Difference between revisions 30077 and 37403 on sawikisource{{header | title = [[../../]] | author = | translator = | section = तृतीयोध्यायः | previous = | next = | notes = }} <poem> ।। अथ तृतीयोध्यायः ।। ।। श्रीहंस उवाच ।। 1. जालरन्ध्रात् ग्रहाविष्टा सूर्यरश्मिप्रभा भुवि । यदा भवन्ति तस्याः समीपे तिर्गास्थितः ।। 2. केशं यदोद्गमयतो सो मर्त्यानां परमाणुकः । मर्त्योत्तमो भक्तिपाकात् महरादिषु संस्थितः ।। 3. यं कालं सूक्ष्मदृग्वेद स कालः परमाणुकः । तच्छतांशो हि देवानां तच्छतांशोब्जजस्य तु ।। 4. भूमौ स्थितानां मर्त्यानां यः कालः परमाणुकः । तच्छतांशो देवलोके स्थितस्य परमाणुकः ।। 5. तत्कोट्यंशो रमायाश्च तदनन्तांशको हरेः । परमाणुरिति प्रोक्तः तदन्यैर्न्यैव बुध्यते ।। 6. परमाणुद्वयात्मातु कालो द्व्यणुक ईरितः । परमाणुत्रयात्मस्य त्र्यणुकः परिकीर्तितः ।। 7. त्रुटिः त्रिभिश्च त्र्यणुकैः वेधः स्यात्तत्रयेण तु । लवोवेधत्रयात्मास्यात् निमेषस्तु त्रिभिर्लवैः ।। 8. क्षणस्त्रिनमिषः प्रोक्तः काष्ठाख्या क्षणपञ्चकात् । काष्ठाभिः पञ्चदशभिः लघुकालः प्रकीर्तितः ।। 9. लघुभिः पञ्चदशभिः विनाडिका प्रकीर्तिता । विनाडिका षष्ठिभिर्या नाडिकैका भविष्यति ।। 10. ताभ्यां मुहूर्तत्रिंशद्भिः अहोरात्रमितीरितम् । अष्टमांशान्न्यूनसप्तघटिकाभिश्च सप्तभिः ।। 11. सपादसप्तभिर्वापि सार्धसप्तभिरेव वा । यामः कालोष्टभिर्वापि कालभेदेन चोदितः ।। 12. यामैश्चतुर्भिः अहः स्यात् तावद्भिर्यामिनीमता । अहोरात्रत्रिँशता च मासः पक्षद्वयात्मकः ।। 13. ताभ्यां ऋतुस्तत्रयेणैवा अयनं परिकीर्तितम् । कर्कादि कार्मुकान्तेषु यदा चरति भस्करः ।। 14. दक्षिणायनमुद्धिष्टं देवानां रात्रिसंज्ञकम् । यावन्नक्रादिके भानौ मिथुनान्तेषु तिष्ठति ।। 15. उत्तरायणमुद्धिष्टं तावत्कालं विचक्षणैः । अयनाभ्यां वत्सरस्तु द्विषण्मासात्मकः स्मृतः ।। 16. षष्ठ्युत्तरत्रिशतकैः अहोरात्रैश्च वत्सरः । अष्टाविंशत्सहस्रैस्तु लक्षसप्तदशाब्दतः ।। 17. क्लृप्तः कृतयुगस्तस्मात् त्रेतापादोनमुच्यते । सहस्रषण्णवत्येतलक्षद्वादश सम्मितः ।। 18. त्रेतायुगस्ततः पादन्यूनो द्वापर ईरितः । चतुष्षष्ठिसहस्रेत अष्टलक्षमितिस्मृतः ।। 19. द्वापररात्तु कलिस्तस्मादर्धपादमितिस्मृतः । द्विषोडशसहस्रेताच्चतुर्लक्षात्मकः कलिः ।। 20. कृतत्रेताद्वापरश्च कलिश्चेति चतुर्युगाः । चतुर्युगात्मकः कालो महायुग इतीर्यते ।। 21. विंशत्सहस्रेतलक्षत्रिचत्वारिंशदब्दकैः । क्लृप्तः कालः कालदृग्भिः महायुग इतीर्यते ।। 22. षष्ठ्युत्तराब्दत्रिंशताद्देवानामब्द ईरितः । तादृगब्दसहस्राणां चतुष्कोणः कृताह्वयः ।। 23. त्रेता तु त्रिसहस्राब्दा द्विसहस्राब्दसम्मितः । द्वापरस्तु ततो न्यूनसहस्राब्दमितः कलिः ।। 24. कृतस्यादौ कृतान्ते च पृथगब्दश्चतुश्शतम् । सन्धिस्त्रेतायुगाद्यन्ते पृथगब्दशतत्रयम् ।। 25. सन्धिस्तु द्वापराद्यन्ते पृथगब्दशतद्वयम् । शताब्दस्सम्मितः कालः सन्धिराद्यन्तयोः कलेः ।। 