Difference between revisions 250119 and 253215 on sawiki<poem> '''स्थूलाक्षरैः युक्तः भागः'''||'''विवेकचूडामणिः''' (Vivekachudamani) ( शङ्कराचार्यविरचितः) || सर्ववेदान्तसिद्धान्तगोचरं तमगोचरम् | गोविन्दं परमानन्दं सद्गुरुं प्रणतोऽस्म्यहम् ||१|| जन्तूनां नरजन्म दुर्लभमतः पुंस्त्वं ततो विप्रता तस्माद्वैदिकधर्ममार्गपरता विद्वत्त्वमस्मात्परम् | आत्मानात्मविवेचनं स्वनुभवो ब्रह्मात्मना संस्थितिः मुक्तिर्नो शतजन्मकोटिसुकृतैः पुण्यैर्विना लभ्यते ||२|| दुर्लभं त्रयमेवैतद्देवानुग्रहहेतुकम् | मनुष्यत्वं मुमुक्षुत्वं महापुरुषसंश्रयः ||३|| लब्ध्वा कथचिन्नरजन्म दुर्लभं तत्रापि पुंस्त्वं श्रुतिपारदर्शनम् | यस्त्वात्ममुक्तौ न यतेत मूढधीः स ह्यात्महा स्वं विनिहन्त्यसद्ग्रहात् ||४|| इतः को न्वस्ति मूढात्मा यस्तु स्वार्थे प्रमाद्यति | दुर्लभं मानुषं देहं प्राप्य तत्रापि पौरुषम् ||५|| वदन्तु शास्त्राणि यजन्तु देवान् कुर्वन्तु कर्माणि भजन्तु देवताः | आत्मैक्यबोधेन विनापि मुक्तिः न सिध्यति ब्रह्मशतान्तरेऽपि ||६|| अमृतत्वस्य नाशास्ति वित्तेनेत्येव हि श्रुतिः | ब्रवीति कर्मणो मुक्तेरहेतुत्वं स्फुटं यतः ||७|| अतो विमुक्त्यै प्रयतेत् विद्वान् संन्यस्तबाह्यार्थसुखस्पृहः सन् | सन्तं महान्तं समुपेत्य देशिकं तेनोपदिष्टार्थसमाहितात्मा ||८|| उद्धरेदात्मनात्मानं मग्नं संसारवारिधौ | योगारूढत्वमासाद्य सम्यग्दर्शननिष्ठया ||९|| संन्यस्य सर्वकर्माणि भवबन्धविमुक्तये | यत्यतां पण्डितैर्धीरैरात्माभ्यास उपस्थितैः ||१०|| चित्तस्य शुद्धये कर्म न तु वस्तूपलब्धये | वस्तुसिद्धिर्विचारेण न किंचित्कर्मकोटिभिः ||११|| सम्यग्विचारतः सिद्धा रज्जुतत्त्वावधारणा | भ्रान्तोदितमहासर्पभयदुःखविनाशिनी ||१२|| अर्थस्य निश्चयो दृष्टो विचारेण हितोक्तितः | न स्नानेन न दानेन प्राणायमशतेन वा ||१३|| अधिकारिणमाशास्ते फलसिद्धिर्विशेषतः | उपाया देशकालाद्याः सन्त्यस्मिन्सहकारिणः ||१४|| अतो विचारः कर्तव्यो जिज्ञासोरात्मवस्तुनः || समासाद्य दयासिन्धुं गुरुं ब्रह्मविदुत्तमम् ||१५|| मेधावी पुरुषो विद्वानुहापोहविचक्षणः | अधिकार्यात्मविद्यायामुक्तलक्षणलक्षितः ||१६|| विवेकिनो विरक्तस्य शमादिगुणशालिनः | मुमुक्षोरेव हि ब्रह्मजिज्ञासायोग्यता मता ||१७|| साधनान्यत्र चत्वारि कथितानि मनीषिभिः | येषु सत्स्वेव सन्निष्ठा यदभावे न सिध्यति ||१८|| आदौ नित्यानित्यवस्तुविवेकः परिगण्यते | इहामुत्रफलभोगविरागस्तदनन्तरम् | शमादिषट्कसम्पत्तिर्मुमुक्षुत्वमिति स्फुटम् ||१९|| ब्रह्म सत्यं जगन्मिथ्येत्येवंरूपो विनिश्चयः | सोऽयं नित्यानित्यवस्तुविवेकः समुदाहृतः ||२०|| तद्वैराग्यं जिहासा या दर्शनश्रवणादिभिः | देहादिब्रह्मपर्यन्ते ह्यनित्ये भोगवस्तुनि ||२१|| विरज्य विषयव्राताद्दोषदृष्ट्या मुहुर्मुहुः | स्वलक्ष्ये नियतावस्था मनसः शम उच्यते ||२२|| विषयेभ्यः परावर्त्य स्थापनं स्वस्वगोलके | उभयेषामिन्द्रियाणां स दमः परिकीर्तितः | बाह्यानालम्बनं वृत्तेरेषोपरतिरुत्तमा ||२३|| सहनं सर्वदुःखानामप्रतीकारपूर्वकम् | चिन्ताविलापरहितं सा तितिक्षा निगद्यते ||२४|| शास्त्रस्य गुरुवाक्यस्य सत्यबुद्ध्यवधारणम् | सा श्रद्धा कथिता सद्भिर्यया वस्तूपलभ्यते ||२५|| सर्वदा स्थापनं बुद्धेः शुद्धे ब्रह्मणि सर्वदा | तत्समाधानमित्युक्तं न तु चित्तस्य लालनम् ||२६|| अहंकारादिदेहान्तान् बन्धानज्ञानकल्पितान् | स्वस्वरूपावबोधेन मोक्तुमिच्छा मुमुक्षुता ||२७|| मन्दमध्यमरूपापि वैराग्येण शमादिना | प्रसादेन गुरोः सेयं प्रवृद्धा सूयते फलम् ||२८|| वैराग्यं च मुमुक्षुत्वं तीव्रं यस्य तु विद्यते | तस्मिन्नेवार्थवन्तः स्युः फलवन्तः शमादयः ||२९|| एतयोर्मन्दता यत्र विरक्तत्वमुमुक्षयोः | मरौ सलीलवत्तत्र शमादेर्भानमात्रता ||३०|| मोक्षकारणसामग्र्यां भक्तिरेव गरीयसी | स्वस्वरूपानुसन्धानं भक्तिरित्यभिधीयते ||३१|| स्वात्मतत्त्वानुसन्धानं भक्तिरित्यपरे जगुः | उक्तसाधनसंपन्नस्तत्त्वजिज्ञासुरात्मनः | उपसीदेद्गुरुं प्राज्ञ्यं यस्माद्बन्धविमोक्षणम् ||३२|| श्रोत्रियोऽवृजिनोऽकामहतो यो ब्रह्मवित्तमः | ब्रह्मण्युपरतः शान्तो निरिन्धन इवानलः | अहेतुकदयासिन्धुर्बन्धुरानमतां सताम् ||३३|| तमाराध्य गुरुं भक्त्या प्रह्वप्रश्रयसेवनैः | प्रसन्नं तमनुप्राप्य पृच्छेज्ज्ञातव्यमात्मनः ||३४|| स्वामिन्नमस्ते नतलोकबन्धो कारुण्यसिन्धो पतितं भवाब्धौ | मामुद्धरात्मीयकटाक्षदृष्ट्या ऋज्व्यातिकारुण्यसुधाभिवृष्ट्या ||३५|| दुर्वारसंसारदवाग्नितप्तं दोधूयमानं दुरदृष्टवातैः | भीतं प्रपन्नं परिपाहि मृत्योः शरण्यमन्यद्यदहं न जाने ||३६|| शान्ता महान्तो निवसन्ति सन्तो वसन्तवल्लोकहितं चरन्तः | तीर्णाः स्वयं भीमभवार्णवं जना- नहेतुनान्यानपि तारयन्तः ||३७|| अयं स्वभावः स्वत एव यत्पर- श्रमापनोदप्रवणं महात्मनाम् | सुधांशुरेष स्वयमर्ककर्कश- प्रभाभितप्तामवति क्षितिं किल ||३८|| ब्रह्मानन्दरसानुभूतिकलितैः पूर्तैः सुशीतैर्युतैः युष्मद्वाक्कलशोज्झितैः श्रुतिसुखैर्वाक्यामृतैः सेचय | संतप्तं भवतापदावदहनज्वालाभिरेनं प्रभो धन्यास्ते भवदीक्षणक्षणगतेः पात्रीकृताः स्वीकृताः ||३९|| कथं तरेयं भवसिन्धुमेतं का वा गतिर्मे कतमोऽस्त्युपायः | जाने न किञ्चित्कृपयाऽव मां प्रभो संसारदुःखक्षतिमातनुष्व ||४०|| तथा वदन्तं शरणागतं स्वं संसारदावानलतापतप्तम् | निरीक्ष्य कारुण्यरसार्द्रदृष्ट्या दद्यादभीतिं सहसा महात्मा ||४१|| विद्वान् स तस्मा उपसत्तिमीयुषे