Difference between revisions 206965 and 206966 on sawiki

{{Infobox settlement
|name =देहली
|official_name = National Capital Territory of Delhi
|settlement_type = [[Federal district]]
|image_skyline = Delhi Montage.jpg
|image_caption = From top clockwise: [[लोटस् टेम्पल्]], हूमायूनस्य स्मारकम्, कन्नाट् प्लेस्], अक्षरधाम, इण्डियागेट् च।
|image_flag = 
|image_seal = 
(contracted; show full)
दिवान्  खास् राज्ञां स्वकीयं स्थानमासीत् । खास् महल् चक्रवर्तिनां निवासः, रङ्गमहल् राज्ञीनां वासस्थानं, दिवान् आम् दर्बार सभाङ्गणमासीत् । अत्र उष्णजलशीतजलस्नानगृहणि सन्ति । शीशमहल् प्रेक्षणीयमस्ति । मोगलशैल्याः शिल्पदर्शनाय एतदुत्तमं स्थलमस्ति ।
स्वातन्त्र्यानन्तरम्म् प्रतिवर्षम् आगस्टमासस्य १५ दिने प्रातः काले अत्र प्रवेशद्वारस्य उपरि स्थिते विशेषस्थले भारतस्य प्रधानमन्त्री ध्वजारोहणं कृत्वा जनान् सम्बोधयति । शुभाशयं च यच्छति ।



