Difference between revisions 41187 and 41724 on sawikisource{{header | title = [[../../]] | author = | translator = | section = तृतीयोऽध्यायः | previous = [[पाञ्चरात्रागमः/प्रथमपरिच्छेदः/द्वितीयोध्यायः|द्वितीयोध्यायः]] | next = [[पाञ्चरात्रागमः/प्रथमपरिच्छेदः/चतुर्थोध्यायः|चतुर्थोऽध्यायः]] | notes = }}⏎ <poem> ।। अथ तृतीयोध्यायः ।। ।। श्रीहंस उवाच ।। 1. जालरन्ध्रात् ग्रहाविष्टा सूर्यरश्मिप्रभा भुवि । यदा भवन्ति तस्याः समीपे तिर्गास्थितः ।। 2. केशं यदोद्गमयतो सो मर्त्यानां परमाणुकः । मर्त्योत्तमो भक्तिपाकात् महरादिषु संस्थितः ।। 3. यं कालं सूक्ष्मदृग्वेद स कालः परमाणुकः । (contracted; show full)भिन्नैर्नित्यजडैस्सत्यैः भिन्नैः जीवेश्वरैः सदा ।। 76. विभिन्नो विश्वतो विष्णुः देशतो गुणतो विभुः । अनन्तानन्तरूपेण अभिन्नोभिन्नवद्धरिः ।। 77. पूर्णोपि जडचिद्रूपं सृजत्यवति हन्त्यजः ।। </poem> ।। इति श्री परतत्तवनर्णये प्रकाशसंहितायां प्रथमपरिच्छेदे तृतीयोऽध्यायः ।। [[वर्गः:पाञ्चरात्रागमः प्रथमपरिच्छेदः]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sa.wikisource.org/w/index.php?diff=prev&oldid=41724.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|