Revision 41187 of "पाञ्चरात्रागमः/प्रथमपरिच्छेदः/तृतीयोध्यायः" on sawikisource

<poem>
।। अथ तृतीयोध्यायः ।।
।। श्रीहंस उवाच ।।
1.            जालरन्ध्रात् ग्रहाविष्टा सूर्यरश्मिप्रभा भुवि ।
यदा भवन्ति तस्याः समीपे तिर्गास्थितः ।।
2.            केशं यदोद्गमयतो सो मर्त्यानां परमाणुकः ।
मर्त्योत्तमो भक्तिपाकात् महरादिषु संस्थितः ।।
3.            यं कालं सूक्ष्मदृग्वेद स कालः परमाणुकः ।
तच्छतांशो हि देवानां तच्छतांशोब्जजस्य तु ।।
4.            भूमौ स्थितानां मर्त्यानां यः कालः परमाणुकः ।
तच्छतांशो देवलोके स्थितस्य परमाणुकः ।।
5.            तत्कोट्यंशो रमायाश्च तदनन्तांशको हरेः ।
परमाणुरिति प्रोक्तः तदन्यैर्न्यैव बुध्यते ।।
6.            परमाणुद्वयात्मातु कालो द्व्यणुक ईरितः ।
परमाणुत्रयात्मस्य त्र्यणुकः परिकीर्तितः ।।
7.            त्रुटिः त्रिभिश्च त्र्यणुकैः वेधः स्यात्तत्रयेण तु ।
लवोवेधत्रयात्मास्यात् निमेषस्तु त्रिभिर्लवैः ।।
8.            क्षणस्त्रिनमिषः प्रोक्तः काष्ठाख्या क्षणपञ्चकात् ।
काष्ठाभिः पञ्चदशभिः लघुकालः प्रकीर्तितः ।।
9.            लघुभिः पञ्चदशभिः विनाडिका प्रकीर्तिता ।
विनाडिका षष्ठिभिर्या नाडिकैका भविष्यति ।।
10.           ताभ्यां मुहूर्तत्रिंशद्भिः अहोरात्रमितीरितम् ।
अष्टमांशान्न्यूनसप्तघटिकाभिश्च सप्तभिः ।।
11.           सपादसप्तभिर्वापि सार्धसप्तभिरेव वा ।
यामः कालोष्टभिर्वापि कालभेदेन चोदितः ।।
12.           यामैश्चतुर्भिः अहः स्यात् तावद्भिर्यामिनीमता ।
अहोरात्रत्रिँशता च मासः पक्षद्वयात्मकः ।।
13.           ताभ्यां ऋतुस्तत्रयेणैवा अयनं परिकीर्तितम् ।
कर्कादि कार्मुकान्तेषु यदा चरति भस्करः ।।
14.           दक्षिणायनमुद्धिष्टं देवानां रात्रिसंज्ञकम् ।
यावन्नक्रादिके भानौ मिथुनान्तेषु तिष्ठति ।।
15.           उत्तरायणमुद्धिष्टं तावत्कालं विचक्षणैः ।
अयनाभ्यां वत्सरस्तु द्विषण्मासात्मकः स्मृतः ।।
16.           षष्ठ्युत्तरत्रिशतकैः अहोरात्रैश्च वत्सरः ।
अष्टाविंशत्सहस्रैस्तु लक्षसप्तदशाब्दतः ।।
17.           क्लृप्तः कृतयुगस्तस्मात् त्रेतापादोनमुच्यते ।
सहस्रषण्णवत्येतलक्षद्वादश सम्मितः ।।
18.           त्रेतायुगस्ततः पादन्यूनो द्वापर ईरितः ।
चतुष्षष्ठिसहस्रेत अष्टलक्षमितिस्मृतः ।।
19.           द्वापररात्तु कलिस्तस्मादर्धपादमितिस्मृतः ।
द्विषोडशसहस्रेताच्चतुर्लक्षात्मकः कलिः ।।
20.           कृतत्रेताद्वापरश्च कलिश्चेति चतुर्युगाः ।
चतुर्युगात्मकः कालो महायुग इतीर्यते ।।
21.           विंशत्सहस्रेतलक्षत्रिचत्वारिंशदब्दकैः ।
क्लृप्तः कालः कालदृग्भिः महायुग इतीर्यते ।।
22.           षष्ठ्युत्तराब्दत्रिंशताद्देवानामब्द ईरितः ।
तादृगब्दसहस्राणां चतुष्कोणः कृताह्वयः ।।
23.           त्रेता तु त्रिसहस्राब्दा द्विसहस्राब्दसम्मितः ।
द्वापरस्तु ततो न्यूनसहस्राब्दमितः कलिः ।।
24.           कृतस्यादौ कृतान्ते च पृथगब्दश्चतुश्शतम् ।
सन्धिस्त्रेतायुगाद्यन्ते पृथगब्दशतत्रयम् ।।
25.           सन्धिस्तु द्वापराद्यन्ते पृथगब्दशतद्वयम् ।
शताब्दस्सम्मितः कालः सन्धिराद्यन्तयोः कलेः ।।
