Difference between revisions 216122 and 216968 on sawiki{{Infobox settlement |name =देहली |official_name = राजधानीनगरम् |settlement_type = केन्द्रशासितमण्डलम् |image_skyline = Delhi Montage.jpg |image_caption = लोटस् टेम्पल्, हूमायूनस्य स्मारकम्, कन्नाट् प्लेस्, अक्षरधाम, इण्डियागेट् च। |image_flag = |image_seal = |pushpin_map =[[भारतम्]] |mapsize = 250px |map_caption = Location of Delhi in India. |coordinates_region = US-DC |subdivision_type = Country |subdivision_name =[[भारतम्]] |subdivision_type1 = [[Federal district]] |subdivision_name1 = National Capital Territory |leader_party = [[Indian National Congress|INC]] |leader_title = {{nowrap|[[List of Chief Ministers of Delhi|Chief Minister]]}} |leader_title1 = [[Governors and Lieutenant-Governors of states of India|Lt. Governor]] |leader_name = [[Sheila Dikshit]] |leader_name1 = तेजेन्द्र खन्न |established_title1 = Settled |established_date1 = 1638 |established_title2 = Incorporated |established_date2 = 1857 |established_title3 = राजधानीनिर्माणम् |established_date3 = १९११ |named_for = |area_magnitude = 1 E8 |area_total_km2 = 1484.0 |area_total_sq_mi = 573.0 |area_land_km2 = 159.0 |area_land_sq_mi = 61.4 |area_water_km2 = 18.0 |area_water_sq_mi = 6.9 |population_as_of = 2011 |population_total = 11,007,835 |population_metro = 16,314,838 |population_blank1_title = Metro rank |population_blank1 = [[List of million-plus agglomerations in India|2nd]] |population_footnotes = |population_metro_footnotes = |population_density_km2 = 3,886 |population_rank = [[List of most populous cities in India|2nd]] |population_blank2_title = [[Metropolitan area|Metropolitan]] |population_blank2 = 21,753,486 ([[List of most populous metropolitan areas in India|1st]]) |population_demonym = Delhiite |population_density_sq_mi = 10,065 |blank1_name = Ethnicity |blank1_info = [[हिन्दी]], [[पञ्जाबी]] |blank_name |blank_info = [[हिन्दी]], [[पञ्जाबी]] |timezone = [[Indian Standard Time]] |utc_offset = +5.30 |postal_code_type = [[Postal Index Number|ZIP code(s)]] |postal_code = 110001-110098, 1100xx |area_code = [[Telephone numbers in India|+91 11]] |latd=28 |latm=36 |lats=36 |latNS=N |longd=77 |longm=13 |longs=48 |longEW=E|coordinates_display=Y |elevation_ft = 0–409 |elevation_m = 0–125 |website = {{URL|http://delhi.gov.in}} }} <small>'''दिल्ली''' अथवा '''देहली''' भारतस्य राजधानी अस्ति। [[नवदिल्ली]] पश्यतु।