Difference between revisions 202979 and 203022 on sawikiपूर्वकालॆ कण्णदासः नाम कश्चन वणिक् पत्न्या रॊहिण्या साकं सुखॆन जीवति स्म | तस्मिन् कालॆ दर्पणः सर्वत्र व्यवहारॆ न आसीत् | कदाचित् कण्णदासः ऎकं दर्पणं कुतश्चित् प्राप्त- वान् | सः दर्पणम् अपश्यत् | तदा तॆन तत्र कश्चन मनुष्यः द्ऱुष्टः | स्वस्यैव प्रतिबिम्बम् ऎतत् इति अज्ञात्वा, 'पॆटिकायां वसन् ऎषः कश्चन महापुरुषः भवॆत्' इति अचिन्तयत् सः | कण्णदासः प्रतिदिनं प्रकॊष्ठं पिधाय दर्पणं द्ऱुष्ट्वा तं पूरुषं नत्वा पुनः पॆटिकायां दर्पणं स्थापयति स्म | ऎवमॆव मासाः अतीताः | पत्न्याः रॊहिण्याः मनसि सन्दॆहः जातः - 'मम पतिः प्रकॊष्टद्वारं पिधाय प्रतिदिनं किमपि करॊति | किं स्यात् प्रकॊष्टे ? ' इति | ऎकस्मिन् दिनॆ प्रातर्विधं समाप्य कण्णदासः वाणिज्याय प्रस्थितः | तस्य निर्गमनस्य अनन्तरं रॊहिणी प्रकॊष्टं प्रविश्य पॆटिकां उद्घाटितवती | तत्र तया दर्पणे महिलामुखं द्ऱुष्टं | ऎतस्मात् सा आश्चर्यचकिता जाता | पतिः अन्यां सुन्दरीं कन्याम् अत्र स्थापितवान् इति मत्वा सा नितरां कुपिता जाता | साय All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sa.wikipedia.org/w/index.php?diff=prev&oldid=203022.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|