मुमुक्षवे साधु यथोक्तकारिणे | प्रशान्तचित्ताय शमान्विताय तत्त्वोपदेशं कृपयैव कुर्यात् ||४२|| मा भैष्ट विद्वंस्तव नास्त्यपायः संसारसिन्धोस्तरणेऽस्त्युपायः | येनैव याता यतयोऽस्य पारं तमेव मार्गं तव निर्दिशामि ||४३|| अस्त्युपायो महान्कश्चित्संसारभयनाशनः | तेन तीर्त्वा भवाम्भोधिं परमानन्दमाप्स्यसि ||४४|| वेदान्तार्थविचारेण जायते ज्ञानमुत्तमम् | तेनात्यन्तिकसंसारदुःखनाशो भवत्यनु ||४५|| श्रद्धाभक्तिध्यानयोगाम्मुमुक्षोः मुक्तेर्हेतून्वक्ति साक्षाच्छ्रुतेर्गीः | यो वा एतेष्वेव तिष्ठत्यमुष्य मोक्षोऽविद्याकल्पिताद्देहबन्धात् ||४६|| अज्ञानयोगात्परमात्मनस्तव ह्यनात्मबन्धस्तत एव संसृतिः | तयोर्विवेकोदितबोधवह्निः अज्ञानकार्यं प्रदहेत्समूलम् ||४७|| शिष्य उवाच | कृपया श्रूयतां स्वामिन्प्रश्नोऽयं क्रियते मया | यदुत्तरमहं श्रुत्वा कृतार्थः स्यां भवन्मुखात् ||४८|| को नाम बन्धः कथमेष आगतः कथं प्रतिष्ठास्य कथं विमोक्षः | कोऽसावनात्मा परमः क आत्मा तयोर्विवेकः कथमेतदुच्यताम् ||४९|| श्रीगुरुवाच | धन्योऽसि कृतकृत्योऽसि पावित ते कुलं त्वया | यदविद्याबन्धमुक्त्या ब्रह्मीभवितुमिच्छसि ||५०|| ऋणमोचनकर्तारः पितुः सन्ति सुतादयः | बन्धमोचनकर्ता तु स्वस्मादन्यो न कश्चन ||५१|| मस्तकन्यस्तभारादेर्दुःखमन्यैर्निवार्यते | क्षुधादिकृतदुःखं तु विना स्वेन न केनचित् ||५२|| पथ्यमौषधसेवा च क्रियते येन रोगिणा | आरोग्यसिद्धिर्दृष्टाऽस्य नान्यानुष्ठितकर्मणा ||५३|| वस्तुस्वरूपं स्फुटबोधचक्षुषा स्वेनैव वेद्यं न तु पण्डितेन | चन्द्रस्वरूपं निजचक्षुषैव ज्ञातव्यमन्यैरवगम्यते किम् ||५४|| अविद्याकामकर्मादिपाशबन्धं विमोचितुम् | कः शक्नुयाद्विनात्मानं कल्पकोटिशतैरपि ||५५|| न योगेन न सांख्येन कर्मणा नो न विद्यया | ब्रह्मात्मैकत्वबोधेन मोक्षः सिध्यति नान्यथा ||५६|| वीणाया रूपसौन्दर्यं तन्त्रीवादनसौष्ठवम् | प्रजारञ्जनमात्रं तन्न साम्राज्याय कल्पते ||५७|| वाग्वैखरी शब्दझरी शास्त्रव्याख्यानकौशलम् | वैदुष्यं विदुषां तद्वद्भुक्तये न तु मुक्तये ||५८|| अविज्ञाते परे तत्त्वे शास्त्राधीतिस्तु निष्फला | विज्ञातेऽपि परे तत्त्वे शास्त्राधीतिस्तु निष्फला ||५९|| शब्दजालं महारण्यं चित्तभ्रमणकारणम् | अतः प्रयत्नाज्ज्ञातव्यं तत्त्वज्ञैस्तत्त्वमात्मनः ||६०|| अज्ञानसर्पदष्टस्य ब्रह्मज्ञानौषधं विना | किमु वेदैश्च शास्त्रैश्च किमु मन्त्रैः किमौषधैः ||६१|| न गच्छति विना पानं व्याधिरौषधशब्दतः | विनाऽपरोक्षानुभवं ब्रह्मशब्दैर्न मुच्यते ||६२|| अकृत्वा दृश्यविलयमज्ञात्वा तत्त्वमात्मनः | ब्रह्मशब्दैः कुतो मुक्तिरुक्तिमात्रफलैर्नृणाम् ||६३|| अकृत्वा शत्रुसंहारमगत्वाखिलभूश्रियम् | राजाहमिति शब्दान्नो राजा भवितुमर्हति ||६४|| आप्तोक्तिं खननं तथोपरिशिलाद्युत्कर्षणं स्वीकृतिं निक्षेपः समपेक्षते नहि बहिः शब्दैस्तु निर्गच्छति | तद्वद्ब्रह्मविदोपदेशमननध्यानादिभिर्लभ्यते मायाकार्यतिरोहितं स्वममलं तत्त्वं न दुर्युक्तिभिः ||६५|| तस्मात्सर्वप्रयत्नेन भवबन्धविमुक्तये | स्वैरेव यत्नः कर्तव्यो रोगादाविव पण्डितैः ||६६|| यस्त्वयाद्य कृतः प्रश्नो वरीयाञ्छास्त्रविन्मतः | सूत्रप्रायो निगूढार्थो ज्ञातव्यश्च मुमुक्षुभिः ||६७|| शृणुष्वावहितो विद्वन्यन्मया समुदीर्यते | तदेतच्छ्रवणात्सद्यो भवबन्धाद्विमोक्ष्यसे ||६८|| मोक्षस्य हेतुः प्रथमो निगद्यते वैराग्यमत्यन्तमनित्यवस्तुषु | ततः शमश्चापि दमस्तितिक्षा न्यासः प्रसक्ताखिलकर्मणां भृशम् ||६९|| ततः शृतिस्तन्मननं सतत्त्व- ध्यानं चिरं नित्यनिरन्तरं मुनेः | ततोऽविकल्पं परमेत्य विद्वान् इहैव निर्वाणसुखं समृच्छति ||७०|| यद्बोद्धव्यं तवेदानीमात्मानात्मविवेचनम् | तदुच्यते मया सम्यक् श्रुत्वात्मन्यवधारय ||७१|| मज्जास्थिमेदःपलरक्तचर्म- त्वगाह्वयैर्धातुभिरेभिरन्वितम् | पादोरुवक्षोभुजपृष्ठमस्तकैः अङ्गैरुपाङ्गैरुपयुक्तमेतत् ||७२|| अहंममेतिप्रथितं शरीरं मोहास्पदं स्थूलमितीर्यते बुधैः | नभोनभस्वद्दहनाम्बुभूमयः सूक्ष्माणि भूतानि भवन्ति तानि ||७३|| परस्परांशैर्मिलितानि भूत्वा स्थूलानि च स्थूलशरीरहेतवः | मात्रास्तदीया विषया भवन्ति शब्दादयः पञ्च सुखाय भोक्तुः ||७४|| य एषु मूढा विषयेषु बद्धा रागोरुपाशेन सुदुर्दमेन | आयान्ति निर्यान्त्यध ऊर्ध्वमुच्चैः स्वकर्मदूतेन जवेन नीताः ||७५|| शब्दादिभिः पञ्चभिरेव पञ्च पञ्चत्वमापुः स्वगुणेन बद्धाः | कुरङ्गमातङ्गपतङ्गमीन- भृङ्गा नरः पञ्चभिरञ्चितः किम् ||७६|| दोषेण तीव्रो विषयः कृष्णसर्पविषादपि | विषं निहन्ति भोक्तारं द्रष्टारं चक्षुषाप्ययम् ||७७|| विषयाशामहापाशाद्यो विमुक्तः सुदुस्त्यजात् | स एव कल्पते मुक्त्यै नान्यः षट्शास्त्रवेद्यपि ||७८|| आपातवैराग्यवतो मुमुक्षून् भवाब्धिपारं प्रतियातुमुद्यतान् | आशाग्रहो मज्जयतेऽन्तराले निगृह्य कण्ठे विनिवर्त्य वेगात् ||७९|| विषयाख्यग्रहो येन सुविरक्त्यसिना हतः | स गच्छति भवाम्भोधेः पारं प्रत्यूहवर्जितः ||८०|| विषमविषयमार्गैर्गच्छतोऽनच्छबुद्धेः प्रतिपदमभियातो मृत्युरप्येष विद्धि | हितसुजनगुरूक्त्या गच्छतः स्वस्य युक्त्या प्रभवति फलसिद्धिः सत्यमित्येव विद्धि ||८१|| मोक्षस्य कांक्षा यदि वै तवास्ति त्यजातिदूराद्विषयान्विषं यथा | पीयूषवत्तोषदयाक्षमार्जव- प्रशान्तिदान्तीर्भज नित्यमादरात् ||८२|| अनुक्षणं यत्परिहृत्य कृत्यं अनाद्यविद्याकृतबन्धमोक्षणम् | देहः परार्थोऽयममुष्य पोषणे यः सज्जते स स्वमनेन हन्ति ||८३|| शरीरपोषणार्थी सन् य आत्मानं