Revision 904152 of "Edition महाभारतम्-01-आदिपर्व-020" on sourceswiki

{{delete|Moved to sa.wikisource}}
:सौतिरुवाच ।
:एतत्ते कथितं सर्वममृतं मथितं यथा ।
:यत्र सॊऽशवः समुत्पन्नः श्रीमानतुलविक्रमः ॥१॥
:तं निशाम्य तदा कद्रूर्विनतामिदमब्रवीत ।
:उच्चैःश्रवा हि किंवर्णॊ भद्रे प्रब्रूहि मा चिरम ॥२॥
:विनतोवाच ।
:शवेत एवाश्वराजॊऽयं किं वा त्वं मन्यसे शुभे ।
:ब्रूहि वर्णं त्वमप्यस्य ततॊऽत्र विपणावहे ॥३॥
:कद्रूरुवाच ।
:कृष्णवालमहं मन्ये हयमेनं शुचिस्मिते ।
:एहि सार्धं मया दीव्य दासीभावाय भामिनि ॥४॥
:सौतिरुवाच ।
:एवं ते समयं कृत्वा दासीभावाय वै मिथः ।
:जग्मतुः स्वगृहानेव शवॊ द्रक्ष्याव इति सम ह ॥५॥
:ततः पुत्रसहस्रं तु कद्रूर्जिह्मं चिकीर्षती ।
:आज्ञापयामास तदा वाला भूत्वाञ्जनप्रभाः ॥६॥

:आविशध्वं हयं क्षिप्रं दासी न स्यामहं यथा
:नान्वपद्यन्त ये वाक्यं ताञशशाप भुजंगमान् ॥७॥

:सर्पसत्रे वर्तमाने पावकॊ वः प्रधक्ष्यति
:जनमेजयस्य राजर्षेः पाण्डवेयस्य धीमतः ॥८॥

:शापमेनं तु शुश्राव स्वयमेव पितामहः ।
:अतिक्रूरं समुत्सृष्टं कद्र्वा दैवादतीव हि ॥९॥

:सार्धं देवगणैः सर्वैर्वाचं तामन्वमॊदत ।
:बहुत्वं प्रेक्ष्य सर्पाणां प्रजानां हितकाम्यया ॥१०॥

:तिग्मवीर्यविषा ह्येते दन्दशूका महाबलाः ।
:तेषां तीक्ष्णविषत्वाद्धि प्रजानां च हिताय च ॥११॥

:युक्तं मात्रा कृतं तेषां परपीडोपसर्पिणाम् ।
अन्येषामपि सत्त्वानां नित्यं दोषपरस्तु ये ॥१२॥

:तेषां प्राणान्तिको दण्डो दैवेन विनिपात्यते ।
:एवं संभाष्य देवस्तु पूज्य कद्रूं च तां तदा ॥१३॥

:आहूय क्श्यपं देव इदं वचनमब्रवीत् ।
:यदेते दन्दशूकाश्च सर्पा जातास्त्वयानघ ॥१४॥

:विषोल्बणा महाभोगा मात्रा शप्ताः परंतप ।
:तत्र मन्युस्त्वया तात न कर्तव्यः कथंचन ॥१५॥

:द्द्ष्टं पुरातनं ह्येतद्यज्ञे सर्पविनाशनम् ।
:इत्युक्त्वा सृष्टिकृद्देवस्तं प्रसाद्य प्रजापतिम् ।
:प्रादाद्विषहरीं विद्यां कश्यपाय महात्मने ॥१६॥

‘एवं शप्तेषु नागेषौ कद्र्वातु द्विजसत्तम् ।
:उद्विग्रः शापतस्तस्याः कद्रूं कर्कोटकोऽब्रवीत् ॥१७॥

:मातरं परमप्रीतस्तस्था भुजगसत्तमः ।
:आविश्य वाजिनंमुख्यं बालो भूत्वाञ्चनप्रभः ॥१८॥

:दर्शयिष्यामि तत्राहमात्मानं काममाश्वस ।
:एवमस्त्विति सा पुत्रं प्रत्युवाच यशस्विनी’ ॥१९॥