Difference between revisions 41189 and 41733 on sawikisource

{{header
 | title      = [[../../]]
 | author     = 
 | translator = 
 | section    = पञ्चमोध्यायः
 | previous   = 
 | next       = [[पाञ्चरात्रागमः/प्रथमपरिच्छेदः/चतुर्थोध्यायः|चतुर्थोऽध्यायः]]
 | next       = [[पाञ्चरात्रागमः/प्रथमपरिच्छेदः/षष्ठोध्यायः|षष्ठोध्यायः]]
 | notes      = 
}}
<poem>
।। अथ पञ्चमोऽध्यायः ।।

।। श्रीहंस उवाच ।।
1.            ज्ञानेन्द्रियाणि पञ्चानि पञ्चकर्मेन्द्रियाणि च ।
रजोभागगतान्येषु श्रोत्रमा(त्रं)द्यं विशिष्यते ।।
2.            श्रावणास्याद्यभक्तेस्तु साधकत्वाद्गुणाधिकम् ।
त्वक्चर्मगोळके सर्वदेहगे समु(पाश्रिता)पस्थिता ।।
3.            कुष्ठभङुरपामाद्याः त्वक्दोषाः परिकीर्तिताः ।
अव्यक्तादि स्पर्शदोषशून्याः शीतोष्णपूर्वकाः ।।
4.            स्पर्शास्तद्विषयाः प्रोक्ताः वायुतेजोम्बुभूमयः ।
पदार्थाः केचनगुणाः सत्वगिन्द्रियगोचराः ।।
5.            त्वक्स्पर्शौ प्रकृतिस्थौ द्वौ नित्यौ स्थूलावनित्यकौ ।
तज्जन्यौ प्राकृतौ वायुसंश्रयौ नश्वरौ मतौ ।।
6.            इन्द्रियाणान्तु विषयाः गुणामात्राः प्रकीर्तिताः ।
ज्ञानात्मकानां ते सर्वे द्विविधाः परिकीर्तिताः ।।
7.            विष्णुवैष्णवसेवायै अनुकूलाश्शुभा मताः ।
अशुभाः प्रतिकूलाश्च पुनस्ते त्रिविधा मताः ।।
8.            मुक्तियोग्याश्रिता नित्याः नित्यसृतिषु मध्यमाः ।
तमोयोग्याश्रिता नीचास्तत्तद्योग्यसुसाधनैः ।।
9.            नीचमध्योत्तमस्थानप्रापकाः क्रमयोगतः ।
जीवस्वरूपभूतानि मनोमात्रेन्द्रियाणि च ।।
10.           तत्स्वरूपाणि नित्यानि उत्तमेषु शुभान्यपि ।
उत्तमा मुक्तियोग्यास्तु नित्यबद्धास्तु मध्यमाः ।।
11.           अधमास्तु तमोयोग्याः मनोमात्रादयस्तथा ।
स्वारूपिकाश्चलिङ्गस्थाः अनित्याः स्थूलदेहगाः ।।
12.           विष्णोरमायाब्रह्मादि मुक्तानां क्रमयोगतः ।
मनोमात्रेन्द्रियज्ञानसुखधैर्यबलादयः ।।
13.           स्वरूपाण्येवविष्णोस्तु नित्यव्याप्तानि कृत्स्नशः ।
स्वतन्त्राणि स्वतन्त्रस्य (कर्माणि तु)पुरुषस्य महात्मनः ।।
14.           स्वस्वरूपस्थितौ यस्य ज्ञानेकर्मण्यपि स्फुटम् ।
सर्वस्वरूपचेष्टासु परापेक्षा न यस्य हि ।।
15.           स स्वन्तन्त्र इति प्रोक्तः स विष्णुर्नेतरः क्वचित् ।
अव्यक्ततत्कार्यमय देहशून्यारमापि हि ।।