</small> भारतस्य राज्येषु अन्यतमम् अस्ति । भारतदेशस्य राजधानी देहली विश्वस्य अतिविशालासु नगरीषु अन्यतमा इति गण्यते । एषा भारतस्य तृतीया बृहती नगरी वर्तते । दिल्ली इत्यपि विश्रुता इयं नगरी पाचीनकाले [[हस्तिनापुरम्|हस्तिनापुरम् ]] इति ख्याता आसीत् । इन्द्रसभायामपि सभाजितानां भरतकुलोत्पन्नानां महीपालानां राजधानी अद्यतनीया देहली एव । मुगलवंशीयानां चक्रवार्तिनां तथा आङ्गलानामपि अधिकारिणां केन्द्रभूमिर्भूत्वा देहली अधुनापि भारतीयगणराज्यस्य राजधनीपदमलङ्करोति । [[भारतम्|भारतदेशस्य]] महानगरेषु देहलीनगरम् अन्यतमम् अस्ति । प्राचीनकालादपि देहली भारतस्य राजधानी अ स्ति । अस्य नगरस्य सहस्रवर्षस्य इतिहासः अस्ति । अनेक साम्राज्यानां राजवंशीयानां च राजधानीति प्रसिद्धमेतत् । हिन्दु-मुसलमान्-मोगल इत्यादि वंशीयाः अत्र प्रशासनं कृतवन्तः । आङ्गलाः अपि क्रिस्ताब्दे १९११ तमे वर्षे देहलीनगरं राजधानीं कृत्वा क्रिस्ताब्द १९४७ पर्यन्तं प्रशासनं कृतवन्तः । स्वातन्त्र्यप्राप्तेः अनन्तरमपि देहली देशस्य राजधानी अस्ति । देहली गङ्गासमतलप्रदेशानां महाद्वारमिव अस्ति । राजकीयकेन्द्रं वाणिज्यकेन्द्रं प्रशासनिककेन्द्रं च एतत् । अत्र अनेक वास्तुशिल्पानि क्रिस्ताब्दे १९३० समये निर्मितानि सन्ति । सर् एड्विन् लुटिन्स् भव्यशिल्पानाम् रचनाकारः आसीत् । ==देहलीनगरस्य इतिहासः== देहलीनगरं विश्वस्य प्राचीननगरेषु अन्यतमम् अस्ति । पूर्वं हिन्दुराजः [[अनङ्गपालः]] क्रिस्ताब्दे १०६० तमे वर्षे ‘लालकोट्’ निर्मितवान् । [[पृथ्वीराजचह्वाणः]] तस्य अभिवृद्धिकार्यं कृतवान् । अनन्तरं कुतुबुद्दीन् ऐबक् [[कुतुब् मिनार्]]शिल्पं कारितवान् । मोगलवंशीयः [[बाबरः]] अत्रैव साम्राज्यम् आरब्धवान् । आङ्गलाः क्रिस्ताब्दे १९११ तमे वर्षे देहलीनगरं राजधानीं कृत्वा प्रशासनम् आरब्धवन्तः । पूर्वं पुराणानुसारं [[कौरवाः]] [[हस्तिनावती]]नगरे (प्राचीनदिल्लीभागः) , [[पाण्डवाः]] [[इन्द्रप्रस्थम्|इन्द्रप्रस्थ]]नगरे (पुरानाकिला भागे) प्रशासनं कुर्वन्ति स्म । ==देहल्याः प्रेक्षणीयस्थानानि== ===[[राष्ट्रपतिभवनम्]] मोगल् गार्डन् च=== राष्ट्रपतिभवनम् भारतदेशस्य राष्ट्रपतेः अधिकृतं निवासस्थानमेतत् । क्रिस्ताब्दे १९२९ तमे वर्षे अस्य निर्माणम् अभवत् ।१३० हेक्टर् प्रदेशे व्याप्तम् , राष्ट्रपतिभवनं परितः ‘मोगल् गार्डन्’ उद्यानवनम् अस्ति । अतीव सुन्दरम् उद्यानवनम् एतत् । प्रवेशार्थम् अवसरः न भवति । राष्ट्रपतिभवने ३४० प्रकोष्ठाः सन्ति । मध्ये स्तूपः इव १७७ पादोन्नतं भव्यं अर्धगोलाकारिका छदिः(गुम्बज़्) अस्ति । भवने चत्वारः भागाः सन्ति । दर्बारहाल्, वाचनालयः, सभाभवनं, स्नानगृहं भोजनगृहं च । एतानि सर्वाणि उत्तमरीत्या निर्मितानि सन्ति । राष्ट्रपतिभवनं परितः मोगल् गार्डन् रम्यम् उद्यानम् अस्ति । ‘A Paradise on Earth’, ‘A garden of beauty’ इति प्रसिद्धम् । सर्वे राष्ट्रपतयः पूर्वतोऽपि अभिवृद्धिं कृत्वा उत्तमोत्तमं कृतवन्तः सन्ति । एतदर्थं देशविदेशेभ्यः विविधानि सस्यानि आनीतानि सन्ति । पाटलपुष्पसस्यानां द्विशताधिकभेदाः अत्र द्रृष्टुं शक्यन्ते । अनेन साकं बोगन् विल्ला, डेलिया, हैसिन्त्, हेलिगोनिया, डापोडिल्स्, आर्किड्, स्वीट् विलियम् मेरीगोल्ड् जपाकुसुमम् इत्यादीनि अपूर्वाणि सन्ति । एतानि मारिषस् पेरु ब्रेज़िल्, ईशान्यराज्यानि, [[हैदराबाद्]] [[कोच्ची]] इत्यादिप्रदेशेभ्यः आनीतानि । अत्र मयूराः बकाः मृगाः कदम्बाः इतस्ततः सञ्चरन्ति । जलोत्सांसि सन्ति । दीपलङ्कारः उत्तमतया कृतः अस्ति । सायङ्काले दीपलङ्कारः उद्यानवनसौन्दर्यं वर्धयति । ४२८ जनाः उद्यानरक्षकाः वाटिकापालकाः अत्र कार्यं कुर्वन्ति । सार्वजनिकानां फेब्रुवरीमार्चमासयोः प्रवेशावकाशः अस्ति । ===[[कुतुब् मिनार्]]=== कुतुब् समुच्चये अन्तर्भवति कुतुब् मिनार् अपि । देहल्यां स्थितम् अत्यन्तं प्रेक्षणीयं प्रमुखं च स्थानम् एतत्। अस्य शिखरस्य निर्माणकार्यम् आरब्धवान् गुलामवंशस्य प्रथमः शासकः कुतबुद्दीन् ऐबकः। तस्य उत्तराधिकारी इल्तुमिशः , तदनन्तरम् आगताः अल्लावुद्दीन् खिल्जिप्रभृतयः शासकाः च अधिकान् अट्टान् निर्माय तस्य भ्वनस्य औन्नत्यं वर्धितवन्तः। कुतुबमिनार् ७२.५ मी. औन्नत्ययुतम् । तस्य भूतलव्यासः १४.३ मीटर्विशालः अन्तिमाट्ट्ः २.७ मीटर् -उन्नतः अस्ति । अस्य मुखद्वारम् ‘अलैगेट्’ इति उच्यते । एतस्य निर्माता अस्ति अल्लावुद्दीनखिल्जिः । वृत्ताकारकम् एतत् मुखद्वारं रक्तशिलाभिः, अलङ्कृतमणिशिलाभिः, शिलाजवनिकाजालैः, कलाकृतिभिः च शोभते । टर्किशकलाविदः एतत् निर्मितवन्तः सन्ति । अल्लावुद्दीन्खिल्जिः सङ्कल्पितवान् आसीत् यत् ‘अमैमिनार्’ निर्मातव्यम् इति, यच्च औन्नत्येन कुतुबमिनारस्य अपेक्षया द्विगुणितं स्यात् इति । किन्तु तस्य मरणात् निर्माणकार्यम् अर्धे एव स्थगितं जातम् ।२४.५ मीटरुन्नतः प्रथमः अट्टः निष्प्रयोजकः जातः अस्ति । ===[[रक्तदुर्गम्]]=== रक्तदुर्गम् (लालकिला) देहलीनगरे स्थितं रक्तदुर्गं (लालकिला) रक्तवालुकाशिलाभिः निर्मितः शिल्पविशेषः अस्ति। अस्य दैर्घ्यं २ कि.मी. अस्ति । उन्नतिः समाना नास्ति। नद्याः समीपे २८ मीटर् उन्नतं , नगरभागे ३३ मीटर् उन्नतम् अस्ति । देहली चक्रवर्ती [[षाहजहान्]] क्रिस्ताब्दे १६३८ तमे वर्षे एतस्य दुर्गस्य निर्माणं आरब्धवान् । क्रिस्ताब्दे १६४८ तमे वर्षे निर्माणकार्यम् समाप्तम् अभवत् । लाहोर् गेट् तः प्रवेशः अस्ति । अत्र दिवान् आम् , दिवानीखाम् , मोति मसजिद् , रङ्गमहल् इत्यादीनि सन्ति । प्रतिदिनम् सायङ्काले Sound and light show आङ्गल हिन्दिभाषयोः व्याख्यानसहितम् भवति। अन्तः आपणानां पाङ्क्तिः अस्ति । हस्तशिल्पवस्तूनि अत्र प्राप्तुं शक्यन्ते । दिवान् खास् राज्ञां स्वकीयं स्थानमासीत् । खास् महल् चक्रवर्तिनां निवासः, रङ्गमहल् राज्ञीनां वासस्थानं, दिवान् आम् दर्बार सभाङ्गणमासीत् । अत्र उष्णजलशीतजलस्नानगृहणि सन्ति । शीशमहल् प्रेक्षणीयमस्ति । मोगलशैल्याः शिल्पदर्शनाय एतदुत्तमं स्थलमस्ति । स्वातन्त्र्यानन्तरम्म् प्रतिवर्षम् आगस्टमासस्य १५ दिने प्रातः काले अत्र प्रवेशद्वारस्य उपरि स्थिते विशेषस्थले भारतस्य