Revision 30086 of "पाञ्चरात्रागमः/प्रथमपरिच्छेदः/द्वितियोध्यायः" on sawikisource{{header
| title = [[../../]]
| author =
| translator =
| section = द्वितियोध्यायः
| previous =
| next =
| notes =
}}
।। अथ द्वितीयोऽध्यायः ।।
<poem>
।। श्रीहंस उवाच ।।
1. संस्तुतो भगवानेवं तदैवोत्थाय केशवः ।
शून्यनामाथ जगृहे परुषाख्यां तनुं हरिः ।।
2. पुरुषः सर्वरूपाणां व्यक्ताबीज इवस्थितः ।
सोनन्तात्मा व्याप्ततनुः विश्वकुक्षिरितीरितः ।।
3. पुरुषाद्वासुदेवाद्याश्चत्वारो ह्यभवंस्ततः ।
वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः ।।
4. श्वेतरक्तपीतनीलाः वासुदेवादयः क्रमात् ।
मुक्त्यैहृत्यै तथा गुप्तै सृष्ट्यै स्वेच्छातनुर्हरिः ।।
5. शून्यनाम्नी रमादेवी श्रीर्भूत्वा पुरुषंश्रिता ।
सैवमायाजयाभूत्वा कृतिश्शान्तिरितीरिता ।।
6. वासुदेवादि भार्यासीत् सर्वदा सानपायिनी ।
चतुर्मुखो वासुदेवः ब्रह्मणो बिम्बरूपकः ।।
7. सङ्कर्षणः सहस्रास्यः फणिराड्बिम्बरूपकः ।
प्रद्युम्नो मारबिम्बात्मा ह्यतिसुन्दरविग्रहः ।।
8. बिम्बात्मा कामपुत्रस्यानिरुद्धास्यानिरुद्धकः ।
सकृद्धोल्कादि पञ्चात्मा विश्वाद्यष्टतनुर्हरिः ।।
9. विमलादिनवात्माभूत् समत्स्यादि दशाकृतिः ।
शक्त्यादि द्वादशात्माभूद्वारकादि षोडशरूपवान् ।।
10. आनन्दादि त्रयोविंशद्रूप आसीत्परात्परः ।
केशवादि चतुर्विंशद्रूपवानभवद्धरिः ।।
11. अजादि पञ्चाशद्रूपः ततोभूत् पुरुषोत्तमः ।
कालाख्यषष्ठिरूपोभूत् संवत्सरनियामकः ।।
12. नारायणादि शतकः स विश्वादि सहस्रकः ।
पराद्यनन्तरूपोभूदात्मभेद विवर्जितः ।।
13. तदाज्ञयैव देवी सा रमापि बहुरूपिणी ।
स तयानन्तरूपिण्या अनन्तरूपो रमापतिः ।।
14. स्वरतोऽपि तया देव्या तत्प्रीत्यर्थं दयानिधिः ।
लयकालाष्टमांशन्तु नीत्वा पुरुषपुङ्गवः ।।
15. प्रारम्भे सृष्टिकालस्य अजादीन्स्रष्टुमारभत् ।।
</poem>
।। इति श्री परतत्वनिर्णये प्रकाशसंहितायां प्रथमपरिच्छेदे द्वितीयोध्यायः ।।
[[वर्गः:प्रथमपरिच्छेदः]]All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sa.wikisource.org/w/index.php?oldid=30086.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|