दिदृक्षति | ग्राहं दारुधिया धृत्वा नदि तर्तुं स गच्छति ||८४|| मोह एव महामृत्युर्मुमुक्षोर्वपुरादिषु | मोहो विनिर्जितो येन स मुक्तिपदमर्हति ||८५|| मोहं जहि महामृत्युं देहदारसुतादिषु | यं जित्वा मुनयो यान्ति तद्विष्णोः परमं पदम् ||८६|| त्वङ्मांसरुधिरस्नायुमेदोमज्जास्थिसंकुलम् | पूर्णं मूत्रपुरीषाभ्यां स्थूलं निन्द्यमिदं वपुः ||८७|| पञ्चीकृतेभ्यो भूतेभ्यः स्थूलेभ्यः पूर्वकर्मणा | समुत्पन्नमिदं स्थूलं भोगायतनमात्मनः | अवस्था जागरस्तस्य स्थूलार्थानुभवो यतः ||८८|| बाह्येन्द्रियैः स्थूलपदार्थसेवां स्रक्चन्दनस्त्र्यादिविचित्ररूपाम् | करोति जीवः स्वयमेतदात्मना तस्मात्प्रशस्तिर्वपुषोऽस्य जागरे ||८९|| सर्वाऽपि बाह्यसंसारः पुरुषस्य यदाश्रयः | विद्धि देहमिदं स्थूलं गृहवद्गृहमेधिनः ||९०|| स्थूलस्य सम्भवजरामरणानि धर्माः स्थौल्यादयो बहुविधाः शिशुताद्यवस्थाः | वर्णाश्रमादिनियमा बहुधाऽमयाः स्युः पूजावमानबहुमानमुखा विशेषाः ||९१|| बुद्धीन्द्रियाणि श्रवणं त्वगक्षि घ्राणं च जिव्हा विषयावबोधनात् | वाक्पाणिपादा गुदमप्युपस्थः कर्मेन्द्रियाणि प्रवणेन कर्मसु ||९२|| निगद्यतेऽन्तःकरणं मनोधीः अहंकृतिश्चित्तमिति स्ववृत्तिभिः | मनस्तु संकल्पविकल्पनादिभिः बुद्धिः पदार्थाध्यवसायधर्मतः ||९३|| अत्राभिमानादहमित्यहंकृतिः | स्वार्थानुसन्धानगुणेन चित्तम् ||९४|| प्राणापानव्यानोदानसमाना भवत्यसौ प्राणः | स्वयमेव वृत्तिभेदाद्विकृतिभेदात्सुवर्णसलिलादिवत् ||९५|| वागादि पञ्च श्रवणादि पञ्च प्राणादि पञ्चाभ्रमुखानि पञ्च | बुद्ध्याद्यविद्यापि च कामकर्मणी पुर्यष्टकं सूक्ष्मशरीरमाहुः ||९६|| इदं शरीरं शृणु सूक्ष्मसंज्ञितं लिङ्गं त्वपञ्चीकृतसम्भवम् | सवासनं कर्मफलानुभावकं स्वाज्ञानतोऽनादिरुपाधिरात्मनः ||९७|| स्वप्नो भवत्यस्य विभक्त्यवस्था स्वमात्रशेषेण विभाति यत्र | स्वप्ने तु बुद्धिः स्वयमेव जाग्रत् कालीननानाविधवासनाभिः ||९८|| कर्त्रादिभावं प्रतिपद्य राजते यत्र स्वयं भाति ह्ययं परात्मा | धीमात्रकोपाधिरशेषसाक्षी न लिप्यते तत्कृतकर्मलेशैः | यस्मादसङ्गस्तत एव कर्मभिः न लिप्यते किञ्चिदुपाधिना कृतैः ||९९|| सर्वव्यापृतिकरणं लिङ्गमिदं स्याच्चिदात्मनः पुंसः | वास्यादिकमिव तक्ष्णस्तेनैवात्मा भवत्यसङ्गोऽयम् ||१००|| अन्धत्वमन्दत्वपटुत्वधर्माः सौगुण्यवैगुण्यवशाद्धि चक्षुषः | बाधिर्यमूकत्वमुखास्तथैव श्रोत्रादिधर्मा न तु वेत्तुरात्मनः ||१०१|| उच्छ्वासनिःश्वासविजृम्भणक्षुत् प्रस्यन्दनाद्युत्क्रमणादिकाः क्रियाः | प्राणादिकर्माणि वदन्ति तज्ञाः प्राणस्य धर्मावशनापिपासे ||१०२|| अन्तःकरणमेतेषु चक्षुरादिषु वर्ष्मणि | अहमित्यभिमानेन तिष्ठत्याभासतेजसा ||१०३|| अहंकारः स विज्ञेयः कर्ता भोक्ताभिमान्ययम् | सत्त्वादिगुणयोगेन चावस्थात्रयमश्नुते ||१०४|| विषयाणामानुकूल्ये सुखी दुःखी विपर्यये | सुखं दुःखं च तद्धर्मः सदानन्दस्य नात्मनः ||१०५|| आत्मार्थत्वेन हि प्रेयान्विषयो न स्वतः प्रियः | स्वत एव हि सर्वेषामात्मा प्रियतमो यतः तत आत्मा सदानन्दो नास्य दुःखं कदाचन ||१०६|| यत्सुषुप्तौ निर्विषय आत्मानन्दोऽनुभूयते | श्रुतिः प्रत्यक्षमैतिह्यमनुमानं च जाग्रति ||१०७|| अव्यक्तनाम्नी परमेशशक्तिः अनाद्यविद्या त्रिगुणात्मिका परा | कार्यानुमेया सुधियैव माया यया जगत्सर्वमिदं प्रसूयते ||१०८|| सन्नाप्यसन्नाप्युभयात्मिका नो भिन्नाप्यभिन्नाप्युभयात्मिका नो | साङ्गाप्यनङ्गा ह्युभयात्मिका नो महाद्भुताऽनिर्वचनीयरूपा ||१०९|| शुद्धाद्वयब्रह्मविभोधनाश्या सर्पभ्रमो रज्जुविवेकतो यथा | रजस्तमःसत्त्वमिति प्रसिद्धा गुणास्तदीयाः प्रथितैः स्वकार्यैः ||११०|| विक्षेपशक्ती रजसः क्रियात्मिका यतः प्रवृत्तिः प्रसृता पुराणी | रागादयोऽस्याः प्रभवन्ति नित्यं दुःखादयो ये मनसो विकाराः ||१११|| कामः क्रोधो लोभदम्भाद्यसूया अहंकारेर्ष्यामत्सराद्यास्तु घोराः | धर्मा एते राजसाः पुम्प्रवृत्तिः यस्मादेषा तद्रजो बन्धहेतुः ||११२|| एषाऽऽवृतिर्नाम तमोगुणस्य शक्तिर्मया वस्त्ववभासतेऽन्यथा | सैषा निदानं पुरुषस्य संसृतेः विक्षेपशक्तेः प्रवणस्य हेतुः ||११३|| प्रज्ञावानपि पण्डितोऽपि चतुरोऽप्यत्यन्तसूक्ष्मात्मदृग्- व्यालीढस्तमसा न वेत्ति बहुधा संबोधितोऽपि स्फुटम् | भ्रान्त्यारोपितमेव साधु कलयत्यालम्बते तद्गुणान् हन्तासौ प्रबला दुरन्ततमसः शक्तिर्महत्यावृतिः ||११४|| अभावना वा विपरीतभावना असंभावना विप्रतिपत्तिरस्याः | संसर्गयुक्तं न विमुञ्चति ध्रुवं विक्षेपशक्तिः क्षपयत्यजस्रम् ||११५|| अज्ञानमालस्यजडत्वनिद्रा- प्रमादमूढत्वमुखास्तमोगुणाः | एतैः प्रयुक्तो नहि वेत्ति किंचिन् निद्रालुवत्स्तम्भवदेव तिष्ठति ||११६|| सत्त्वं विशुद्धं जलवत्तथापि ताभ्यां मिलित्वा सरणाय कल्पते | यत्रात्मबिम्बः प्रतिबिम्बितः सन् प्रकाशयत्यर्क इवाखिलं जडम् ||११७|| मिश्रस्य सत्त्वस्य भवन्ति धर्माः त्वमानिताद्या नियमा यमाद्याः | श्रद्धा च भक्तिश्च मुमुक्षता च दैवी च सम्पत्तिरसन्निवृत्तिः ||११८|| विशुद्धसत्त्वस्य गुणाः प्रसादः स्वात्मानुभूतिः परमा प्रशान्तिः | तृप्तिः प्रहर्षः परमात्मनिष्ठा यया सदानन्दरसं समृच्छति ||११९|| अव्यक्तमेतत्त्रिगुणैर्निरुक्तं तत्कारणं नाम शरीरमात्मनः | सुषुप्तिरेतस्य विभक्त्यवस्था प्रलीनसर्वेन्द्रियबुद्धिवृत्तिः ||१२०|| सर्वप्रकारप्रमितिप्रशान्तिः बीजात्मनावस्थितिरेव बुद्धेः | सुषुप्तिरेतस्य किल प्रतीतिः किंचिन्न वेद्मीति जगत्प्रसिद्धेः ||१२१|| देहेन्द्रियप्राणमनोऽहमादयः सर्वे विकारा