प्रधानमन्त्री ध्वजारोहणं कृत्वा जनान् सम्बोधयति । शुभाशयं च यच्छति । ===फेरी क्वीन्=== फेरिक्वीन् – हेरिटेज् धूमशकटम् देहलीनगरे स्थितः राष्ट्रियधूमशकटसङ्ग्रहालयः अवश्यं दर्शनीयः अस्ति । अत्र फेरिक्वीन् धूमशकटः १४२ वर्षप्राचीनः अस्ति । अस्य चालनयन्त्रं बाष्पेन चालनीयम् अस्ति । अस्य प्रकोष्ठाः वायुनियन्त्रिताः उत्तमासनयुक्ताः च सन्ति । अन्तस्तात् प्रकृतिदर्शनम् अतीव सुन्दरं भवति ।अन्तः सुन्दरतया अलङ्कृताः विभागाः सन्ति । अस्य वेगः प्रतिघण्टं ४० कि.मी. अस्ति । अस्य गिन्निस् पुस्तके नाम प्रवेशः जातः अस्ति । राष्ट्रियप्रवासनिगमस्य पारितोषकमपि प्राप्तम् अस्ति । एकदा एतत् यानं [[कर्णाटकम्]] आगतम् आसीत् । मेहरौली, [[कुतुब् मिनार्]] समीपे एतस्य स्थानम् अस्ति। ===जन्तर् मन्तर् (ग्रहतारावीक्षणालयः)=== देहलीनगरे जयपूरस्य राजामिर्जाराजेन जयसिंहेन निर्मितः ग्रहतारावीक्षणालयः १६ शतके स्थापितः अस्ति । अत्र सूर्यचक्रम् अथवा साम्राट् यन्त्रम् अतीव गमनार्हम् अस्ति । ===संसद् भवनम्=== संसत् भवनम् वृत्ताकारम् श्रेष्ठभवनमस्ति । अत्र भारतसर्वकारस्य लोकसभाराज्यसभेत्यादि प्रशासनिकसभास्थलानि सन्ति । एतत् क्रिस्ताब्दे १९२७ तमे वर्षे निर्मितम् अस्ति । अस्य भवनस्य व्यासः १७२ मीटर् अस्ति । ===इतरदर्शनीयानि स्थानानि=== देहलीनगरे अनेक मुस्लिमराजानां स्मारकाणि सन्ति । तत्र मोगलशैलीयवास्तुशिल्पानि रचितानि सन्ति । लोदीवंशीयानां स्मारकाणि , मोगलवंशीयानां स्मारकाणि च विशाले प्राङ्गणे सन्ति । शेरषहमहोदयेन निर्मितं दुर्गं पर्वतप्रदेशे अस्ति । एतत् पुरानाकिला इत्यपि कथयन्ति । अत्र समीपे क्श्चन मृगालयः अस्ति । अत्र धूसरभल्लूकाः श्वेततव्याघ्रः, श्वेतमयूरः, एमु , इत्यादीनि प्राणिसङ्कुलानि सन्ति । राजघाट् प्रदेशे विशाले उद्याने [[महात्मा गान्धिः]] [[जवाहरलालनेहरुः]] [[लालबहादुरशास्त्री]] श्रीमती [[इन्दिरागान्धिः]] इत्येतेषां स्मारकाणि सन्ति । बिर्लामन्दिरम् इति स्यातं श्रीलक्ष्मीनारायणमन्दिरम् अतीव सुन्दरम् कलायुक्तं चास्ति । अक्षरधामदेवालयसङ्कीर्णम् अतीव सुन्दरम् अस्ति । अत्र सायङ्काले दीपालङ्कारयुक्तः जलोत्सवः विशेषतया द्रष्टव्यः अस्ति । देहलीनगरे बोटक्ललब्, लोधी-उद्यानं, रोषनारा-उद्यानं, नेहरु-उद्यानं, डीरपार्क्, बुद्धजयन्ती पार्क् इत्यादीनि सुन्दराणि उद्यानानि सन्ति । देहलीनगरे अनेके वस्तुसङ्ग्रहालयाः सन्ति । तेषु क्राफट् म्यूसियम् , न्याशनल् म्यूसियम् , नेहरूस्मारक म्यूसियं, रेड् फोर्ट् म्यूसियम् इत्यादीनि प्रसिद्धानि सन्ति । यमुनातीरे परिविस्तृता देहली दशाधिकक्रोशमितभूभागम् आक्रम्य अवतिष्ठते । क्रिस्तपूर्वप्रथमशतकस्य मौर्याधिपेन छिलिना छिल्लीति नामाङ्कितेयं नगरी तदनन्तरं दिल्ली बभूव । नगरीयं पुराणनवोपभागाभ्यां द्विधा विभक्ता । देहलीनगर्याः नासिकाभरणमिव चान्दनीचौकस्थानम् अत्र विराजते । पत्तनेऽस्मिन् [[रक्तदुर्गम्|रक्तदुर्गं]], [[कुतुब् मिनार्]], जन्तर्-मन्तर्, इण्डियागेट, लक्ष्मीनारायणमन्दिरं , तीनमूर्तिभवनं, विज्ञानभवनं, मुगलवास्तुशिल्पम् अनुसृत्य विरचितानि भवनानि चेत्यसङ्ख्यानि प्रेक्षणीयस्थानानि सुशोभन्ते । सर्वेषु प्रेक्षणीयेषु स्थानेषु बिर्लामन्दिरमिति ख्यातं लक्ष्मीनारायणमन्दिरं विशेषतया उल्लेखनीयम् । यतः मन्दिरमिदं भारतीयचरित्रं संस्कृतिञ्च प्रकटयति तथा भृशं विस्मयमपि जनयति । दिल्ल्यामेव भारतदेशस्य जीवननिरूपकं संसद्भवनम् अस्ति । अत्रैव उच्चतमन्यायप्रदाता अत्युच्चन्यायालयो वर्तते । सर्वप्रधानपदमलङ्कृतवान् राष्ट्रपतिः देहल्याम् एव विराजते । अतः देहली भारतस्य हृदयमेव । देहलीमहानगरस्य विस्तीर्णं १५०० चतुरस्रकिलोमीटर् अस्ति । अत्र वाताव रणम् अत्यन्तं विचित्रम् अस्ति । एप्रिल-मे-जूनमासेषु अतीवोष्णता, नवम्बर् डिसेम्बरजनवरीमासेषु अतीव शैत्यं भवति। [[भारतम्|भारतस्य]] सर्वराज्यानां राजधानीभ्यः वहनसम्पर्कः, धूमशकटयानसम्पर्कः, विमानसम्पर्कः च सन्ति । ; दर्शनीयस्थानानि - ==[[भारतम्|भारतस्य]] राजधानी== [[भारतम्|भारतदेशस्य]] महानगरेषु [[देहली]]नगरम् अन्यतमम् । प्राचीनकालादपि [[देहली]] [[भारतम्|भारतस्य]] राजधानी अस्ति । अस्य सहस्रवर्षाणाम् इतिहासः अस्ति । अनेकसाम्राज्यानां राजवंशीयाना च राजधानीति अपि आसीत् । हिन्दुमुसलमानमोगलेत्यदयः वंशीयाः अत्र प्रशासनम् अकुर्वन् । आङ्ग्लाः अपि सा.श.१९११ तले काले देहलीनगरं राजधानीं कृत्वा सा.श.१९४७ पर्यन्तं प्रशासनम् अकुर्वन् । स्वातन्त्र्यप्राप्तेः अनन्तरकाले अद्यापि [[देहली]] देशस्य राजधानी अस्ति । [[देहली]] गङ्गासमतलप्रदेशाना महाद्वारयिवास्ति । राजनीतिकेन्द्रं व्यापारीकेन्द्रं प्रशासनिककेन्द्रं च । अत्र अनेक वास्तुशिल्पान्वितभवनानि सा.श.१९३०तमसमये निर्मितानि सन्ति । सट् एड्विन् लुटिन्स् भव्यशिल्पानां रचनकारः आसीत् । ==राष्ट्रपतिभवनम्ः== राष्ट्रपतिभवनं [[भारतम्|भारतदेशस्य]] राष्ट्रपतेः अधिकृतः निवासः । एतद्भवनं सा.श.१९२९तमे वर्षे निर्मितम् । १३०हेक्टर् प्रदेशे व्याप्तं राष्ट्रपतिभवनं परितः ‘मोगल् गार्डन्’ इति ख्यातम् उद्यानवम् अस्ति । अतीवसुन्दरे अस्मिन् उद्याने सामान्यजनानां प्रवेशावकाशः कदाचित् एव भवति । राष्ट्रपतिभवने ३४० प्रकोष्ठानि सन्ति । मध्ये स्तूपः इव १७७ पादपरिमोतोन्नतः भव्यः वृत्तच्छदः अस्ति । भवने चत्वारः भागाः सन्ति । दर्बारहाल्, वाचनालयः, सभाभवनं, स्नानगृहं, भोजनगृहम् इत्यादयः भागः सम्यक् रूप्तिताः । मोगल् गार्डन् इति प्रसिद्धम् उद्यानं मूगतः स्वर्गः इति प्रसिद्धम् । गुलाबी सस्याना १०० प्रभेदाः अत्र द्रृष्टुं मिलन्ति । अनेन साकं बोगन्विल्ला, डेलिया, हैसिन्त्, हेलिगोनिया, डापोडिल्स्, आर्किड्, स्वीट्विचियं, मेर्रीगोल्ड्, जपाकुसुमं, इत्यादीनि अपूर्वाणि कुसुमसस्यानि सन्ति । एतानि मरिषस्, पेट्, ब्रेसिल्, ईशान्यराज्यानि, हैदराबाद्, कोच्चिन्, इत्यादिभ्यः प्रदेशेभ्यः अनितानी । अत्र मयूराः बकाः मृगाः कदम्बाः इतस्ततः सञ्चरन्ति । जलोत्साः सन्ति । दीपलङ्कारः उत्तम