26. एवं दैवेन मानेन द्वदशाब्दास्सहस्रतः । क्लृप्तः कालः कालविद्भिः महायुग इतीर्यते ।। 27. सार्धाष्टादशलक्षाब्दे युगानाम् एकसप्तति । मिलितो मनुसन्धातभोगकाल उदीरितः ।। 28. द्विषट्शताब्दसमितो लयः स्वायम्भुवोत्तरः । स्वारोचिषादिकानान्तु षण्णामप्यन्तरे लयः ।। 29. प़ञ्चादशशताब्दात्मा लयः काल उदीरितः । चतुर्दशशताब्दात्मा लयः काल उदाहृतः ।। 30. तदन्य मन्वन्तरेषु नियमात्सर्वदैव तु । चतुर्युगसहस्रन्तु ब्रह्मणो दिन उ(दिवमु)च्यते ।। 31. रीत्रिश्च तावती तस्य अहोरात्रा तु तादृशा । षष्ठ्युत्तरत्रिशतकाद्वत्सरोऽजस्य कीर्तितः ।। 32. एवं विधशताब्दात्मा कालोऽजस्यायुषो मतः । वासुदेवात्सूक्ष्मतनुं स्वशताब्दादिमे क्षणे ।। 33. यः प्राप सशताब्दायुः तद्रूपाणीतराणि तु । मासत्रयाधिकादब्दषट्कात् पूर्वतनादभूत् ।। 34. सृज्यानां सूक्ष्मसांशानां सूक्ष्मसृष्टिश्चतुस्तनोः । सृष्टानां सूक्ष्मतः पूर्वं स्थूलदेहस्ततोऽभवत् ।। 35. नारायणादजाद्रुद्रात् क्रमात् कालानुसारतः । यावतां सूक्ष्मतः सृष्टिः स्थूलसृष्टिस्तु तावता ।। 36. अण्डादूर्ध्वं चावृतयः स्थूलदेहाश्च तन्मयाः । आद्यस्य ब्रह्मणः पूर्वं पञ्चाशद्वत्सरान्ति मे ।। 37. दिने व्यतीते तद्रात्रावण्डसृष्टिरथाभवत् । तदन्तः स्वपतो विष्णोर्जलमध्यगतस्य तु ।। 38. नाभ्युत्थिताल्लोकमयात् प्राकृतात् पद्मकोशतः । पाद्मः ब्रह्मोत्थितस्सार्धं सप्तत्रिंशच्चतन्मये ।। 39. दिनान्तिमे निशायां च नाशोऽण्डस्य जगत्पतेः । व्युत्क्रमात्पूर्वमानेन स्थूलसूक्ष्मस्य नाशनम् ।। 40. एवं शतायुषः पूर्णेद्विपरार्धात्मकायुषी । स्वयं चात्मस्वरूपाणाम् एकीभावं करोत्यजः ।। 41. यावत्कालेनात्मसृष्टिरेकीभावस्तु तावता । एकीभूतेपि रमति तथैकीभूतमायया ।। 42. तावत्कालं ततः पश्चात् सुप्तवत् स्वापयत्यजः । सार्धद्विषड्ब्रह्मवर्षमिति शिष्टे निशान्ति मे ।। 43. भागे पुनः पूर्ववच्च आत्मसृष्ट्यादिमीश्वरः । करोति पुरुषस्तस्य नायुर्मानं विधीयते ।। 44. एवं विधापरिमितानन्तानन्तपरात्मके । काले भाविन्यपि हरिः सृष्ट्यादीशः करिष्यति ।। 45. स्वन्तन्त्रस्यास्य मर्यादा अस्वतन्त्रैर्न शक्यते । लङ्घितुं पूर्णशक्तेर्हि वशे सर्वं चराचरम् ।। 46. येऽनन्तकालतस्तस्य मृतिजन्मजरादयः । आयासदुःखदौर्भाग्यचिन्तासन्तापपूर्वकाः ।। 47. अज्ञानेर्ष्यासूयपीडा कामक्रोधभयादयः । कृशतारोगदुरितपुण्यलेपादयस्तथा ।। 48. आशाहानिश्च वृद्धिश्च क्षुत्तृट्कम्पादयस्तथा । नासन् दोषाः नोत्तरत्र भविष्यन्त्यखिलेश्वरे ।। 49. तत्तद्दुर्जनसङ्घैश्च ये कल्प्याः दोषसञ्चयाः । तत्तद्विरोधि सुगुणानन्त्यपूर्णस्य मीळुषः ।। 50. तद्दोषलेशगन्धोपि न विष्णोरिति निश्चयः । यः कालः परमाण्वादि द्विपरार्धावसानकः ।। 51. तेषु सर्वेषु कालेषु तत्तन्नाम्ना रमापतिः । तत्सामर्थ्यव्यञ्जकश्च स्थित्वा रक्षत्यजः प्रभुः ।। 52. नित्यः कालप्रवाहोयमनित्यास्तु क्षणादयः । नष्टेषु सत्सुकालेषु वर्तमानेषु वै क्रमात् ।। 