Difference between revisions 41720 and 41723 on sawikisource{{header | title = [[../../]] | author = | translator = | section = द्वितीयोऽध्यायः | previous = [[पाञ्चरात्रागमः/प्रथमपरिच्छेदः/प्रथमोध्यायः|प्रथमोध्यायः]] | next = [[पाञ्चरात्रागमः/प्रथमपरिच्छेदः/तृतीयोध्यायः|तृतीयोध्यायः]] | notes = }}⏎ ।। अथ द्वितीयोऽध्यायः ।। <poem> ।। श्रीहंस उवाच ।। 1. संस्तुतो भगवानेवं तदैवोत्थाय केशवः । शून्यनामाथ जगृहे परुषाख्यां तनुं हरिः ।। 2. पुरुषः सर्वरूपाणां व्यक्ताबीज इवस्थितः । सोनन्तात्मा व्याप्ततनुः विश्वकुक्षिरितीरितः ।। 3. पुरुषाद्वासुदेवाद्याश्चत्वारो ह्यभवंस्ततः । वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः ।। 4. श्वेतरक्तपीतनीलाः वासुदेवादयः क्रमात् । मुक्त्यैहृत्यै तथा गुप्तै सृष्ट्यै स्वेच्छातनुर्हरिः ।। 5. शून्यनाम्नी रमादेवी श्रीर्भूत्वा पुरुषंश्रिता । सैवमायाजयाभूत्वा कृतिश्शान्तिरितीरिता ।। 6. वासुदेवादि भार्यासीत् सर्वदा सानपायिनी । चतुर्मुखो वासुदेवः ब्रह्मणो बिम्बरूपकः ।। 7. सङ्कर्षणः सहस्रास्यः फणिराड्बिम्बरूपकः । प्रद्युम्नो मारबिम्बात्मा ह्यतिसुन्दरविग्रहः ।। 8. बिम्बात्मा कामपुत्रस्यानिरुद्धास्यानिरुद्धकः । सकृद्धोल्कादि पञ्चात्मा विश्वाद्यष्टतनुर्हरिः ।। 9. विमलादिनवात्माभूत् समत्स्यादि दशाकृतिः । शक्त्यादि द्वादशात्माभूद्वारकादि षोडशरूपवान् ।। 10. आनन्दादि त्रयोविंशद्रूप आसीत्परात्परः । केशवादि चतुर्विंशद्रूपवानभवद्धरिः ।। 11. अजादि पञ्चाशद्रूपः ततोभूत् पुरुषोत्तमः । कालाख्यषष्ठिरूपोभूत् संवत्सरनियामकः ।। 12. नारायणादि शतकः स विश्वादि सहस्रकः । पराद्यनन्तरूपोभूदात्मभेद विवर्जितः ।। 13. तदाज्ञयैव देवी सा रमापि बहुरूपिणी । स तयानन्तरूपिण्या अनन्तरूपो रमापतिः ।। 14. स्वरतोऽपि तया देव्या तत्प्रीत्यर्थं दयानिधिः । लयकालाष्टमांशन्तु नीत्वा पुरुषपुङ्गवः ।। 15. प्रारम्भे सृष्टिकालस्य अजादीन्स्रष्टुमारभत् ।। </poem> ।। इति श्री परतत्वनिर्णये प्रकाशसंहितायां प्रथमपरिच्छेदे द्वितीयोध्यायः ।। [[वर्गः:पाञ्चरात्रागमः प्रथमपरिच्छेदः]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sa.wikisource.org/w/index.php?diff=prev&oldid=41723.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|