16.           तच्चित्तेन्द्रियमात्रास्तु नित्या व्याप्ता स्वरूपका(काः) ।
विष्ण्वैकवशगास्तस्याः हर्यपेक्षासदस्ति हि ।।
17.           परापेक्षयुतत्वात्सा अस्वतन्त्रा प्रकीर्तिता ।
ब्रह्मादिमुक्तामुक्तानाम् अस्वतन्त्र्यमनादितः ।।
18.           सिद्धमेव स्वरूपे च ज्ञाने कर्मण्यपि स्फुटम् ।
नीचानीचस्वरूपाणाम् उत्तमोत्तमचेतसाम् ।।
19.           प्रसादतः प्रवृत्तिर्हि ज्ञानभक्त्यादि चाखिलम् ।
ज्ञानाज्ञानतमोमोक्षाः नित्यानित्यजडस्य च ।।
20.           नोत्पत्तिनाशौ जीवानां त्रिविधानां समस्तशः ।
स्वरूपदुःखद्वेषेर्ष्या चिन्तासन्तापपूर्वकाः ।।
21.           न मुक्तानां देहयोगो यावत्तेषां भयादिकम् ।
भयादीनि च योग्येभ्यः उत्तमेष्वल्पमेव च ।।
22.           ज्ञानं मुक्तिरयोग्यस्य न च स्वप्नेपि दृश्यते ।
स्वरूपाज्ञानतमसी योग्यानां न कदाचन ।।
23.           सृष्टिं स्थितिं संहृतिं च नियतिं जगतोस्य तु ।
ज्ञानाज्ञाने तमोमोक्षौ विष्णुनैव विदो विदुः ।।
24.           ब्रह्मादीनां स्वरूपन्तु अत्यन्ताणुतमं मतम् ।
तदिन्द्रियाणि सूक्ष्माणि सूक्ष्माण्येव स्थिराणि तु ।।
25.           चक्षुर्गोलकगं नेत्रं रूपग्राह्यमतीन्द्रियम् ।
नित्यमव्यक्तगं स्थूलमनित्यं जन्यमक्षि च ।।
26.           स्वरूपनेत्रकलितं नित्यानित्ये अक्षिणी उभे ।
ज्ञानप्रदे साक्षिसंज्ञे सर्वस्वारूपकेन्द्रियम् ।।
27.           उक्तानां वक्ष्यमाणानाम् इन्द्रियाणां समग्रशः ।
स्वारूपेन्द्रियसाहाय्यं विना शक्तिर्नविद्यते ।।
28.           वृद्धिं हानिं च लभते गुणैर्दोषैः स्वरूपतः ।
साक्षीन्द्रियन्तु योग्यानां स्वोत्तमद्रोहतां विना ।।
29.           तत्रापीषत्कुतश्चित्तु तत्सर्वं कुण्ठितं भवेत् ।
पटलं कामिला काचः प्रतिदीधिति सङ्गतिः ।।
30.           नेत्ररोगं व्रणाद्याश्च पैत्यप्रतिहतास्तथा ।
अक्षिभ्रमणशैत्याद्याः नेत्रदोषाः प्रकीर्तिताः ।।
31.           आरस्थत्वं दूरगत्वं सौक्ष्मं च व्यवधानतः ।
स्थितिः समानाभिघातः अर्थदोषाः प्रकीर्तिताः ।।
32.           निर्दोषविषया ये च निर्दोषेक्षणगोचराः ।
शुक्लं रक्तं श्वेतपीतहरितादीनि कृत्स्नशः ।।
33.           चित्रादीनि स्वरूपाणि चक्षुषो विषयाणि च ।
उद्भूतरूपसंयुक्ताः तेजोवार्भूमयात्मका ।।
34.           चक्षुषो विषयाः प्रोक्ताः केचित्सूर्योदयोऽमराः ।
