यैवं द्विमात्रता।।28।।⏎ ⏎ </big> <big>हृदयादुत्करे तिष्ठन्कांस्येन समनुस्वरन्।⏎ ⏎ </big> <big>मार्दवं च द्विमात्रं च जघन्वाँ इति निदर्शनम्।।29।।⏎ ⏎ </big> <big>मध्ये तु कम्पयेत्कम्पमुभौ पार्श्वौ समौ भवेत्।⏎ ⏎ </big> <big>सरङ्गं कम्पयेत्कम्पं रथीवेति निदर्शनम्।।30।।⏎ ⏎ </big> <big>एवं वर्णाः प्रयोक्तव्या नाव्यक्ता न च पीडिताः।⏎ ⏎ </big> <big>सम्यग्वर्णप्रयोगेण ब्रह्मलोके महीयते।।31। ।।6।।</big> <big>'''गीती''' शीघ्री शिरःकम्पी तथा लिखितपाठकः।⏎ ⏎ </big> <big>अनर्थज्ञोऽल्पकण्ठश्च षडेते पाठकाधमाः।।32।।⏎ ⏎ </big> <big>माधुर्यमक्षरव्यक्तिः पदच्छेदस्तु सुस्वरः।⏎ ⏎ </big> <big>धैर्यं लयसमर्थं च षडेते पाठका गुणाः।।33।।⏎ ⏎ </big> <big>शङ्कितं भीतमुद्घृष्टमव्यक्तमनुनासिकम्।⏎ ⏎ </big> <big>काकस्वरं शिरसि गतं तथा स्थानविवर्जितम्।।34।।⏎ ⏎ </big> <big>उपांशु दष्टं त्वरितं निरस्तं विलम्बितं गद्गदितं प्रगीतम्।⏎ ⏎ </big> <big>निष्पीडितं ग्रस्तपदाक्षरं च वदेन्न दीनं न तु सानुनास्यम्।।35।।⏎ ⏎ </big> <big>प्रातः पठेन्नित्यमुरःस्थितेन स्वरेण शार्दूलरुतोपमेन।⏎ ⏎ </big> <big>मध्यंदिने कण्ठगतेन चैव चक्राह्वसंकूजितसन्निभेन।।36।।⏎ ⏎ </big> <big>तारं तु विद्यात्सवनं तृतीयं शिरोगतं तच्च सदा प्रयोज्यम्।⏎ ⏎ </big> <big>मयूरहंसान्यमृतस्वराणां तुल्येन नादेन शिरःस्थितेन।।37।। ।।7।।</big> <big>'''अचोऽस्पृष्टा''' यणस्त्वीषन्नेमस्पृष्टाः शलः स्मृताः।⏎ ⏎ </big> <big>शेषाः स्पृष्टा हलः प्रोक्ता निबोधानुप्रदानतः।।38।।⏎ ⏎ </big> <big>ञमोनुनासिका नह्रो नादिनो हझषः स्मृताः।⏎ ⏎ </big> <big>ईषन्नादा यणो जश्च श्वासिनस्तु खफादयः।।39।।⏎ ⏎ </big> <big>ईषच्छ्वासांश्चरो विद्याद्गोर्धामैतत्प्रचक्षते।⏎ ⏎ </big> <big>दाक्षीपृत्रः पाणिनियना येनेदं व्यापितं भुवि।।40।।⏎ ⏎ </big> <big>छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते।⏎ ⏎ </big> <big>ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते।।41।।⏎ ⏎ </big> <big>शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम्।⏎ ⏎ </big> <big>तस्मात्साङ्गमधीत्येैव ब्रह्मलोके महीयते।।42। ।।8।।</big> <big>'''उदात्त'''माख्याति वृषोऽङ्गुलीनां प्रदेशिनीमूलनिविष्टमूर्धा।⏎ ⏎ </big> <big>उपान्तमध्ये स्वरितं धृतं च कनिष्ठिकायामनुदात्तमेव।।43।।⏎ ⏎ </big> <big>उदात्तं प्रदेशिनीं विद्याात्प्रचयं मध्यतोङ्गुलिम्।⏎ ⏎ </big> <big>निहतं तु कनिष्ठिक्यां स्वरितोपकनिष्ठिकाम्।।44।।⏎ ⏎ </big> <big>अन्तोदात्तमाद्युदात्तमुदात्तमनुदात्तं नीचस्वरितम।⏎ ्।</big> <big>मध्योदात्तं स्वरितं ह्युदात्तं त्र्युदात्तमिति नवपदशय्या।।45।।