तया निर्मिता अस्ति । सायङ्काले दीपलङ्कारो उद्यानवनसौन्दर्य अतिव चेतोहारी भवति । अस्य भव्योद्यानस्य निर्माणे अनेके पूर्वराष्ट्रपतयः कार्मकराः अधिकारिणः अनेकवर्षपर्यन्त कार्यम् अकुर्वन् । ४२८ जनाः उद्यानरक्षकाः वाटिकानिर्वाहकाः अत्र कार्यं कुर्वन्ति । फेब्रवरीमार्चमासयोः सार्वजनिकानां प्रवेशावक्यशः अस्ति । ==[[कुतुब् मिनार्]] (विजयस्मारकम्)== [[देहली]] नगरे स्थितः [[कुतुब् मिनार्]] [[विजयस्तम्भः]] [[भरतम्|भारतदेशे]] एव अत्युन्नतः इति विख्यातः। पूर्वम् अयं पृथ्वीस्तम्भः इति प्रसिद्धः आसीत् | राजा [[पृथ्वीराज चौहाणः]] अस्य निर्माता । हिन्दुशिल्पशैल्या अयं स्तम्भः रचितः । सा.श.१२००तमसमये देहलीप्रशासकः कुत्बुद्दीन ऐबक् इति कश्चित् आफ्घन् शिशिल्पस्य कतिपयांशान् समायोज्य परिवर्तितवान् । इदानीं गोपुरस्तम्भः एषः १३८ पादपरिमितोन्नतः सप्तस्तरीयः अस्ति । आरोहर्थं ३७९ सोपाननी सन्ति । अस्य परिधिः मूले ४७ पादपरिमितः , शिखरभागे ९ पादपरिमितः च अस्ति । प्रतिस्तरतः अपि बहिर्वीक्षणार्थं प्रासादाः सन्ति । द्वारेषु शिलाभिलेखाः सन्ति । ==मेहरालिौली अयस्स्तम्भः== [[कुतुब् मीनार्]] इत्य्स्य प्राङ्गणे कश्चित् ऐतिहासिकः स्तम्भः अस्ति यं द्रृष्ट्वा प्रासिनः विस्मिताः भवन्ति । अयसः एषः चतुर्थशतके राजाचन्द्रवर्मणा निर्मितः। स्कन्धगुप्तराजस्य कालिकः एषः शिल्पविशेषः अधुनापि अयस्किट्टरहितः सूर्यप्रकाशेन विराजते । अत्र स्तम्भे संस्कृतश्लोकाः लिखिताः सन्ति । एषः स्तम्भः स्थिरः दृढः गोलिकाप्रहारेणापि न शैथिल्यम् आप्नोत् । स्तम्भनिर्माणकौशलं दृष्ट्वा तत्कालीनं लोहकार्यनैपुण्यं ज्ञातुं चर्चितुं च शक्यते । कन्निङ्ग् ह्याम् इत्यस्य वचनानुगुणं एषः स्तम्भः अतीव विस्मयकारी लोहविद्यादर्शकः निर्माणं कुतूहलकारकं च अस्ति । ⏎ ⏎ ==फेरिक्वीन् परम्पराधूमशकटम्== देहलीनगरे स्थितः राष्ट्रीयधूमशकटसङ्ग्रहालयः अवश्यं दर्शनीयः अस्ति । अत्र फेरिक्वीन् धूमशकटं १४२ वर्ष प्राचीनम् अस्ति । अस्य चलनं जलबाष्पेन भवति । अस्य निशकटाः वायुनियन्त्रिताः उत्तमासनयुक्ताः सन्ति । अन्ततः प्रकृतिदर्शनम् अतीव आह्लादकरं भवति । अन्तः सुन्दरतया अलङ्कृताः निशकटाः सन्ति । अस्य वेगः ४० कि.मी. प्रतिघण्टास्ति । अस्य गिन्निस् पुस्तके नाम योजितम् अस्ति । राष्ट्रीयप्रवासनिगमस्य पारितोषकमपि लब्धमस्ति । सा.श.२००८तमवर्षे एतत् धूमशकटयानं मैसूरुदसराकाले [[कर्णाटकम्|कर्णाटके]] अपि नञ्जनगूडु-मैसूरुमध्ये सञ्चारितम् । ==रक्तदुर्गः == देहलीनगरे स्थितः रक्तदुर्गः रक्तवालुकाशिलाभिः निर्मितः शिल्पविशेषः अस्ति। अस्य दीर्घता २ कि.मी. अस्ति । उन्नतिः भिन्ना भिन्ना अस्ति । नद्याः समीपे अस्य अस्य उन्नतिः २८ मीटर्, नगरभागे ३३ मीटर् च अस्ति । अयं दुर्गः सा.श.१६३८ तमे वर्षे निर्मितः । देहली चक्रवर्ती [[षाहजहान्]] आरम्भं कृतवान् । सा.