26.           एवं दैवेन मानेन द्वदशाब्दास्सहस्रतः ।
क्लृप्तः कालः कालविद्भिः महायुग इतीर्यते ।।
27.           सार्धाष्टादशलक्षाब्दे युगानाम् एकसप्तति ।
मिलितो मनुसन्धातभोगकाल उदीरितः ।।
28.           द्विषट्शताब्दसमितो लयः स्वायम्भुवोत्तरः ।
स्वारोचिषादिकानान्तु षण्णामप्यन्तरे लयः ।।
29.           प़ञ्चादशशताब्दात्मा लयः काल उदीरितः ।
चतुर्दशशताब्दात्मा लयः काल उदाहृतः ।।
30.           तदन्य मन्वन्तरेषु नियमात्सर्वदैव तु ।
चतुर्युगसहस्रन्तु ब्रह्मणो दिन उ(दिवमु)च्यते ।।
31.		 रीत्रिश्च तावती तस्य अहोरात्रा तु तादृशा ।
षष्ठ्युत्तरत्रिशतकाद्वत्सरोऽजस्य कीर्तितः ।।
32.		 एवं विधशताब्दात्मा कालोऽजस्यायुषो मतः ।
वासुदेवात्सूक्ष्मतनुं स्वशताब्दादिमे क्षणे ।।
33.           यः प्राप सशताब्दायुः तद्रूपाणीतराणि तु ।
मासत्रयाधिकादब्दषट्कात् पूर्वतनादभूत् ।।
34.           सृज्यानां सूक्ष्मसांशानां सूक्ष्मसृष्टिश्चतुस्तनोः ।
सृष्टानां सूक्ष्मतः पूर्वं स्थूलदेहस्ततोऽभवत् ।।
35.           नारायणादजाद्रुद्रात् क्रमात् कालानुसारतः ।
यावतां सूक्ष्मतः सृष्टिः स्थूलसृष्टिस्तु तावता ।।
36.           अण्डादूर्ध्वं चावृतयः स्थूलदेहाश्च तन्मयाः ।
आद्यस्य ब्रह्मणः पूर्वं पञ्चाशद्वत्सरान्ति मे ।।
37.           दिने व्यतीते तद्रात्रावण्डसृष्टिरथाभवत् ।
तदन्तः स्वपतो विष्णोर्जलमध्यगतस्य तु ।।
38.           नाभ्युत्थिताल्लोकमयात् प्राकृतात् पद्मकोशतः ।
पाद्मः ब्रह्मोत्थितस्सार्धं सप्तत्रिंशच्चतन्मये ।।
39.           दिनान्तिमे निशायां च नाशोऽण्डस्य जगत्पतेः ।
व्युत्क्रमात्पूर्वमानेन स्थूलसूक्ष्मस्य नाशनम् ।।
40.           एवं शतायुषः पूर्णेद्विपरार्धात्मकायुषी ।
स्वयं चात्मस्वरूपाणाम् एकीभावं करोत्यजः ।।
41.           यावत्कालेनात्मसृष्टिरेकीभावस्तु तावता ।
एकीभूतेपि रमति तथैकीभूतमायया ।।
42.           तावत्कालं ततः पश्चात् सुप्तवत् स्वापयत्यजः ।
सार्धद्विषड्ब्रह्मवर्षमिति शिष्टे निशान्ति मे ।।
43.           भागे पुनः पूर्ववच्च आत्मसृष्ट्यादिमीश्वरः ।
करोति पुरुषस्तस्य नायुर्मानं विधीयते ।।
44.           एवं विधापरिमितानन्तानन्तपरात्मके ।
काले भाविन्यपि हरिः सृष्ट्यादीशः करिष्यति ।।
45.           स्वन्तन्त्रस्यास्य मर्यादा अस्वतन्त्रैर्न शक्यते ।
लङ्घितुं पूर्णशक्तेर्हि वशे सर्वं चराचरम् ।।
46.           येऽनन्तकालतस्तस्य मृतिजन्मजरादयः ।
आयासदुःखदौर्भाग्यचिन्तासन्तापपूर्वकाः ।।
47.           अज्ञानेर्ष्यासूयपीडा कामक्रोधभयादयः ।
कृशतारोगदुरितपुण्यलेपादयस्तथा ।।
48.           आशाहानिश्च वृद्धिश्च क्षुत्तृट्कम्पादयस्तथा ।
नासन् दोषाः नोत्तरत्र भविष्यन्त्यखिलेश्वरे ।।
49.           तत्तद्दुर्जनसङ्घैश्च ये कल्प्याः दोषसञ्चयाः ।
तत्तद्विरोधि सुगुणानन्त्यपूर्णस्य मीळुषः ।।
50.           तद्दोषलेशगन्धोपि न विष्णोरिति निश्चयः ।
यः कालः परमाण्वादि द्विपरार्धावसानकः ।।
51.           तेषु सर्वेषु कालेषु तत्तन्नाम्ना रमापतिः ।
तत्सामर्थ्यव्यञ्जकश्च स्थित्वा रक्षत्यजः प्रभुः ।।