विषयाः सुखादयः | व्योमादिभूतान्यखिलं न विश्वं अव्यक्तपर्यन्तमिदं ह्यनात्मा ||१२२|| माया मायाकार्यं सर्वं महदादिदेहपर्यन्तम् | असदिदमनात्मतत्त्वं विद्धि त्वं मरुमरीचिकाकल्पम् ||१२३|| अथ ते संप्रवक्ष्यामि स्वरूपं परमात्मनः | यद्विज्ञाय नरो बन्धान्मुक्तः कैवल्यमश्नुते ||१२४|| अस्ति कश्चित्स्वयं नित्यमहंप्रत्ययलम्बनः | अवस्थात्रयसाक्षी सन्पञ्चकोशविलक्षणः ||१२५|| यो विजानाति सकलं जाग्रत्स्वप्नसुषुप्तिषु | बुद्धितद्वृत्तिसद्भावमभावमहमित्ययम् ||१२६|| यः पश्यति स्वयं सर्वं यं न पश्यति कश्चन | यश्चेतयति बुद्ध्यादि न तद्यं चेतयत्ययम् ||१२७|| येन विश्वमिदं व्याप्तं यं न व्याप्नोति किञ्चन | अभारूपमिदं सर्वं यं भान्त्यमनुभात्ययम् ||१२८|| यस्य सन्निधिमात्रेण देहेन्द्रियमनोधियः | विषयेषु स्वकीयेषु वर्तन्ते प्रेरिता इव ||१२९|| अहङ्कारादिदेहान्ता विषयाश्च सुखादयः | वेद्यन्ते घटवद् येन नित्यबोधस्वरूपिणा ||१३०|| एषोऽन्तरात्मा पुरुषः पुराणो निरन्तराखण्डसुखानुभूतिः | सदैकरूपः प्रतिबोधमात्रो येनेषिता वागसवश्चरन्ति ||१३१|| अत्रैव सत्त्वात्मनि धीगुहायां अव्याकृताकाश उशत्प्रकाशः | आकाश उच्चै रविवत्प्रकाशते स्वतेजसा विश्वमिदं प्रकाशयन् ||१३२|| ज्ञाता मनोऽहंकृतिविक्रियाणां देहेन्द्रियप्राणकृतक्रियाणाम् | अयोऽग्निवत्ताननुवर्तमानो न चेष्टते नो विकरोति किञ्चन ||१३३|| न जायते नो म्रियते न वर्धते न क्षीयते नो विकरोति नित्यः | विलीयमानेऽपि वपुष्यमुष्मि- न्न लीयते कुम्भ इवाम्बरं स्वयम् ||१३४|| प्रकृतिविकृतिभिन्नः शुद्धबोधस्वभावः सदसदिदमशेषं भासयन्निर्विशेषः | विलसति परमात्मा जाग्रदादिष्ववस्था- स्वहमहमिति साक्षात्साक्षिरूपेण बुद्धेः ||१३५|| नियमितमनसामुं त्वं स्वमात्मानमात्मन् ययमहमिति साक्षाद्विद्धि बुद्धिप्रसादात् | जनिमरणतरंगापारसंसारसिन्धुं प्रतर भव कृतार्थो ब्रह्मरूपेण संस्थः ||१३६|| अत्रानात्मन्यहमिति मतिर्बन्ध एषोऽस्य पुंसः प्राप्तोऽज्ञानाज्जननमरणक्लेशसंपातहेतुः | येनैवायं वपुरिदमसत्सत्यमित्यात्मबुद्ध्या पुष्यत्युक्षत्यवति विषयैस्तन्तुभिः कोशकृद्वत् ||१३७|| अतस्मिंस्तद्बुद्धिः प्रभवति विमूढस्य तमसा विवेकाभावाद्वै स्फुरति भुजगे रज्जुधिषणा | ततोऽनर्थव्रातो निपतति समादातुरधिकः ततो योऽसद्ग्राहः स हि भवति बन्धः शृणु सखे ||१३८|| अखण्डनित्याद्वयबोधशक्त्या स्फुरन्तमात्मानमनन्तवैभवम् | समावृणोत्यावृतिशक्तिरेषा तमोमयी राहुरिवार्कबिम्बम् ||१३९|| तिरोभूते स्वात्मन्यमलतरतेजोवति पुमान् अनात्मानं मोहादहमिति शरीरं कलयति | ततः कामक्रोधप्रभृतिभिरमुं बन्धनगुणैः परं विक्षेपाख्या रजस उरुशक्तिर्व्यथयति ||१४०|| महामोहग्राहग्रसनगलितात्मावगमनो धियो नानावस्थां स्वयमभिनयंस्तद्गुणतया | अपारे संसरे विषयविषपूरे जलनिधौ निमज्योन्मज्यायं भ्रमति कुमतिः कुत्सितगतिः ||१४१|| भानुप्रभासंजनिताभ्रपङ्क्तिः भानुं तिरोधाय विजृम्भते यथा | आत्मोदिताहंकृतिरात्मतत्त्वं तथा तिरोधाय विजृम्भते स्वयम् ||१४२|| कवलितदिननार्थे दुर्दिने सान्द्रमेघैः व्यथयति हिमझंझावायुरुग्रो यथैतान् | अविरततमसात्मन्यावृते मूढबुद्धिं क्षपयति बहुदुःखैस्तीव्रविक्षेपशक्तिः ||१४३|| एताभ्यामेव शक्तिभ्यां बन्धः पुंसः समागतः | याभ्यां विमोहितो देहं मत्वाऽत्मानं भ्रमत्ययम् ||१४४|| बीजं संसृतिभूमिजस्य तु तमो देहात्मधीरङ्कुरो रागः पल्लवमम्बु कर्म तु वपुः स्कन्धोओऽसवः शाखिकाः | अग्राणीन्द्रियसंहतिश्च विषयाः पुष्पाणि दुःखं फलं नानाकर्मसमुद्भवं बहुविधं भोक्तात्र जीवः खगः ||१४५|| अज्ञानमूलोऽयमनात्मबन्धो नैसर्गिकोऽनादिरनन्त ईरितः | जन्माप्ययव्याधिजरादिदुःख- प्रवाहपातं जनयत्यमुष्य ||१४६|| नास्त्रैर्न शस्त्रैरनिलेन वह्निना छेत्तुं न शक्यो न च कर्मकोटिभिः | विवेकविज्ञानमहासिना विना धातुः प्रसादेन शितेन मञ्जुना ||१४७|| श्रुतिप्रमाणैकमतेः स्वधर्म निष्ठा तयैवात्मविशुद्धिरस्य | विशुद्धबुद्धेः परमात्मवेदनं तेनैव संसारसमूलनाशः ||१४८|| कोशैरन्नमयाद्यैः पञ्चभिरात्मा न संवृतो भाति | निजशक्तिसमुत्पन्नैः शैवालपटलैरिवाम्बु वापीस्थम् ||१४९|| तच्छैवालापनये सम्यक् सलिलं प्रतीयते शुद्धम् | तृष्णासन्तापहरं सद्यः सौख्यप्रदं परं पुंसः ||१५०|| पञ्चानामपि कोशानामपवादे विभात्ययं शुद्धः | नित्यानन्दैकरसः प्रत्यग्रूपः परः स्वयंज्योतिः ||१५१|| आत्मानात्मविवेकः कर्तव्यो बन्धमुक्तये विदुषा | तेनैवानन्दी भवति स्वं विज्ञाय सच्चिदानन्दम् ||१५२|| मुञ्जादिषीकामिव दृश्यवर्गात् प्रत्यञ्चमात्मानमसङ्गमक्रियम् | विविच्य तत्र प्रविलाप्य सर्वं तदात्मना तिष्ठति यः स मुक्तः ||१५३|| देहोऽयमन्नभवनोऽन्नमयस्तु कोशः चान्नेन जीवति विनश्यति तद्विहीनः | त्वक्चर्ममांसरुधिरास्थिपुरीषराशिः नायं स्वयं भवितुमर्हति नित्यशुद्धः ||१५४|| पूर्वं जनेरधिमृतेरपि नायमस्ति जातक्षणः क्षणगुणोऽनियतस्वभावः | नैको जडश्च घटवत्परिदृश्यमानः स्वात्मा कथं भवति भावविकारवेत्ता ||१५५|| पाणिपादादिमान्देहो नात्मा व्यङ्गेऽपि जीवनात् | तत्तच्छक्तेरनाशाच्च न नियम्यो नियामकः ||१५६|| देहतद्धर्मतत्कर्मतदवस्थादिसाक्षिणः | सत एव स्वतःसिद्धं तद्वैलक्षण्यमात्मनः ||१५७|| शल्यराशिर्मांसलिप्तो मलपूर्णोऽतिकश्मलः | कथं भवेदयं वेत्ता स्वयमेतद्विलक्षणः ||१५८|| त्वङ्मांसमेदोऽस्थिपुरीषराशा- वहंमतिं मूढजनः करोति | विलक्षणं वेत्ति विचारशीलो निजस्वरूपं परमार्थ भूतम् ||१५९|| देहोऽहमित्येव जडस्य बुद्धिः देहे च जीवे विदुषस्त्वहंधीः | विवेकविज्ञानवतो