श. १६४८ तमे वर्षे निर्माणकार्यं समाप्तम् अभवत् । लाहोर् महाद्वारतः अस्य प्रवेशः । अत्र दिवान् आम् , दिवानी खान्,मोति मसीदि, रङ्गमहल् इत्यादीनि सन्ति । प्रतिदिनं सायङ्काले ध्वनिप्रकाशप्रदर्शनं (Sound and light show) आङ्गलहिन्दिभाषयोः व्याख्यानसहितं भवति । अन्तः आपणाना पाङ्क्तिः अस्ति । हस्तशिल्पवस्तूनि अत्र क्रेतुं शक्नुवन्ति । दिवान् ३ खास् स्वकीय स्थानमासीत् । खास् महल् चक्रवर्तिनां निवासः रङ्गमहल् राज्ञीना वासस्थान दिवानि आ दर्बार सभाङ्गणमासीत् । अत्र उष्णजल शीतजल स्नानगृहणि सन्ति । शीशमहल् प्रेक्षणी- यमस्ति । मोगल शैली शिल्पदर्शनाय एतदुत्तम स्थलमस्ति । स्वातन्त्र्यानन्तर प्रतिवर्ष अगस्ट मासस्य १५ दिने प्रातः काले अत्र प्रवेशद्वारस्य उपरिस्थिते विशेषस्थले भारतस्य प्रधानमन्त्रि ध्वजारोहजं कृत्वा जनान् सम्भोधयति । शुभाशय च यच्छुति । ==जन्तरमन्तरम्== देहलीनगरे जयपूरराजा जयसिंहेन् निर्मितः ग्रहताराचलनस्य वीक्षणालयः १६तमशके स्थापितम् अस्ति । अत्र सूर्यचन्द्रयन्त्रम् अथवा साम्राट्यन्त्रम् अतीव विशिष्टम् अस्ति । ==अन्यदर्शनीयस्थानानि== वृत्ताकारेस्थितं राजनीतिगृहं संसद्भवनम् अस्ति । अत्र [[भारतसर्वकारः|भारतसर्वकारस्य]] लोकसभा राज्यसभेत्याद्याः प्रशाशसनिकसभाः प्रचलन्ति । एतत् सा.श.१९२७ तमे वर्षे निर्मितम् । अस्य भवनस्य व्यासः १७२ मी. अस्ति । देहलीनगरे अनेकाः यवनराजानां समाधयः सन्ति । तत्र मोगलशैलीय वास्तुशिल्पानि रचितानि सन्ति । लोदीजनानां समाधयः, मोगलवंशीयानां समाधयः च विशाले प्राङ्गणे सन्ति । समीपे एव कश्चन मृगालयः अस्ति । अत्र धूसरभल्लूकाः खेतव्याघ्रः श्वेतमयूरः एमु, इत्यादयः खगमृगसङ्कुलानि सन्ति । राजघाट् प्रदेशे विशाले उद्याने [[महात्मा गान्धिः]], जवाहरलालनेह्रू [[लालबहदूर शास्त्री]] [[इन्दिरा गान्धिः]] इत्यादीनां समाधयः सन्ति । बिर्लामन्दिरम् इति श्रीलक्ष्मीनारायणमन्दिरम् अतीव सुन्दरं सकलं चास्ति । अक्षरधा स्थले देवालय सङ्कीर्णम अतीव सुन्दर अस्ति । अत्र सायंकाले जलोत्सः दीपालङ्कारयुक्तः चित्ताकर्षकं भवति । देहलीनगरे बोटवलब् लोध्युद्यानं रोषनावोद्यानं कुट्टसियोद्यानं तलटकोद्यानं नेह्रूद्यानं डीरपार्क् बुद्धजयत्न्युद्यानम् इत्यादीनि सुन्दराणि उद्यनवनानि सन्ति । देहलीनगरे बहवः वस्तुसङ्ग्रहालयाः सन्ति । तेषु क्राफट् वस्तुसङ्ग्रहालयः, न्याशनल्, नेह्रूस्मारकः, रेड्पोर्ट्, इत्यादयः सङ्ग्रहालयाः प्रसिद्धाः । ==नगरेतिहासः== देहली नगर विश्वे एव प्राचीन नगरेष्वेकं अस्ति । पूर्व हिन्दुराजा अनङ्गपालः क्रिस्ताब्दे १०६० समेय ‘लालकोट्’ निर्मितवान् । पृथ्वीराजचह्वण महोदयः अभिवृद्धि कार्य कृतवान् । अनन्तर कुतुब्हीन् ऐबक् कुतुब् मीनार शिल्पं कारितवान् । मोगलवंशीयः बाबरः अत्रैव साम्राज्य आरब्धवान् । आङ्गलाः क्रिस्ताब्दे १९११ तमे वर्षे देहली नगर राजधानी कृत्वा प्रशासन आरब्धवन्तः । पूर्वं पुराजानुसार कौरवाः हस्तिनावति नगरे प्राचीनदिल्लीभागः , पाण्डवाः इन्द्रप्रस्थ नगरे पुरा- नकिल्प भागे प्रशासन कृतवन्तः । देहली महानगरस्य विस्तीर्णं ५०० व.कि.