जिह्वा गोळकगं प्राहुः रसनेन्द्रियमुत्तमम् ।।
35.           अतीन्द्रियमरुच्याद्यास्तद्धोषास्फोटकादयः ।
कषायश्च कटुस्तिक्तः लवणो मधुराम्लकौ ।।
36.           तथा चित्ररसश्चेति रसनेन्द्रियगोचराः ।
दोषहीनस्य च रसज्ञानं जनयति स्फुटम् ।।
37.           ज्ञानं जनयति क्षिप्रं प्राकृतंप्रकृतिस्थितम् ।
दुष्टा पर्युषिता यामहीना पूतियुता रसाः ।।
38.           सदोषा रससम्बन्धे रसना ज्ञानदा न हि ।
भूमयाम्मया अर्थाः रसनेन्द्रियगोचराः ।।
39.           घ्राणगोळकगं प्रोक्तं नासिकेन्द्रियमूर्जितम् ।
पीनसाद्याः घ्राणदोषाः गन्धग्राहेन्द्रियं मतम् ।।
40.           व्यामिश्राद्याः दोषभागाः गन्धदोषाः प्रकीर्तिताः ।
वक्त्रगोळकगं प्रोक्तं वागिन्द्रियमतीन्द्रियम् ।।
41.           नित्यानित्यवचांस्तस्य सत्यासत्यवचांसि च ।
वचांसि युक्तायुक्तानि गीर्वाणप्राकृतानि च ।।
42.           मूकत्वादि महादोषहीनवाग्गोचराणि च ।
गद्गदत्वाऽस्पष्टताद्याः वाग्दोषाः परिकीर्तिताः ।।
43.           हस्तगोळकगं प्राहुः पाणीन्द्रियमतीन्द्रियम् ।
व्यङ्गुलत्वादयस्तस्य दोषाः निर्दोषामिन्द्रियम् ।।
44.           गृह्णाती(व)ह परत्रापि यद्धितः स्वात्मनः सदा ।
भूमयारत्नहेमाद्या बह्वर्था विषयामताः ।।
45.           अश्मयाश्च तथाभावाः हस्तयोर्विषयामताः ।
कण्टकोच्छिष्टपाषाणवृश्चिकाद्या अनिष्टदाः ।।
46.           हेया अर्थाश्च हस्ताभ्यां परित्याज्याः सदा मताः ।
सानिष्टदं हितकरं हस्तयोर्हितदं मतम् ।।
47.           अङ्घ्रिगोळकगं प्राहुः पादेन्द्रियमलं बुधाः ।
पङ्गुत्वाद्याः अङ्घ्रिदोषाः निर्दोषगतिसाधनम् ।।
48.           स्वारूपिगं प्रकृतिगं प्राकृतं त्रिविधं मतम् ।

येनेन्द्रियेण यत्कर्मक्रियते साधुभिस्सदा ।।
49.           तत्तस्य विषयः प्रोक्तः तन्नामेन्द्रिय गोचरम् ।
पक्वापक्वं च भुक्तं च वातं जीर्णं च कुक्षिगम् ।।
50.           कालेन विपरीतन्तु शकृदित्युच्यते बुधैः ।
तादृगर्थोत्सर्गसंज्ञो पायोर्विषयमीरितम् ।।
51.           भगन्धरादयो मूलव्रणाद्याः पायुसंस्थिताः ।
दोषाः निरोधातिसाराः पायोर्न यदि कार्यकृत् ।।
52.           स्त्रीपुंसोर्भगमेढ्रादि गोळकस्थं ह्यतीन्द्रियम् ।
उपस्थशिश्नसंज्ञे द्वे इन्द्रिये दोषवर्जिते ।।
53.           रत्युत्सृतौ प्रभवतः असृक्शुक्लाश्रयौ मतौ ।
मेहव्रणाद्याः तद्धोषाः निर्दोषं स्वार्थसाधकम् ।।
