Revision 41188 of "पाञ्चरात्रागमः/प्रथमपरिच्छेदः/चतुर्थोध्यायः" on sawikisource

{{header
 | title      = [[../../]]
 | author     = 
 | translator = 
 | section    = चतुर्थोध्यायः
 | previous   = 
 | next       = 
 | notes      = 
}}
<poem>
।। अथ चतुर्थोऽध्यायः ।।

।। श्रीहंस उवाच ।।
1.            सूक्ष्मं सर्वजगद्बीजं मितं त्रातं च विष्णुना ।
प्रधानमव्यक्तमिति यद्वदन्ति मनीषिणः ।।
2.            महामायेत्यविद्येति प्रकृतिर्मोहिनीति च ।
त्रिगुणात्मकमव्यक्तं त्रिरूपं तत्त्रिशक्तिमत् ।।
3.            अविद्याकामकर्मादि बीजमित्यपि तां विदुः ।
रक्षितं प्रळये सृष्टा(वेवा)वण्वनन्तस्वरूपवान् ।।
4.            अनादिकर्मग्रन्थीति बन्धोबन्धकमित्यपि ।
अजामनन्यवशगां कळाषोडशसंयुताम् ।।
5.            तीव्रदुःखात्मकां नानायोनिप्रापकमीरितम् ।
नारिकेळसमाकारं परिच्छेदत्रयात्मकम् ।।
6.            मूर्ध्निच्छिद्रयुतं दिव्यं रत्नवद्भास्वरं सदा ।
विष्णुना रमयाच्छन्नाच्छिद्रगर्भावकाशवत्।।
7.            सृष्टौ लये रमा तस्य मानिनी च निरन्तरम् ।
सृष्टावेव ब्रह्मवायू सभार्यावभिमानिनौ ।।
8.            रजस्सत्त्वतमस्संज्ञभागत्रयसमन्वितम् ।
सत्वभागः शुक्लवर्णः रक्तवर्णस्तु राजसः ।।
9.            नीलवर्णस्तमोभाग इति भागत्रयात्मकः ।
ज्ञानकर्मेन्द्रियकळाः रजोभागे व्यवस्थिताः ।।
10.           तमोभागगताः प़ञ्चतन्मात्रासंज्ञिताः कळाः ।
मनः कळा सत्वभागगता सर्वप्रधानिका ।।
11.           मनोबुद्धिरहंकारश्चित्तं चेति चतुर्विधम् ।
कामक्रोधमहालोभमदमात्सर्यमोहकाः ।।
12.           द्वेषाहंकारममकारेर्ष्यसूयाभयादयः ।
मनोदोषास्तद्विहीनं मनोज्ञानाय साधनम् ।।
13.           मनश्चतुर्विधं नित्यं जडप्रकृतिगं मतम् ।
तज्जन्यमप्यनित्यं स्यात्तत्र चित्तं न दोषयुक् ।।
14.           मनः स्वर्णाद्यनेकार्थमपेक्षां जनयिष्यति ।
बुद्धिर्निषिद्धभोग्च्छां सदासंकल्पयिष्यति ।।
15.           अहङ्कारः पुमर्थानां घातकः स्सोत्तमैः सह ।
स्पर्धां विष्णुसुरद्वेषं कल्पयत्यपि सर्वशः ।।
16.           चित्तं सत्साधनगतं करोति पुरुषं सदा ।
सत्साधनमहङ्कारकलितं पापमेवहि ।।
17.           अहङ्कारविहीनं तच्चित्तं विज्ञानसाधनम् ।
रचिते भारते वर्षे यथा मानुषसत्तनुम् ।।
18.           लब्ध्वा गुरुकुलावासं कृत्वानेकसुजन्मभिः ।
कृत्वात्मयोग्यसत्कर्म लब्धसद्गुरुसेवया ।।
19.           प्रसन्नैरुपदिष्टोरु सच्छास्त्रश्रवणादिभिः ।
वृत्तिज्ञानप्रदं तच्च वृत्तिभक्त्यादि साधकम् ।।
20.           ताभ्यां स्वारूपिकज्ञानभक्तिर्व्यक्तिर्भविष्यति ।
स्वारूपिकं मनो नित्यं ततः स्वारूपिकी मतिः ।।
21.           व्यक्ता भवति नित्या सा भक्तिः स्वारूपिकी तथा ।
सैवानन्दस्वरूपेण नित्या मुक्तेषु तिष्ठति ।।
