Difference between revisions 206687 and 238068 on sawikiनिष्कुलानन्दः स्वामी
निष्कुलानन्दः स्वामी गुर्जरभाषायाः भक्तिमार्गस्य कविः आसीत् । सः स्वामिनारायणसम्प्रदायस्य अनुयायी आसीत् । तस्य ‘त्याग न टके वैराग्य विना करिए कोटि उपायजी ’ गीतम् आश्रमभजनावलिषु मन्दिरेषु प्रेम्णा गीयन्ते ।
सः स्वामिनारायणसम्प्रदाये महत्त्वपूर्णं स्थानं वहति । वैराग्यप्रधानं तस्य जीवनं कृतिषु अपि प्रतिम्बितं भवति । वैराग्यप्रधाने जीवने सत्यपि ‘स्नेहगीता’ क्रृतौ भक्तिश्रुङिगारस्य विशिष्टं वर्षानं दृश्यते । तस्य २४ कृत्यः ‘निष्कुलानदकाव्य’ नामना स्वामिनारयणमन्दिरतः वडताल-भूज-अमदावाद-वदोडरा-सूरतादिषु मन्दिरेषु प्रकाशिताः अभूवन् । तेन रचितानि भक्तिगीतानि ‘निष्कुलानन्दकाव्यकीर्तन’ नाम्ना प्रसिद्धिं गताः । स्वामिनारायणसम्प्रदायस्य एनं कविं प्रति (तस्य जीवनं कवनं च प्रति) शोधग्रन्थः अपि लिखितः वर्तते ।
निष्कुलानन्दस्वामिनः जन्म जामनगरमण्डलस्य शेखपाटग्रामे अभवत् । तस्य जन्म वि.सं. १८२२ तमे वर्षे, माघमासस्य पञ्चम्यां तिथौ (वसन्तपञ्चम्याम्) रथकारस्य कुले अभवत् । तस्य पितुः नाम रामजी, मातुश्च नाम अमृताबा आसीत् । तस्य दीक्षातः पूर्वत नाम लालाजी आसीत् । निष्कुलानन्दस्वामिनः मेलनं कविना दलपतरामेण सह धोलेरायाम् अभवत् । एतस्य मेलनस्य उल्लेखं दलपतरामः बुद्धिप्रकाशे (प्रत्रिकायाम्) कृतवान् । स्वामिनारायणसम्प्रदायस्य सर्वेषु कविषु निष्कुलानन्दस्वामी विशिष्टं स्थानं वहति । यतो हि अक्षरज्ञानेन विनापि सः विपुलं साहित्यं सम्पदायाम् अदात् ः एनं कविं दीक्षायाः अनन्तरं सद्यः एव भगवान् स्वामिनारायण साहित्यरचनां प्रति आदिशति । तदा कविवरः कथयति-‘कृष्णमुखानि अक्षराणि छिन्नानि ।’ तवः भगवान् कथयति- ‘प्रारभ्यतां, तव फलमं प्रविश्य अहं लिखामि ।’ अनेन सह एव निष्कुलानन्दः लेखनं प्रारभत । तस्य कृतिः यमदण्डः अस्ति । सर्वेश्रेष्ठा कृतिः ‘भक्तचिन्तामणिः’ ‘पुरुषोत्तमप्रकाशः’ च वर्तते ।
आजीवनं ग्रन्थप्रीतिं धारयन् अपि सः काष्ठकलाक्षत्रेऽपि सम्प्रदायस्य अमूल्यां सेवां चकार । तेन कृता शिल्पकला धोलेरायाः स्वामिनारायण मन्दिरे दृश्यते । तत्र अद्यापि स्वामिना रचितानि तोरणानि वर्तन्ते । अस्मिन्नेव मन्दिरे सेवारतः सः वि.स. १९०९ तमे वर्षे देहत्यागम् अकरोम् ।
प्रसिद्धाः कृतयः
१. पुरुषोत्तमप्रकाशः
२. भक्तिनिधिः
३. हरिबलगीता
४. वचनविधः
५. यमदण्डः
६. लग्नशुकनावलिः
७. चोसठपदी
८. मनगञ्जन
९. भक्तचिन्तामणिः
१०. वृत्तिविवाहः
११. हरिस्मृतिः
१२. सारसिद्धिः
१३. स्नेहगीता
१४. धीरज-आख्यानम्
१५. दयप्रकाशः
१६. हरिविचरणम्
१७. गुणग्राहकः
१८. कल्याणनिर्णयः
१९. अरजीविनयः
२०. विह्नविन्तामणिः
२१. पुष्पचिन्तामणिः
२२. शिक्षापत्री पद्यरूपा
२३. अवतारचिन्तामणिः इत्यादयः ।All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sa.wikipedia.org/w/index.php?diff=prev&oldid=238068.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|