54.           प्रकृतं प्राकृतं चैव स्वरूपेन्द्रिय संयुतम् ।
अर्थक्रियाकारि तद्धि नान्यथा भवति ध्रुवम् ।।
55.		 ज्ञानेन्द्रियाणि पञ्चापि पञ्चकर्मेन्द्रियाणि च ।
रजः परिच्छेदगानि भिन्नशक्तियुतानि च ।।
56. 	         ज्ञानेन्द्रियाणां विषयाः क्रमाच्छब्दादयोमताः ।
शब्दस्पर्शारूपरसगन्धास्ते च गुणामताः ।।
57.		 मात्रातमः परिच्छेद पञ्चभूतान्तरामताः ।
भूतानि मात्रा गर्भेषु लीनाहुर्मनीषिणः ।।
58.		 भावरूपाज्ञानगतं पञ्चकं गुणगर्भकम् ।
मात्रासु लीनभूतेषु संस्थितं भावपञ्चकम् ।।
59.		 तमोमोहमहामोहतामिश्रान्धतामिस्रकाः ।
तमः शब्दगतं प्राहुः मोहः स्पर्शगतो मतः ।।
60.		 महामोहो रूपगतः तामिश्रो रसगोमतः ।
गन्धे अन्धतामिस्राख्यस्त एते भावरूपकाः ।।
61.		 एतानि प्रकृतिस्थानि नित्याण्यणुतराणि च ।
स्थूलानि भूतव्यक्तानि अनित्यान्यामनन्ति हि ।।
62.		 जीवस्वरूपं नैवते तद्विभिन्नं लिङ्गदेहगम् ।
जीवस्वरूपविज्ञानाच्छादकं परिकीर्तितम् ।।
63.		 तत्साधनाद्व्यञ्जमानस्वरूपज्ञानबाधकम् ।
तमः स्वरूपज्ञानस्य विपरीतप्रवर्तकम् ।।
64.		 यो मोहः स उपदेशेपि महामोहोऽनिवर्तयेत् ।
विद्वेषकारणं प्राहुः तामिश्रमुपदेष्टृषु ।।
65.		 कुयुक्तिभिः क्वागम्यैश्च गाढाज्ञानैकसाधनम् ।
अन्धतामिश्रसंज्ञाख्यम् अनाद्यज्ञानमीरितम् ।।
66.		 अनादिकालमारभ्यानन्तानन्ताणुमात्रकाः ।
केशाद्यायुततुल्याल्पस्वरूपाह्यात्मगोचराः ।।
67.		 तत्तत्स्वरूपकाकार हरिणाबिम्बरूपिणा ।
रक्षिताः प्रलये सृष्टा नित्यं तदनपायिना ।।
68.		 एतत्कल्पादिभावीनां तत्तकल्पेषु वै क्रमात् ।
सृज्याः विलक्षणास्तुल्याः अतुल्यास्त्रिविधात्मकाः ।।
69.		 जीवाः अनादितः सर्वेप्यस्वतन्त्रा रमावशाः ।
प्रकृत्यात्मकलिङ्गेन बद्धाः श्रीहरिकुक्षिगाः ।।
70.		 लये सृष्टौ हरिस्सृष्टाः अण्डाद्बहिरथान्तरे ।
सात्विकानीचमध्याश्च अन्तः सृज्या अतात्विकाः ।।
71.		 निरंशामर्त्यगन्धर्वपूर्वाः सर्वे तृणान्तिकाः ।
योग्या नित्यसृतिस्थाश्च तमो योग्याश्च कृत्स्नशः ।।   *
72.		 सर्वेपि लिङ्गसम्बद्धा ये ते जीवा न चान्यथा ।
तेपि पूर्वानन्तकाल्पेष्वेवं स्वोचित साधनैः ।।
73.		 मुक्ताः मध्यास्तमः‡ प्राप्ताः सन्ति श्रीहरिगर्भगाः ।
नैषां क्वापि क्वचित्पूर्तिर्भविता नियमाद्धरेः ।।

।। इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे पञ्चमोऽध्यायः ।।

</poem>

[[वर्गः:पाञ्चरात्रागमः प्रथमपरिच्छेदः]]