22.           इन्द्रियाणां गोळकानि दृश्यान्याहुः समग्रशः ।
अतीन्द्रियाणीन्द्रियाणि ज्ञानकर्ममयानि च ।।
23.           श्रोत्रत्वङ्नेत्ररसनघ्राणाद्या ज्ञानशक्तयः ।
वाक्पाणिपादपायूपस्थाः सर्वे कर्मशक्तयः ।।
24.           श्रोत्रं शब्दग्राहिशब्दो द्विविधः परिकीर्तितः ।
शब्दो ध्वन्यात्मको वर्णात्मकश्चेति तदादिमः ।।
25.           अहङ्कारात्समुद्भूतः आकाशोत्पत्तिकारणः ।
ध्वन्यात्मकस्तु शब्दस्तु प्रथमः परिकीर्तितः ।।
26.           ज्ञानकर्मेन्द्रियमनोमात्राः सूक्ष्माह्यनादयः ।
नित्याश्च प्रळये सृष्टावनित्यास्ते प्रकीर्तिताः ।।
27.           वर्णात्मकस्तु यश्शब्दो नित्यः सर्वगतो विभुः ।
द्रव्यमित्येव सर्वेषां न गुणः कस्यचिन्मते ।।
28.           वेदाः पदाद्वर्णतश्च शब्दतः स्वरतस्तथा ।
अनादिनित्यास्ते सर्वेप्यपौरुषेयगुणोत्कराः ।।
29.           विष्णोर्माहात्म्यविज्ञप्तौ सत्प्रमेये च साधकाः ।
शास्त्राणिच पुराणानि पौरुषेयाणि कृत्स्नशः ।।
30.           यथार्थानि प्रणीतानि हरिणाथ सुरर्षिभिः ।
नित्यान्येवार्थतो वर्णक्रमयोगादनित्यकाः ।।
31.           सात्विकानि पुराणानि मन्वादि स्मृतयस्तथा ।
यथार्थ एव तत्रोक्तं ग्राह्यं श्रीहरितत्परैः ।।
32.           वाराहं वैष्णवं पाद्मं वायुप्रोक्तं च गारुडम् ।
श्रीमद्भागवतं चैव सात्विकानीति हि श्रुतिः ।।
33.           ब्रह्माण्डं ब्रह्मवैवर्तं मार्कण्डेयं च वामनम् ।
भविष्यं नारसिंहं च राजसानि षडैव हि ।।
34.           मात्स्यं कौर्म्यं तथा लैङ्ग्यं शैवं स्कान्दं तथैव च ।
पाशुपतसंज्ञिकं चेति तामसानि विदो विदुः ।।
35.           ग्राह्यं सर्वं सात्विकोक्तं योजना भेदतोथवा ।
वेदवेदानुसारेषु विरोधेऽन्यार्थकल्पना ।।
36.           इतराणि विरुद्धानि प्रलम्भभ्रमजान्यपि ।
व्यासोक्तानि पुराणानि सात्विकान्यपि कृत्स्नशः ।।
37.           क्वचित् क्वचित् पुराणानि प्रायोज्ञानकराण्यपि ।
आसुरावेशवशतः तदन्योक्तान्यनन्तशः ।।
38.           श्रोत्राग्राह्याणि सन्त्येव अप्रमाणानि तान्यलम् ।
परशुक्लत्रयोक्तानि नित्यं विष्ण्वाज्ञयैव तु ।।
39.           अतिप्रमाणानि दैत्यावेशाज्ञानादि वर्जनात् ।
बधिरत्वादयः श्रोत्रृदोषास्तद्वर्जितेन्द्रियैः(याः) ।।
40.           एतानि विषयाण्याहुः श्रोतव्यानि सहस्रशः ।
शब्ददोषविहीनानि ग्राह्याणि मनसा सह ।।
41.           तत्रोक्तानन्तसुगुणं निर्दोषं ज्ञेयमीश्वरम् ।
गम्यं सत्यं च सुखचिन्मयं विष्णुं सनातनम् ।।
42.           आत्मेश्वरं हरिं भक्त्योपा(स्त्या)स्यमुक्ता भवन्ति हि ।
कुशास्त्रेषूक्तदुर्मार्गे हेयता बुद्धिसंयुतम् ।।
</poem>
।। इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे चतुर्थोऽध्यायः ।।

[[वर्गः:पाञ्चरात्रागमः प्रथमपरिच्छेदः]]