52.           नित्यः कालप्रवाहोयमनित्यास्तु क्षणादयः ।
नष्टेषु सत्सुकालेषु वर्तमानेषु वै क्रमात् ।।
53.           अविनाश्य स्वरूपोसौ तत्प्रवाहस्य रक्षकः ।
शताब्दस्सम्मितः कालो ब्रह्मणः परसंज्ञकः ।।
54.           सकालस्तु निमेषाख्यः अहश्च परमेशितुः ।
इत्यज्ञजनबुद्धीनां शुद्ध्यर्थमुपचर्यते ।।
55.           अत आहुर्महाप्राज्ञाः कालतोनन्तमीश्वरम् ।
अथापि परकालान्तं ब्रह्माणं जनयन्विभुः ।।
56.           अङ्गीकरोति तं कालमहोयदखिलेश्वरः ।
रात्रिमानादि शून्योपि तावन्तं कालमीश्वरः ।।
57.           रात्रित्वेन चरत्येवं ब्रह्मादीन्स्वापयत्यजः ।
निशायाश्चरमे भागे आत्मसृष्ट्यादिमीश्वरः ।।
58.           करोति पुरुषस्तस्य आयुर्मानं विधीयते ।
एवं विधापरिमितानन्तानन्तपरात्मकः ।।
59.           कालाव्यतीता सृष्ट्यादि कर्तुर्विष्णोः परात्मनः ।
स्वरूपेन्द्रियवद्योसौ कालोरूपादिवर्जितः ।।
60.           पूर्वपूर्वसु कालेषु नष्टेष्वन्ये भवन्ति हि ।
उत्तरत्रायास्यमानपरमाणुप्रवाहतः ।।
61.           संयोज्यघटिकाद्यास्तु कालोज्ञेयः समानतः ।
घटिकायाममासाद्या नैकदा सम्भवन्ति हि ।।
62.           आयुर्मानविहीनस्यानन्तानन्तपरात्मकैः ।
विष्णोः कालानन्त्यमितौ कालज्ञान(नं)प्रयोजकम्।।
63.           वेदानामक्षराणाञ्च देशन्याव्याकृतस्य च ।
रमायाः सर्वजीवानां मुक्तानां लिङ्गसंयुजाम् ।।
64.           समस्तलिङ्गदेहानां जडायाः प्रकृतेस्तथा ।
एतेषामस्वतन्त्राणां स्वतन्त्रवशवर्तिनाम् ।।
65.           कालानन्त्यमितौ नित्यं कालज्ञान(नं)प्रयोजकम् ।
अनित्या(अनन्ता)नां जडानां च सूक्ष्मस्थूलशरीरिणाम् ।।
66.   	 आयुर्माने शरीराणां कालज्ञनं प्रयोजकम् ।
एवं कालगतिं जानन् कालभीतिं तरिष्यति ।।
67.           एकस्मिन्परकालेतु एकमण्डं जगद्गुरुः ।
दशावरणसंयुक्तं सृजत्यवति हन्त्यजः ।।
68.           नैकदाजाण्डबहुळं स्रष्टुमिच्छति केशवः ।
ब्रह्माणं गरुडं शेषम् इद्रं प्राणं रविं सुरान् ।।
69.           एकमेकं हरिर्मुक्तं(क्त)परकाले करोत्यजः ।
तथाप्यजाण्डानन्तानां नियन्ताऽजाण्डरूपवान् ।।
70.           हरिः तादृङ्महारूपानन्तानन्तानि वै हरेः ।
रोमाङ्कुरेष्वनन्तेषु संवसन्तीति हि श्रुतिः ।।
71.           तादृशानन्तरूपाणाम् अनन्त्यानन्त्ययोगतः ।
अधश्चोर्ध्वं चाष्टदिक्षु संयुक्तानामनन्तशः ।।
72.           रूपानन्त्यैरपूर्णोरु देशे पूर्णतनुर्हरिः ।
अत्यभिन्नोरुचित्सौख्यबलादि गुणविग्रहः ।।
73.           निर्विशेषः सर्वगतः सूक्ष्मस्थूलादिरूपकः ।
समशक्तिः समज्ञानबलादिशुभसद्गुणः ।।
74.           समाधिकविहीनश्च रमयानन्तरुपया ।
सहस्वाधीनया सत्याऽशेषचिज्जडभृद्धरिः ।।
75.           स्वभिन्नायाः श्रियाः भिन्नाः मुक्तामक्तासुचिद्गुणैः ।
भिन्नैर्नित्यजडैस्सत्यैः भिन्नैः जीवेश्वरैः सदा ।।
76.           विभिन्नो विश्वतो विष्णुः देशतो गुणतो विभुः ।
अनन्तानन्तरूपेण अभिन्नोभिन्नवद्धरिः ।।
77.           पूर्णोपि जडचिद्रूपं सृजत्यवति हन्त्यजः ।।
</poem>
।। इति श्री परतत्तवनर्णये प्रकाशसंहितायां प्रथमपरिच्छेदे तृतीयोऽध्यायः ।।

[[वर्गः:पाञ्चरात्रागमः प्रथमपरिच्छेदः]]