महात्मनो ब्रह्माहमित्येव मतिः सदात्मनि ||१६०|| अत्रात्मबुद्धिं त्यज मूढबुद्धे त्वङ्मांसमेदोऽस्थिपुरीषराशौ | सर्वात्मनि ब्रह्मणि निर्विकल्पे कुरुष्व शान्तिं परमां भजस्व ||१६१|| देहेन्द्रियादावसति भ्रमोदितां विद्वानहंतां न जहाति यावत् | तावन्न तस्यास्ति विमुक्तिवार्ता- प्यस्त्वेष वेदान्तनयान्तदर्शी ||१६२|| छायाशरीरे प्रतिबिम्बगात्रे यत्स्वप्नदेहे हृदि कल्पिताङ्गे | यथात्मबुद्धिस्तव नास्ति काचि- ज्जीवच्छरीरे च तथैव माऽस्तु ||१६३|| देहात्मधीरेव नृणामसद्धियां जन्मादिदुःखप्रभवस्य बीजम् | यतस्ततस्त्वं जहि तां प्रयत्नात् त्यक्ते तु चित्ते न पुनर्भवाशा ||१६४|| कर्मेन्द्रियैः पञ्चभिरञ्चितोऽयं प्राणो भवेत्प्राणमयस्तु कोशः || येनात्मवानन्नमयोऽनुपूर्णः प्रवर्ततेऽसौ सकलक्रियासु ||१६५|| नैवात्मापि प्राणमयो वायुविकारो गन्ताऽऽगन्ता वायुवदन्तर्बहिरेषः | यस्मात्किञ्चित्क्वापि न वेत्तीष्टमनिष्टं स्वं वान्यं वा किञ्चन नित्यं परतन्त्रः ||१६६|| ज्ञानेन्द्रियाणि च मनश्च मनोमयः स्यात् कोशो ममाहमिति वस्तुविकल्पहेतुः | संज्ञादिभेदकलनाकलितो बलीयां- स्तत्पूर्वकोशमभिपूर्य विजृम्भते यः ||१६७|| पञ्चेन्द्रियैः पञ्चभिरेव होतृभिः प्रचीयमानो विषयाज्यधारया | जाज्वल्यमानो बहुवासनेन्धनैः मनोमयाग्निर्दहति प्रपञ्चम् ||१६८|| न ह्यस्त्यविद्या मनसोऽतिरिक्ता मनो ह्यविद्या भवबन्धहेतुः | तस्मिन्विनष्टे सकलं विनष्टं विजृम्भितेऽस्मिन्सकलं विजृम्भते ||१६९|| स्वप्नेऽर्थशून्ये सृजति स्वशक्त्या भोक्त्रादिविश्वं मन एव सर्वम् | तथैव जाग्रत्यपि नो विशेषः तत्सर्वमेतन्मनसो विजृम्भणम् ||१७०|| सुषुप्तिकाले मनसि प्रलीने नैवास्ति किञ्चित्सकलप्रसिद्धेः | अतो मनःकल्पित् एव पुंसः संसार एतस्य न वस्तुतोऽस्ति ||१७१|| वायुनाऽऽनीयते मेधः पुनस्तेनैव नीयते | मनसा कल्प्यते बन्धो मोक्षस्तेनैव कल्प्यते ||१७२|| देहादिसर्वविषये परिकल्प्य रागं बध्नाति तेन पुरुषं पशुवद्गुणेन | वैरस्यमत्र विषवत् सुवुधाय पश्चाद् एनं विमोचयति तन्मन एव बन्धात् ||१७३|| तस्मान्मनः कारणमस्य जन्तोः बन्धस्य मोक्षस्य च वा विधाने | बन्धस्य हेतुर्मलिनं रजोगुणैः मोक्षस्य शुद्धं विरजस्तमस्कम् ||१७४|| विवेकवैराग्यगुणातिरेका- च्छुद्धत्वमासाद्य मनो विमुक्त्यै | भवत्यतो बुद्धिमतो मुमुक्षो- स्ताभ्यां दृढाभ्यां भवितव्यमग्रे ||१७५|| मनो नाम महाव्याघ्रो विषयारण्यभूमिषु | चरत्यत्र न गच्छन्तु साधवो ये मुमुक्षवः ||१७६|| मनः प्रसूते विषयानशेषान् स्थूलात्मना सूक्ष्मतया च भोक्तुः | शरीरवर्णाश्रमजातिभेदान् गुणक्रियाहेतुफलानि नित्यम् ||१७७|| असंगचिद्रूपममुं विमोह्य देहेन्द्रियप्राणगुणैर्निबद्ध्य | अहंममेति भ्रमयत्यजस्रं मनः स्वकृत्येषु फलोपभुक्तिषु ||१७८|| अध्यासदोषात्पुरुषस्य संसृतिः अध्यासबन्धस्त्वमुनैव कल्पितः | रजस्तमोदोषवतोऽविवेकिनो जन्मादिदुःखस्य निदानमेतत् ||१७९|| अतः प्राहुर्मनोऽविद्यां पण्डितास्तत्त्वदर्शिनः | येनैव भ्राम्यते विश्वं वायुनेवाभ्रमण्डलम् ||१८०|| तन्मनःशोधनं कार्यं प्रयत्नेन मुमुक्षुणा | विशुद्धे सति चैतस्मिन्मुक्तिः करफलायते ||१८१|| मोक्षैकसक्त्या विषयेषु रागं निर्मूल्य संन्यस्य च सर्वकर्म | सच्छ्रद्धया यः श्रवणादिनिष्ठो रजःस्वभावं स धुनोति बुद्धेः ||१८२|| मनोमयो नापि भवेत्परात्मा ह्याद्यन्तवत्त्वात्परिणामिभावात् | दुःखात्मकत्वाद्विषयत्वहेतोः द्रष्टा हि दृश्यात्मतया न दृष्टः ||१८३|| बुद्धिर्बुद्धीन्द्रियैः सार्धं सवृत्तिः कर्तृलक्षणः | विज्ञानमयकोशः स्यात्पुंसः संसारकारणम् ||१८४|| अनुव्रजच्चित्प्रतिबिम्बशक्तिः विज्ञानसंज्ञः प्रकृतेर्विकारः | ज्ञानक्रियावानहमित्यजस्रं देहेन्द्रियादिष्वभिमन्यते भृशम् ||१८५|| अनादिकालोऽयमहंस्वभावो जीवः समस्तव्यवहारवोढा | करोति कर्माण्यपि पूर्ववासनः पुण्यान्यपुण्यानि च तत्फलानि ||१८६|| भुङ्क्ते विचित्रास्वपि योनिषु व्रज- न्नायाति निर्यात्यध ऊर्ध्वमेषः | अस्यैव विज्ञानमयस्य जाग्रत्- स्वप्नाद्यवस्थाः सुखदुःखभोगः ||१८७|| देहादिनिष्ठाश्रमधर्मकर्म- गुणाभिमानः सततं ममेति | विज्ञानकोशोऽयमतिप्रकाशः प्रकृष्टसान्निध्यवशात्परात्मनः | अतो भवत्येष उपाधिरस्य यदात्मधीः संसरति भ्रमेण ||१८८|| योऽयं विज्ञानमयः प्राणेषु हृदि स्फुरत्ययं ज्योतिः | कूटस्थः सन्नात्मा कर्ता भोक्ता भवत्युपाधिस्थः ||१८९|| स्वयं परिच्छेदमुपेत्य बुद्धेः तादात्म्यदोषेण परं मृषात्मनः | सर्वात्मकः सन्नपि वीक्षते स्वयं स्वतः पृथक्त्वेन मृदो घटानिव ||१९०|| उपाधिसम्बन्धवशात्परात्मा ह्युपाधिधर्माननुभाति तद्गुणः | अयोविकारानविकारिवन्हिवत् सदैकरूपोऽपि परः स्वभावात् ||१९१|| शिष्य उवाच | भ्रमेणाप्यन्यथा वाऽस्तु जीवभावः परात्मनः | तदुपाधेरनादित्वान्नानादेर्नाश इष्यते ||१९२|| अतोऽस्य जीवभावोऽपि नित्या भवति संसृतिः | न निवर्तेत तन्मोक्षः कथं मे श्रीगुरो वद ||१९३|| श्रीगुरुरुवाच | सम्यक्पृष्टं त्वया विद्वन्सावधानेन तच्छृणु | प्रामाणिकी न भवति भ्रान्त्या मोहितकल्पना ||१९४|| भ्रान्तिं विना त्वसङ्गस्य निष्क्रियस्य निराकृतेः | न घटेतार्थसम्बन्धो नभसो नीलतादिवत् ||१९५|| स्वस्य द्रष्टुर्निर्गुणस्याक्रियस्य प्रत्यग्बोधानन्दरूपस्य बुद्धेः | भ्रान्त्या प्राप्तो जीवभावो न सत्यो मोहापाये नास्त्यवस्तुस्वभावात् ||१९६|| यावद्भ्रान्तिस्तावदेवास्य सत्ता मिथ्याज्ञानोज्जृम्भितस्य प्रमादात् | रज्ज्वां सर्पो भ्रान्तिकालीन एव भ्रान्तेर्नाशे नैव सर्पोऽपि