⏎ ⏎ </big> <big>अग्निः सोमः प्रवो वीर्यं हविषां स्वर्बृहस्पतिरिन्द्राबृहस्पती।⏎ ⏎ </big> <big>अग्निरित्यन्तोदात्तं सोम इत्याद्युदात्तं प्रेत्युदात्तं व इत्यनुदात्तं वीर्यं नीचस्वरितम्।।46।।⏎ ⏎ </big> <big>हविषां मध्योदात्तं स्वरिति स्वरितम्।⏎ ⏎ </big> <big>बृहस्पतिरिति ह्युदात्तमिन्द्राबृहस्पती इति त्र्युदात्तम्।।47।।⏎ ⏎ </big> <big>अनुदात्तो हृदि ज्ञेयो मूध्न्र्युदात्त उदाहृतः।⏎ ⏎ </big> <big>स्वरितः कर्णमूलीयः सर्वास्ये प्रचयः स्मृतः।।48।। ।।9।।</big> <big>'''चाषस्तु''' वदते मात्रां द्विमात्रं त्वेव वायसः।⏎ ⏎ </big> <big>शिखी रौति त्रिमात्रं तु नकुलस्त्वर्धमात्रकम्।।49।।⏎ ⏎ </big> <big>कुतीर्थादागतं दग्धमपवर्णं च भक्षितम्।⏎ ⏎ </big> <big>न तस्य पाठे मोक्षोऽस्ति पापाहेरिव किल्बविषात्।।50।।⏎ ⏎ </big> <big>सुतीर्थादागतं व्यक्तं स्वाम्नाय्यं सुव्यवस्थितम्।⏎ ⏎ </big> <big>सुस्वरेण सुवक्त्रेण प्रयुक्तं ब्रह्म राजते।।51।।⏎ ⏎ </big> <big>मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह।⏎ ⏎ </big> <big>स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात्।।52।।⏎ ⏎ </big> <big>अवक्षरं ह्यनायुष्यं विस्वरं व्यधिपीडितम्।⏎ ⏎ </big> <big>अक्षताऽशस्त्ररूपेण वज्रं पतति मस्तके।।53।।⏎ ⏎ </big> <big>हस्तहीनं तु योऽधीते स्वरवर्णविवर्जितम्।⏎ ⏎ </big> <big>ऋग्यजुःसामभिर्दग्धो वियोनिमधिगच्छति।।54।।⏎ ⏎ </big> <big>हस्तेन वेदं योऽधीते स्वरवर्णार्थसंयुतम्।⏎ ⏎ </big> <big>ऋग्यजुःसामभिः पूतो ब्रह्मलोके महीयते।।55।। ।10।।</big> <big>'''शंकरः''' शांकरीं प्रादाद्दाज्ञक्षीपुत्राय धीमते।⏎ ⏎ </big> <big>वाङ्मयेभ्यः समाहृत्य देवीं वाचमिति स्थितिः।।56।।⏎ ⏎ </big> <big>येनाक्षरसमाम्नायमधिगम्य महेश्वरात्।⏎ ⏎ </big> <big>कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः।।57।।⏎ ⏎ </big> <big>येन धौता गिरः पुंसां विमलैः शब्दवारिभिः।⏎ ⏎ </big> <big>तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः।।58।।⏎ ⏎ </big> <big>अज्ञानान्धस्य लोकस्य ज्ञानाञ्जनशलाकया।⏎ ⏎ </big> <big>चक्षुरुन्मीलितं येन तस्मै पाणिनये नमः।।59।।⏎ ⏎ </big> <big>त्रिनयनमभिमुखनिःसृतामिमां य इह पठेत्प्रयतश्च सदा द्विजः।⏎ ⏎ </big> <big>स भवति धनधान्यपशुपुत्रकीर्तिमानतुलं च सुखं समश्नुते दिवीति दिवीति।।60।।11।।⏎ ।।11।।</big> <big>।। अथ शिक्षामात्मोदात्तश्च हकारं स्वराणां यथा गीत्यचोस्पृष्टोदात्तं चाषस्तु शंकर एकादश।।</big> ।। इति पाणिनीयशिक्षा समाप्ता ।। All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sa.wikisource.org/w/index.php?diff=prev&oldid=119007.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|