===फेरी क्वीन्===
फेरिक्वीन् – हेरिटेज् धूमशकटम्         
देहलीनगरे स्थितः राष्ट्रियधूमशकटसङ्ग्रहालयः अवश्यं दर्शनीयः अस्ति । अत्र फेरिक्वीन् धूमशकटः १४२ वर्षप्राचीनः अस्ति । अस्य चालनयन्त्रं बाष्पेन चालनीयम् अस्ति । अस्य प्रकोष्ठाः वायुनियन्त्रिताः उत्तमासनयुक्ताः च सन्ति । अन्तस्तात् प्रकृतिदर्शनम् अतीव सुन्दरं भवति ।अन्तः सुन्दरतया अलङ्कृताः विभागाः सन्ति ।
अस्य वेगः प्रतिघण्टं ४० कि.मी. अस्ति । अस्य गिन्निस् पुस्तके नाम प्रवेशः जातः अस्ति । राष्ट्रियप्रवासनिगमस्य पारितोषकमपि प्राप्तम् अस्ति । एकदा एतत् यानं [[कर्णाटकम्]] आगतम् आसीत् ।
मेहरौली, [[कुतुब् मिनार्]] समीपे एतस्य स्थानम् अस्ति।
===जन्तर् मन्तर् (ग्रहतारावीक्षणालयः)===
देहलीनगरे जयपूरस्य राजामिर्जाराजेन जयसिंहेन निर्मितः ग्रहतारावीक्षणालयः १६ शतके स्थापितः अस्ति । अत्र सूर्यचक्रम् अथवा साम्राट् यन्त्रम् अतीव गमनार्हम् अस्ति । 
===संसद् भवनम्===
संसत् भवनम् वृत्ताकारम् श्रेष्ठभवनमस्ति । अत्र भारतसर्वकारस्य लोकसभाराज्यसभेत्यादि प्रशासनिकसभास्थलानि सन्ति । एतत् क्रिस्ताब्दे १९२७ तमे वर्षे निर्मितम् अस्ति । अस्य भवनस्य व्यासः १७२ मीटर् अस्ति । 
===इतरदर्शनीयानि स्थानानि===
देहलीनगरे अनेक मुस्लिमराजानां स्मारकाणि सन्ति । तत्र मोगलशैलीयवास्तुशिल्पानि रचितानि सन्ति । लोदीवंशीयानां स्मारकाणि , मोगलवंशीयानां स्मारकाणि च विशाले प्राङ्गणे सन्ति ।
शेरषहमहोदयेन निर्मितं दुर्गं पर्वतप्रदेशे अस्ति । एतत् पुरानाकिला इत्यपि कथयन्ति । अत्र समीपे क्श्चन मृगालयः अस्ति । अत्र धूसरभल्लूकाः श्वेततव्याघ्रः, श्वेतमयूरः, एमु , इत्यादीनि प्राणिसङ्कुलानि सन्ति । 
राजघाट् प्रदेशे विशाले उद्याने [[महात्मा गान्धिः]] [[जवाहरलालनेहरुः]] [[लालबहादुरशास्त्री]] श्रीमती [[इन्दिरागान्धिः]] इत्येतेषां स्मारकाणि सन्ति ।
बिर्लामन्दिरम् इति स्यातं श्रीलक्ष्मीनारायणमन्दिरम् अतीव सुन्दरम् कलायुक्तं  चास्ति । अक्षरधामदेवालयसङ्कीर्णम् अतीव सुन्दरम् अस्ति । अत्र सायङ्काले दीपालङ्कारयुक्तः जलोत्सवः विशेषतया द्रष्टव्यः अस्ति ।
देहलीनगरे बोटक्ललब्, लोधी-उद्यानं, रोषनारा-उद्यानं, नेहरु-उद्यानं, डीरपार्क्, बुद्धजयन्ती पार्क् इत्यादीनि सुन्दराणि उद्यानानि सन्ति ।
देहलीनगरे अनेके वस्तुसङ्ग्रहालयाः सन्ति । तेषु क्राफट् म्यूसियम् , न्याशनल् म्यूसियम् , नेहरूस्मारक म्यूसियं, रेड् फोर्ट् म्यूसियम् इत्यादीनि प्रसिद्धानि सन्ति । 
[[File:Delhi India Gate.jpg|thumb|right|200px|मुख्यद्वारम्]]
[[File:RedFort.jpg|thumb|220px|right|रक्तदुर्गम्]]
यमुनातीरे परिविस्तृता देहली दशाधिकक्रोशमितभूभागम् आक्रम्य अवतिष्ठते । क्रिस्तपूर्वप्रथमशतकस्य मौर्याधिपेन छिलिना छिल्लीति नामाङ्कितेयं नगरी तदनन्तरं दिल्ली बभूव । नगरीयं पुराणनवोपभागाभ्यां द्विधा विभक्ता । देहलीनगर्याः नासिकाभरणमिव चान्दनीचौकस्थानम् अत्र विराजते । पत्तनेऽस्मिन् [[रक्तदुर्गम्|रक्तदुर्गं]], [[कुतुब् मिनार्]], जन्तर्-मन्तर्, इण्डियागेट, लक्ष्मीनारायणमन्दिरं , तीनमूर्तिभवनं, विज्ञानभवनं, मुगलवास्तुशिल्पम् अनुसृत्य विरचितानि भवनानि चेत्यसङ्ख्यानि प्रेक्षणीयस्थानानि सुशोभन्ते ।
सर्वेषु प्रेक्षणीयेषु स्थानेषु बिर्लामन्दिरमिति ख्यातं लक्ष्मीनारायणमन्दिरं विशेषतया उल्लेखनीयम् । यतः मन्दिरमिदं भारतीयचरित्रं संस्कृतिञ्च प्रकटयति तथा भृशं विस्मयमपि जनयति ।


दिल्ल्यामेव भारतदेशस्य  जीवननिरूपकं संसद्भवनम् अस्ति । अत्रैव उच्चतमन्यायप्रदाता अत्युच्चन्यायालयो वर्तते । सर्वप्रधानपदमलङ्कृतवान् राष्ट्रपतिः देहल्याम् एव विराजते । अतः देहली भारतस्य हृदयमेव ।
[[File:National Capital Territory of Delhi in India (special marker) (disputed hatched).svg|thumb|200px|देहली]]

[[वर्गः: राजधान्यः]]
[[वर्गः:भारतस्य नगराणि]]
[[वर्गः: भारतस्य राज्यानि]]
दॆहली मॆ अनॆक भाषा कॊ बॊलनॆ वालॆ लॊग मिलकर रहतॆ है
दॆहली मॆ अनॆक भाषा कॊ बॊलनॆ वालॆ लॊग मिलकर रहतॆ है

(contracted; show full)[[vi:Delhi]]
[[vo:Delhi]]
[[war:Delhi]]
[[yi:דעלהי]]
[[yo:Delhi]]
[[zh:德里]]
[[zh-min-nan:Delhi]]
[[zh-yue:德里]]