तद्वत् ||१९७|| अनादित्वमविद्यायाः कार्यस्यापि तथेष्यते | उत्पन्नायां तु विद्यायामाविद्यकमनाद्यपि ||१९८|| प्रबोधे स्वप्नवत्सर्वं सहमूलं विनश्यति | अनाद्यपीदं नो नित्यं प्रागभाव इव स्फुटम् ||१९९|| अनादेरपि विध्वंसः प्रागभावस्य वीक्षितः | यद्बुद्ध्युपाधिसम्बम्धात्परिकल्पितमात्मनि ||२००|| जीवत्वं न ततोऽन्यस्तु स्वरूपेण विलक्षणः | सम्बन्धस्त्वात्मनो बुद्ध्या मिथ्याज्ञानपुरःसरः ||२०१|| विनिवृत्तिर्भवेत्तस्य सम्यग्ज्ञानेन नान्यथा | ब्रह्मात्मैकत्वविज्ञानं सम्यग्ज्ञानं श्रुतेर्मतम् ||२०२|| तदात्मानात्मनोः सम्यग्विवेकेनैव सिध्यति | ततो विवेकः कर्तव्यः प्रत्यगात्मसदात्मनोः ||२०३|| जलं पंकवदत्यन्तं पंकापाये जलं स्फुटम् | यथा भाति तथात्मापि दोषाभावे स्फुटप्रभः ||२०४|| असन्निवृत्तौ तु सदात्मना स्फुटं प्रतीतिरेतस्य भवेत्प्रतीचः | ततो निरासः करणीय एव सदात्मनः साध्वहमादिवस्तुनः ||२०५|| अतो नायं परात्मा स्याद्विज्ञानमयशब्दभाक् | विकारित्वाज्जडत्वाच्च परिच्छिन्नत्वहेतुतः | दृश्यत्वाद्व्यभिचारित्वान्नानित्यो नित्य इष्यते ||२०६|| आनन्दप्रतिबिम्बचुम्बिततनुर्वृत्तिस्तमोजृम्भिता स्यादानन्दमयः प्रियादिगुणकः स्वेष्टार्थलाभोदयः | पुण्यस्यानुभवे विभाति कृतिनामानन्दरूपः स्वयं सर्वो नन्दति यत्र साधु तनुभृन्मात्रः प्रयत्नं विना ||२०७|| आनन्दमयकोशस्य सुषुप्तौ स्फूर्तिरुत्कटा | स्वप्नजागरयोरीषदिष्टसंदर्शनाविना ||२०८|| नैवायमानन्दमयः परात्मा सोपाधिकत्वात्प्रकृतेर्विकारात् | कार्यत्वहेतोः सुकृतक्रियाया विकारसंघातसमाहितत्वात् ||२०९|| पञ्चानामपि कोशानां निषेधे युक्तितः श्रुतेः | तन्निषेधावधि साक्षी बोधरूपोऽवशिष्यते ||२१०|| योऽयमात्मा स्वयंज्योतिः पञ्चकोशविलक्षणः | अवस्थात्रयसाक्षी सन्निर्विकारो निरञ्जनः | सदानन्दः स विज्ञेयः स्वात्मत्वेन विपश्चिता ||२११|| शिष्य उवाच | मिथ्यात्वेन निषिद्धेषु कोशेष्वेतेषु पञ्चसु | सर्वाभावं विना किञ्चिन्न पश्याम्यत्र हे गुरो | विज्ञेयं किमु वस्त्वस्ति स्वात्मनाऽऽत्मविपश्चिता ||२१२|| श्रीगुरुरुवाच | सत्यमुक्तं त्वया विदन्निपुणोऽसि विचारणे | अहमादिविकारास्ते तदभावोऽयमप्यनु ||२१३|| सर्वे येनानुभूयन्ते यः स्वयं नानुभूयते | तमात्मानं वेदितारं विद्दि बुद्ध्या सुसूक्ष्मया ||२१४|| तत्साक्षिकं भवेत्तत्तद्यद्यद्येनानुभूयते | कस्याप्यननुभूतार्थे साक्षित्वं नोपयुज्यते ||२१५|| असौ स्वसाक्षिको भावो यतः स्वेनानुभूयते | अतः परं स्वयं साक्षात्प्रत्यगात्मा न चेतरः ||२१६|| जाग्रत्स्वप्नसुषुप्तिषु स्फुटतरं योऽसौ समुज्जृम्भते प्रत्यग्रूपतया सदाहमहमित्यन्तः स्फुरन्नैकधा | नानाकारविकारभागिन इमान् पश्यन्नहंधीमुखान् नित्यानन्दचिदात्मना स्फुरति तं विद्धि स्वमेतं हृदि ||२१७|| घटोदके बिम्बितमर्कबिम्ब- मालोक्य मूढो रविमेव मन्यते | तथा चिदाभासमुपाधिसंस्थं भ्रान्त्याहमित्येव जडोऽभिमन्यते ||२१८|| घटं जलं तद्गतमर्कबिम्बं विहाय सर्वं विनिरीक्ष्यतेऽर्कः | तटस्थ एतत्त्रितयावभासकः स्वयंप्रकाशो विदुषा यथा तथा ||२१९|| देहं धियं चित्प्रतिबिम्बमेवं विसृज्य बुद्धौ निहितं गुहायाम् | द्रष्टारमात्मानमखण्डबोधं सर्वप्रकाशं सदसद्विलक्षणम् ||२२०|| नित्यं विभुं सर्वगतं सुसूक्ष्मं अन्तर्बहिःशून्यमनन्यमात्मनः | विज्ञाय सम्यङ्निजरूपमेतत् पुमान् विपाप्मा विरजो विमृत्युः ||२२१|| विशोक आनन्दघनो विपश्चित् स्वयं कुतश्चिन्न बिभेति कश्चित् | नान्योऽस्ति पन्था भवबन्धमुक्तेः विना स्वतत्त्वावगमं मुमुक्षोः ||२२२|| ब्रह्माभिन्नत्वविज्ञानं भवमोक्षस्य कारणम् | येनाद्वितीयमानन्दं ब्रह्म सम्पद्यते बुधैः ||२२३|| ब्रह्मभूतस्तु संसृत्यै विद्वान्नावर्तते पुनः | विज्ञातव्यमतः सम्यग्ब्रह्माभिन्नत्वमात्मनः ||२२४|| सत्यं ज्ञानमनन्तं ब्रह्म विशुद्धं परं स्वतःसिद्धम् | नित्यानन्दैकरसं प्रत्यगभिन्नं निरन्तरं जयति ||२२५|| सदिदं परमाद्वैतं स्वस्मादन्यस्य वस्तुनोऽभावात् | न ह्यन्यदस्ति किञ्चित् सम्यक् परमार्थतत्त्वबोधदशायाम् ||२२६|| यदिदं सकलं विश्वं नानारूपं प्रतीतमज्ञानात् | तत्सर्वं ब्रह्मैव प्रत्यस्ताशेषभावनादोषम् ||२२७|| मृत्कार्यभूतोऽपि मृदो न भिन्नः कुम्भोऽस्ति सर्वत्र तु मृत्स्वरूपात् | न कुम्भरूपं पृथगस्ति कुम्भः कुतो मृषा कल्पितनाममात्रः ||२२८|| केनापि मृद्भिन्नतया स्वरूपं घटस्य संदर्शयितुं न शक्यते | अतो घटः कल्पित एव मोहा- न्मृदेव सत्यं परमार्थभूतम् ||२२९|| सद्ब्रह्मकार्यं सकलं सदेवं तन्मात्रमेतन्न ततोऽन्यदस्ति | अस्तीति यो वक्ति न तस्य मोहो विनिर्गतो निद्रितवत्प्रजल्पः ||२३०|| ब्रह्मैवेदं विश्वमित्येव वाणी श्रौती ब्रूतेऽथर्वनिष्ठा वरिष्ठा | तस्मादेतद्ब्रह्ममात्रं हि विश्वं नाधिष्ठानाद्भिन्नताऽऽरोपितस्य ||२३१|| सत्यं यदि स्याज्जगदेतदात्मनोऽ न तत्त्वहानिर्निगमाप्रमाणता | असत्यवादित्वमपीशितुः स्या- न्नैतत्त्रयं साधु हितं महात्मनाम् ||२३२|| ईश्वरो वस्तुतत्त्वज्ञो न चाहं तेष्ववस्थितः | न च मत्स्थानि भूतानीत्येवमेव व्यचीक्लृपत् ||२३३|| यदि सत्यं भवेद्विश्वं सुषुप्तामुपलभ्यताम् | यन्नोपलभ्यते किञ्चिदतोऽसत्स्वप्नवन्मृषा ||२३४|| अतः पृथङ्नास्ति जगत्परात्मनः पृथक्प्रतीतिस्तु मृषा गुणादिवत् | आरोपितस्यास्ति किमर्थवत्ताऽ- धिष्ठानमाभाति तथा भ्रमेण ||२३५|| भ्रान्तस्य यद्यद्भ्रमतः प्रतीतं ब्रह्मैव तत्तद्रजतं हि शुक्तिः | इदंतया ब्रह्म सदैव रूप्यते त्वारोपितं ब्रह्मणि नाममात्रम् ||२३६|| अतः परं ब्रह्म सदद्वितीयं विशुद्धविज्ञानघनं