मी. अस्ति । अत्र वातावरणम् अत्यन्तं विचित्रम् एप्रिल् मे जून् च मासेषु अतीवोष्णं नवम्बर् डिसेम्बर जनवरी च मासेषु अतीव शैत्यं भवति । [[भारतम्|भारतस्य]] सर्वराज्यानां राजधानिभिः वाहनसम्पर्कः धूमशकटयानस्य सम्पर्कः विमानस्य सम्पर्कः च सन्ति । मार्गः अहंमदाबादतः ८६ कि.मी. । [[आग्रा]]तः २०० कि.मी. । [[मुबै]]तः १४००कि.मी.। [[जयपूरम्|जयपुरतः ३६१ कि.मी. । [[शिम्ला]]तः ३६८ कि.मी. । जम्मूतः ५८६ कि.मी. । [[चेन्नै]]तः १२५७ कि.मी. । [[बेङ्गळूरु]]तः २०१९ कि.मी. । [[हैदराबाद]]तः २४५३ कि.मी. । [[तिरुवनन्तपुरम्|तः]] १७८० कि.मी । ==वीथिका== <gallery> चित्रम्:Qutab Minar mausoleum.jpg|कुतुब् मिनार् चित्रम्:Delhi India Gate.jpg|इण्डिया गेट् चित्रम्:RedFort.jpg|रक्तदुर्गम् चित्रम्:Edificios ministeriales Delhi.JPG|राष्ट्रपतिभवनम् </gallery> [[वर्गः: राजधान्यः]] [[वर्गः:भारतस्य नगराणि]] [[वर्गः: भारतस्य राज्यानि]] [[af:Delhi]] [[an:Delhi]] [[ar:دلهي]] [[arz:ديلهى]] [[as:দিল্লী]] [[az:Dehli]] [[ba:Дели]] [[be:Горад Дэлі]] [[be-x-old:Дэлі]] [[bg:Делхи]] [[bh:नई दिल्ली]] [[bi:Delhi]] [[bn:দিল্লি]] [[bpy:দিল্লী]] [[br:Delhi]] [[bs:Delhi]] [[ca:Delhi]] [[ckb:دێھلی]] [[cs:Dillí]] [[da:Delhi]] [[de:Delhi]] [[dv:ދިއްލީ]] [[el:Δελχί]] [[en:Delhi]] [[eo:Delhio]] [[es:Delhi]] [[et:Delhi]] [[eu:Delhi]] [[ext:Delhi]] [[fa:دهلی]] [[fi:Delhi]] [[fr:Delhi]] [[ga:Delhi]] [[gan:德里]] [[gd:Delhi]] [[gl:Delhi - दिल्ली]] [[gu:દિલ્હી]] [[he:דלהי]] [[hi:दिल्ली]] [[hr:Delhi (grad)]] [[hu:Delhi]] [[hy:Դելի]] [[ilo:Delhi]] [[is:Delí]] [[it:Delhi]] [[ja:デリー]] [[ka:დელი]] [[kk:Дели]] [[kl:Delhi]] [[kn:ದೆಹಲಿ]] [[ko:델리]] [[ks:دلھی]] [[ku:Delhî]] [[kw:Delhi]] [[la:Dellium]] [[lt:Delis]] [[lv:Deli]] [[mg:Faritan'i Delhi]] [[mhr:Дели]] [[mi:Delhi]] [[ml:ഡെൽഹി]] [[mn:Дели]] [[mr:दिल्ली]] [[ms:Delhi]] [[nds:Delhi]] [[ne:दिल्ली]] [[new:दिल्ली]] [[nl:Delhi (stad)]] [[nn:Delhi]] [[no:Delhi]] [[oc:Delhi]] [[or:ଦିଲ୍ଲୀ]] [[os:Дели]] [[pa:ਦਿੱਲੀ]] [[pam:Delhi]] [[pl:Delhi]] [[pnb:دلی]] [[ps:ډېلي]] [[pt:Deli]] [[qu:Dilhi]] [[ro:Delhi]] [[roa-tara:Delhi]] [[ru:Дели]] [[rue:Делі]] [[sah:Дели]] [[sco:Delhi]] [[sd:دهلي]] [[se:Delhi]] [[sh:Delhi]] [[simple:Delhi]] [[sk:Dillí]] [[sl:Delhi]] [[sr:Делхи]] [[sv:Delhi]] [[sw:Delhi]] [[ta:தில்லி]] [[te:ఢిల్లీ]] [[tg:Деҳли]] [[th:เดลี]] [[tk:Deli]] [[tl:Delhi]] [[tr:Delhi]] [[ug:Déhli]] [[uk:Делі]] [[ur:دلی]] [[vi:Delhi]] [[vo:Delhi]] [[war:Delhi]] [[yi:דעלהי]] [[yo:Delhi]] [[zh:德里]] [[zh-min-nan:Delhi]] [[zh-yue:德里]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sa.wikipedia.org/w/index.php?diff=prev&oldid=216968.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|