Difference between revisions 203022 and 203024 on sawiki

पूर्वकालॆ कण्णदासः नाम कश्चन वणिक् पत्न्या 
रॊहिण्या साकं सुखॆन जीवति स्म | तस्मिन् कालॆ दर्पणः
सर्वत्र व्यवहारॆ न आसीत् |
  कदाचित् कण्णदासः ऎकं दर्पणं कुतश्चित् प्राप्त-
वान् | सः दर्पणम् अपश्यत् | तदा तॆन तत्र कश्चन 
मनुष्यः द्ऱुष्टः | स्वस्यैव प्रतिबिम्बम् ऎतत् इति 
अज्ञात्वा, 'पॆटिकायां वसन् ऎषः कश्चन महापुरुषः
भवॆत्' इति अचिन्तयत् सः |
  कण्णदासः प्रतिदिनं प्रकॊष्ठं पिधाय दर्पणं द्ऱुष्ट्वा तं
पूरुषं नत्वा पुनः पॆटिकायां दर्पणं स्थापयति स्म |
  ऎवमॆव मासाः अतीताः | पत्न्याः रॊहिण्याः मनसि
सन्दॆहः जातः - 'मम पतिः प्रकॊष्टद्वारं पिधाय प्रतिदिनं 
किमपि करॊति | किं स्यात् प्रकॊष्टे ? ' इति |
  ऎकस्मिन् दिनॆ प्रातर्विधं समाप्य कण्णदासः 
वाणिज्याय प्रस्थितः | तस्य निर्गमनस्य अनन्तरं 
रॊहिणी प्रकॊष्टं प्रविश्य पॆटिकां उद्घाटितवती | तत्र
तया दर्पणे महिलामुखं द्ऱुष्टं | ऎतस्मात् सा
आश्चर्यचकिता जाता | पतिः अन्यां सुन्दरीं 
कन्याम् अत्र स्थापितवान् इति मत्वा सा
नितरां कुपिता जाता |
  सायङ्कालॆ कण्णदासः ग्ऱुहं प्रत्यागत-
वान्  | तस्य ग्ऱुहप्रवॆशात् पूर्वमॆव
रॊहिण्या कलहः आरब्धः |