Difference between revisions 30069 and 30085 on sawikisource

<poem>
।। अथ प्रथमोऽध्यायः ।।
1 . 		 सर्वलोकेश्वरो विष्णुः सृष्ट्याद्यष्टकृदीश्वरः ।
यथा ससर्ज निखिळं तन्मे ब्रूहि जगद्गुरो ।।
'''।। श्रीहंस उवाच ।।'''
2.            नारायणोऽनन्तशक्तिः पूर्णानन्दोऽक्षरः स्वराट् ।
ज्ञनानन्दात्मकानन्ततनुरासीदिति श्रुतिः ।।
3.            तस्य स्वतन्त्रस्य हरेः साकल्येन महात्मनः ।
(contracted; show full)प्रणवोष्टौ व्याहृतयो मात्रृकाद्वादशाक्षरौ ।।
97.           गायत्री ब्रह्मऋषिका पुंसूक्तं वैष्णवं तथा ।
अष्टावेते महामन्त्राः वैदिकास्सर्वसिद्धिदाः ।।
98.           पुंसूक्तात्सर्ववेदानां व्यक्तिरासीदिति श्रुतिः ।
दुर्गयानन्तरूपिण्याऽनन्त वेदोदितो हरिः ।।
99.           तयार्थितोऽखिलाध्यक्षः स्वात्मासृष्टिमचीक्लृपत् ।।
</peom>
।।  इति श्री परतत्तवनिर्णये प्रकाशसंहितायां प्रथमपरिच्छेदे प्रथमोऽध्यायः ।।


[[वर्गः:प्रथमपरिच्छेदः]]