53. अविनाश्य स्वरूपोसौ तत्प्रवाहस्य रक्षकः । शताब्दस्सम्मितः कालो ब्रह्मणः परसंज्ञकः ।। 54. सकालस्तु निमेषाख्यः अहश्च परमेशितुः । इत्यज्ञजनबुद्धीनां शुद्ध्यर्थमुपचर्यते ।। 55. अत आहुर्महाप्राज्ञाः कालतोनन्तमीश्वरम् । अथापि परकालान्तं ब्रह्माणं जनयन्विभुः ।। 56. अङ्गीकरोति तं कालमहोयदखिलेश्वरः । रात्रिमानादि शून्योपि तावन्तं कालमीश्वरः ।। 57. रात्रित्वेन चरत्येवं ब्रह्मादीन्स्वापयत्यजः । निशायाश्चरमे भागे आत्मसृष्ट्यादिमीश्वरः ।। 58. करोति पुरुषस्तस्य आयुर्मानं विधीयते । एवं विधापरिमितानन्तानन्तपरात्मकः ।। 59. कालाव्यतीता सृष्ट्यादि कर्तुर्विष्णोः परात्मनः । स्वरूपेन्द्रियवद्योसौ कालोरूपादिवर्जितः ।। 60. पूर्वपूर्वसु कालेषु नष्टेष्वन्ये भवन्ति हि । उत्तरत्रायास्यमानपरमाणुप्रवाहतः ।। 61. संयोज्यघटिकाद्यास्तु कालोज्ञेयः समानतः । घटिकायाममासाद्या नैकदा सम्भवन्ति हि ।। 62. आयुर्मानविहीनस्यानन्तानन्तपरात्मकैः । विष्णोः कालानन्त्यमितौ कालज्ञान(नं)प्रयोजकम्।। 63. वेदानामक्षराणाञ्च देशन्याव्याकृतस्य च । रमायाः सर्वजीवानां मुक्तानां लिङ्गसंयुजाम् ।। 64. समस्तलिङ्गदेहानां जडायाः प्रकृतेस्तथा । एतेषामस्वतन्त्राणां स्वतन्त्रवशवर्तिनाम् ।। 65. कालानन्त्यमितौ नित्यं कालज्ञान(नं)प्रयोजकम् । अनित्या(अनन्ता)नां जडानां च सूक्ष्मस्थूलशरीरिणाम् ।। 66. आयुर्माने शरीराणां कालज्ञनं प्रयोजकम् । एवं कालगतिं जानन् कालभीतिं तरिष्यति ।। 67. एकस्मिन्परकालेतु एकमण्डं जगद्गुरुः । दशावरणसंयुक्तं सृजत्यवति हन्त्यजः ।। 68. नैकदाजाण्डबहुळं स्रष्टुमिच्छति केशवः । ब्रह्माणं गरुडं शेषम् इद्रं प्राणं रविं सुरान् ।। 69. एकमेकं हरिर्मुक्तं(क्त)परकाले करोत्यजः । तथाप्यजाण्डानन्तानां नियन्ताऽजाण्डरूपवान् ।। 70. हरिः तादृङ्महारूपानन्तानन्तानि वै हरेः । रोमाङ्कुरेष्वनन्तेषु संवसन्तीति हि श्रुतिः ।। 71. तादृशानन्तरूपाणाम् अनन्त्यानन्त्ययोगतः । अधश्चोर्ध्वं चाष्टदिक्षु संयुक्तानामनन्तशः ।। 72. रूपानन्त्यैरपूर्णोरु देशे पूर्णतनुर्हरिः । अत्यभिन्नोरुचित्सौख्यबलादि गुणविग्रहः ।। 73. निर्विशेषः सर्वगतः सूक्ष्मस्थूलादिरूपकः । समशक्तिः समज्ञानबलादिशुभसद्गुणः ।। 74. समाधिकविहीनश्च रमयानन्तरुपया । सहस्वाधीनया सत्याऽशेषचिज्जडभृद्धरिः ।। 75. स्वभिन्नायाः श्रियाः भिन्नाः मुक्तामक्तासुचिद्गुणैः । भिन्नैर्नित्यजडैस्सत्यैः भिन्नैः जीवेश्वरैः सदा ।। 76. विभिन्नो विश्वतो विष्णुः देशतो गुणतो विभुः । अनन्तानन्तरूपेण अभिन्नोभिन्नवद्धरिः ।। 77. पूर्णोपि जडचिद्रूपं सृजत्यवति हन्त्यजः ।। </poem> ।। इति श्री परतत्तवनर्णये प्रकाशसंहितायां प्रथमपरिच्छेदे तृतीयोऽध्यायः ।।⏎ ⏎ [[वर्गः:प्रथमपरिच्छेदः]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sa.wikisource.org/w/index.php?diff=prev&oldid=37403.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|