निरञ्जनम् | प्राशान्तमाद्यन्तविहीनमक्रियं निरन्तरानन्दरसस्वरूपम् ||२३७|| निरस्तमायाकृतसर्वभेदं नित्यं सुखं निष्कलमप्रमेयम् | अरूपमव्यक्तमनाख्यमव्ययं ज्योतिः स्वयं किञ्चिदिदं चकास्ति ||२३८|| ज्ञातृज्ञेयज्ञानशून्यमनन्तं निर्विकल्पकम् | केवलाखण्डचिन्मात्रं परं तत्त्वं विदुर्बुधाः ||२३९|| अहेयमनुपादेयं मनोवाचामगोचरम् | अप्रमेयमनाद्यन्तं ब्रह्म पूर्णमहं महः ||२४०|| तत्त्वंपदाभ्यामभिधीयमानयोः ब्रह्मात्मनोः शोधितयोर्यदीत्थम् | श्रुत्या तयोस्तत्त्वमसीति सम्यग् एकत्वमेव प्रतिपाद्यते मुहुः ||२४१- एक्यं तयोर्लक्षितयोर्न वाच्ययोः निगद्यतेऽन्योन्यविरुद्धधर्मिणोः | खद्योतभान्वोरिव राजभृत्ययोः कूपाम्बुराश्योः परमाणुमेर्वोः ||२४२|| तयोर्विरोधोऽयमुपाधिकल्पितो न वास्तवः कश्चिदुपाधिरेषः | ईशस्य माया महदादिकारणं जीवस्य कार्यं शृणु पञ्चकोशम् ||२४३|| एतावुपाधी परजीवयोस्तयोः सम्यङ्निरासे न परो न जीवः | राज्यं नरेन्द्रस्य भटस्य खेटकः तयोरपोहे न भटो न राजा ||२४४|| अथात आदेश इति श्रुतिः स्वयं निषेधति ब्रह्मणि कल्पितं द्वयम् | श्रुतिप्रमाणानुगृहीतबोधा- त्तयोर्निरासः करणीय एव ||२४५|| नेदं नेदं कल्पितत्वान्न सत्यं रज्जुदृष्टव्यालवत्स्वप्नवच्च | इत्थं दृश्यं साधुयुक्त्या व्यपोह्य ज्ञेयः पश्चादेकभावस्तयोर्यः ||२४६|| ततस्तु तौ लक्षणया सुलक्ष्यौ तयोरखण्डैकरसत्वसिद्धये | नालं जहत्या न तथाऽजहत्या किन्तूभयार्थात्मिकयैव भाव्यम् ||२४७|| स देवदत्तोऽयमितीह चैकता विरुद्धधर्मांशमपास्य कथ्यते | यथा तथा तत्त्वमसीतिवाक्ये विरुद्धधर्मानुभयत्र हित्वा ||२४८|| संलक्ष्य चिन्मात्रतया सदात्मनोः अखण्डभावः परिचीयते बुधैः | एवं महावाक्यशतेन कथ्यते ब्रह्मात्मनोरैक्यमखण्डभावः ||२४९|| अस्थूलमित्येतदसन्निरस्य सिद्धं स्वतो व्योमवदप्रतर्क्यम् | अतो मृषामात्रमिदं प्रतीतं जहीहि यत्स्वात्मतया गृहीतम् | ब्रह्माहमित्येव विशुद्धबुद्ध्या विद्धि स्वमात्मानमखण्डबोधम् ||२५०|| मृत्कार्यं सकलं घटादि सततं मृन्मात्रमेवाहितं तद्वत्सज्जनितं सदात्मकमिदं सन्मात्रमेवाखिलम् | यस्मान्नास्ति सतः परं किमपि तत्सत्यं स आत्मा स्वयं तस्मात्तत्त्वमसि प्रशान्तममलं ब्रह्माद्वयं यत्परम् ||२५१|| निद्राकल्पितदेशकालविषयज्ञात्रादि सर्वं यथा मिथ्या तद्वदिहापि जाग्रति जगत्स्वाज्ञानकार्यत्वतः | यस्मादेवमिदं शरीरकरणप्राणाहमाद्यप्यसत् तस्मात्तत्त्वमसि प्रशान्तममलं ब्रह्माद्वयं यत्परम् ||२५२|| यत्र भ्रान्त्या कल्पित तद्विवेके तत्तन्मात्रं नैव तस्माद्विभिन्नम् | स्वप्ने नष्टं स्वप्नविश्वं विचित्रं स्वस्माद्भिन्नं किन्नु दृष्टं प्रबोधे ||२५३|| जातिनीतिकुलगोत्रदूरगं नामरूपगुणदोषवर्जितम् | देशकालविषयातिवर्ति यद् ब्रह्म तत्त्वमसि भावयात्मनि ||२५४|| यत्परं सकलवागगोचरं गोचरं विमलबोधचक्षुषः | शुद्धचिद्घनमनादि वस्तु यद् ब्रह्म तत्त्वमसि भावयात्मनि ||२५५|| षड्भिरूर्मिभिरयोगि योगिहृद्- भावितं न करणैर्विभावितम् | बुद्ध्यवेद्यमनवद्यमस्ति यद् ब्रह्म तत्त्वमसि भावयात्मनि ||२५६|| भ्रान्तिकल्पितजगत्कलाश्रयं स्वाश्रयं च सदसद्विलक्षणम् | निष्कलं निरुपमानवद्धि यद् ब्रह्म तत्त्वमसि भावयात्मनि ||२५७|| जन्मवृद्धिपरिणत्यपक्षय- व्याधिनाशनविहीनमव्ययम् | विश्वसृष्ट्यवविघातकारणं ब्रह्म तत्त्वमसि भावयात्मनि ||२५८|| अस्तभेदमनपास्तलक्षणं निस्तरङ्गजलराशिनिश्चलम् | नित्यमुक्तमविभक्तमूर्ति यद् ब्रह्म तत्त्वमसि भावयात्मनि ||२५९|| एकमेव सदनेककारणं कारणान्तरनिरास्यकारणम् | कार्यकारणविलक्षणं स्वयं ब्रह्म तत्त्वमसि भावयात्मनि ||२६०|| निर्विकल्पकमनल्पमक्षरं यत्क्षराक्षरविलक्षणं परम् | नित्यमव्ययसुखं निरञ्जनं ब्रह्म तत्त्वमसि भावयात्मनि ||२६१|| यद्विभाति सदनेकधा भ्रमा- न्नामरूपगुणविक्रियात्मना | हेमवत्स्वयमविक्रियं सदा ब्रह्म तत्त्वमसि भावयात्मनि ||२६२|| यच्चकास्त्यनपरं परात्परं प्रत्यगेकरसमात्मलक्षणम् | सत्यचित्सुखमनन्तमव्ययं ब्रह्म तत्त्वमसि भावयात्मनि ||२६३|| उक्तमर्थमिममात्मनि स्वयं भावयेत्प्रथितयुक्तिभिर्धिया | संशयादिरहितं कराम्बुवत् तेन तत्त्वनिगमो भविष्यति ||२६४|| सम्बोधमात्रं परिशुद्धतत्त्वं विज्ञाय संघे नृपवच्च सैन्ये | तदाश्रयः स्वात्मनि सर्वदा स्थितो विलापय ब्रह्मणि विश्वजातम् ||२६५|| बुद्धौ गुहायां सदसद्विलक्षणं ब्रह्मास्ति सत्यं परमद्वितीयम् | तदात्मना योऽत्र वसेद्गुहायां पुनर्न तस्याङ्गगुहाप्रवेशः ||२६६|| ज्ञाते वस्तुन्यपि बलवती वासनाऽनादिरेषा कर्ता भोक्ताप्यहमिति दृढा याऽस्य संसारहेतुः | प्रत्यग्दृष्ट्याऽऽत्मनि निवसता सापनेया प्रयत्ना- न्मुक्तिं प्राहुस्तदिह मुनयो वासनातानवं यत् ||२६७|| अहं ममेति यो भावो देहाक्षादावनात्मनि | अध्यासोऽयं निरस्तव्यो विदुषा स्वात्मनिष्ठया ||२६८|| ज्ञात्वा स्वं प्रत्यगात्मानं बुद्धितद्वृत्तिसाक्षिणम् | सोऽहमित्येव सद्वृत्त्याऽनात्मन्यात्ममतिं जहि ||२६९|| लोकानुवर्तनं त्यक्त्वा त्यक्त्वा देहानुवर्तनम् | शास्त्रानुवर्तनं त्यक्त्वा स्वाध्यासापनयं कुरु ||२७०|| लोकवासनया जन्तोः शास्त्रवासनयापि च | देहवासनया ज्ञानं यथावन्नैव जायते ||२७१ संसारकारागृहमोक्षमिच्छो- रयोमयं पादनिबन्धशृंखलम् | वदन्ति तज्ज्ञाः पटु वासनात्रयं योऽस्माद्विमुक्तः समुपैति मुक्तिम् ||२७२|| जलादिसंसर्गवशात्प्रभूत- दुर्गन्धधूताऽगरुदिव्यवासना | संघर्षणेनैव विभाति सम्य- ग्विधूयमाने सति बाह्यगन्धे ||२७३|| अन्तःश्रितानन्तदूरन्तवासना- धूलीविलिप्ता परमात्मवासना | प्रज्ञातिसंघर्षणतो विशुद्धा प्रतीयते चन्दनगन्धवत् स्फुटम् ||२७४|| अनात्मवासनाजालैस्तिरोभूतात्मवासना | नित्यात्मनिष्ठया तेषां नाशे भाति स्वयं स्फुटम् ||२७५|| यथा यथा प्रत्यगवस्थितं मनः तथा तथा मुञ्चति बाह्यवासनाम् | निःशेषमोक्षे सति वासनानां आत्मानुभूतिः प्रतिबन्धशून्या ||२७६|| स्वात्मन्येव सदा स्थित्वा मनो नश्यति योगिनः | वासनानां क्षयश्चातः स्वाध्यासापनयं कुरु ||२७७|| तमो द्वाभ्यां रजः सत्त्वात्सत्त्वं शुद्धेन नश्यति | तस्मात्सत्त्वमवष्टभ्य स्वाध्यासापनयं कुरु ||२७८|| प्रारब्धं पुष्यति वपुरिति निश्चित्य निश्चलः | धैर्यमालम्ब्य यत्नेन स्वाध्यासापनयं कुरु ||२७९|| नाहं जीवः परं ब्रह्मेत्यतद्व्यावृत्तिपूर्वकम् | वासनावेगतः प्राप्तस्वाध्यासापनयं कुरु ||२८०|| श्रुत्या युक्त्या स्वानुभूत्या ज्ञात्वा सार्वात्म्यमात्मनः | क्वचिदाभासतः प्राप्तस्वाध्यासापनयं कुरु ||२८१|| अनादानविसर्गाभ्यामीषन्नास्ति क्रिया मुनेः | तदेकनिष्ठया नित्यं स्वाध्यासापनयं कुरु ||२८२|| तत्त्वमस्यादिवाक्योत्थब्रह्मात्मैकत्वबोधतः | ब्रह्मण्यात्मत्वदार्ढ्याय स्वाध्यासापनयं कुरु ||२८३|| अहंभावस्य देहेऽस्मिन्निःशेषविलयावधि | सावधानेन युक्तात्मा स्वाध्यासापनयं कुरु ||२८४|| प्रतीतिर्जीवजगतोः स्वप्नवद्भाति यावता | तावन्निरन्तरं विद्वन्स्वाध्यासापनयं कुरु ||२८५|| निद्राया लोकवार्तायाः शब्दादेरपि विस्मृतेः | क्वचिन्नावसरं दत्त्वा चिन्तयात्मानमात्मनि ||२८६|| मातापित्रोर्मलोद्भूतं मलमांसमयं वपुः | त्यक्त्वा चाण्डालवद्दूरं ब्रह्मीभूय कृती भव ||२८७|| घटाकाशं महाकाश इवात्मानं परात्मनि | विलाप्याखण्डभावेन तूष्णी भव सदा मुने ||२८८|| स्वप्रकाशमधिष्ठानं स्वयंभूय सदात्मना | ब्रह्माण्डमपि पिण्डाण्डं त्यज्यतां मलभाण्डवत् ||२८९|| चिदात्मनि सदानन्दे देहारूढामहंधियम् | निवेश्य लिङ्गमुत्सृज्य केवलो भव सर्वदा ||२९०|| यत्रैष जगदाभासो दर्पणान्तः पुरं यथा | तद्ब्रह्माहमिति ज्ञात्वा कृतकृत्यो भविष्यसि ||२९१|| यत्सत्यभूतं निजरूपमाद्यं चिदद्वयानन्दमरूपमक्रियम् | तदेत्य मिथ्यावपुरुत्सृजेत शैलूषवद्वेषमुपात्तमात्मनः ||२९२|| सर्वात्मना दृश्यमिदं मृषैव नैवाहमर्थः क्षणिकत्वदर्शनात् | जानाम्यहं सर्वमिति प्रतीतिः कुतोऽहमादेः क्षणिकस्य सिध्येत् ||२९३|| अहंपदार्थस्त्वहमादिसाक्षी नित्यं सुषुप्तावपि भावदर्शनात् | ब्रूते ह्यजो नित्य इति श्रुतिः स्वयं तत्प्रत्यगात्मा सदसद्विलक्षणः ||२९४|| विकारिणां सर्वविकारवेत्ता नित्याविकारो भवितुं समर्हति | मनोरथस्वप्नसुषुप्तिषु स्फुटं पुनः पुनर्दृष्टमसत्त्वमेतयोः ||२९५|| अतोऽभिमानं त्यज मांसपिण्डे पिण्डाभिमानिन्यपि बुद्धिकल्पिते | कालत्रयाबाध्यमखण्डबोधं ज्ञात्वा स्वमात्मानमुपैहि शान्तिम् ||२९६|| त्यजाभिमानं कुलगोत्रनाम- रूपाश्रमेष्वार्द्रशवाश्रितेषु | लिङ्गस्य धर्मानपि कर्तृतादिं- स्त्यक्ता भवाखण्डसुखस्वरूपः ||२९७|| सन्त्यन्ये प्रतिबन्धाः पुंसः संसारहेतवो दृष्टाः | तेषामेवं मूलं प्रथमविकारो भवत्यहंकारः ||२९८|| यावत्स्यात्स्वस्य सम्बन्धोऽहंकारेण दुरात्मना | तावन्न लेशमात्रापि मुक्तिवार्ता विलक्षणा ||२९९|| अहंकारग्रहान्मुक्तः स्वरूपमुपपद्यते | चन्द्रवद्विमलः पूर्णः सदानन्दः स्वयंप्रभः ||३००|| यो वा पुरे सोऽहमिति प्रतीतो बुद्ध्या प्रक्लृप्तस्तमसाऽतिमूढया | तस्यैव निःशेषतया विनाशे ब्रह्मात्मभावः प्रतिबन्धशून्यः ||३०१|| ब्रह्मानन्दनिधिर्महाबलवताऽहंकारघोराहिना संवेष्ट्यात्मनि रक्ष्यते गुणमयैश्चण्डेस्त्रिभिर्मस्तकैः विज्ञानाख्यमहासिना श्रुतिमता विच्छिद्य शीर्षत्रयं निर्मूल्याहिमिमं निधिं सुखकरं धीरोऽनुभोक्तुंक्षमः ||३०२|| यावद्वा यत्किञ्चिद्विषदोषस्फूर्तिरस्ति चेद्देहे | कथमारोग्याय भवेत्तद्वदहन्तापि योगिनो मुक्त्यै ||३०३|| अहमोऽत्यन्तनिवृत्त्या तत्कृतनानाविकल्पसंहृत्या | प्रत्यक्तत्त्वविवेकादिदमहमस्मीति विन्दते तत्त्वम् ||३०४|| अहंकारे कर्तर्यहमिति मतिं मुञ्च सहसा विकारात्मन्यात्मप्रतिफलजुषि स्वस्थितिमुषि | यदध्यासात्प्राप्ता जनिमृतिजरादुःखबहुला प्रतीचश्चिन्मूर्तेस्तव सुखतनोः संसृतिरियम् ||३०५|| सदैकरूपस्य चिदात्मनो विभो- रानन्दमूर्तेरनवद्यकीर्तेः | नैवान्यथा क्वाप्यविकारिणस्ते विनाहमध्यासममुष्य संसृतिः ||३०६|| तस्मादहंकारमिमं स्वशत्रुं भोक्तुर्गले कण्टकवत्प्रतीतम् | विच्छिद्य विज्ञानमहासिना स्फुटं भुङ्क्ष्वात्मसाम्राज्यसुखं यथेष्टम् ||३०७|| ततोऽहमादेर्विनिवर्त्य वृत्तिं संत्यक्तरागः परमार्थलाभात् | तूष्णीं समास्स्वात्मसुखानुभूत्या पूर्णात्मना ब्रह्मणि निर्विकल्पः ||३०८|| समूलकृत्तोऽपि महानहं पुनः व्युल्लेखितः स्याद्यदि चेतसा क्षणम् | संजीव्य विक्षेपशतं करोति नभस्वता प्रावृषि वारिदो यथा ||३०९|| निगृह्य शत्रोरहमोऽवकाशः क्वचिन्न देयो विषयानुचिन्तया | स एव संजीवनहेतुरस्य प्रक्षीणजम्बीरतरोरिवाम्बु ||३१०|| देहात्मना संस्थित एव कामी विलक्षणः कामयिता कथं स्यात् | अतोऽर्थसन्धानपरत्वमेव भेदप्रसक्त्या भवबन्धहेतुः ||३११|| कार्यप्रवर्धनाद्बीजप्रवृद्धिः परिदृश्यते | कार्यनाशाद्बीजनाशस्तस्मात्कार्यं निरोधयेत् ||३१२|| वासनावृद्धितः कार्यं कार्यवृद्ध्या च वासना | वर्धते सर्वथा पुंसः संसारो न निवर्तते ||३१३|| संसारबन्धविच्छित्त्यै तद् द्वयं प्रदहेद्यतिः | वासनावृद्धिरेताभ्यां चिन्तया क्रियया बहिः ||३१४|| ताभ्यां प्रवर्धमाना सा सूते संसृतिमात्मनः | त्रयाणां च क्षयोपायः सर्वावस्थासु सर्वदा ||३१५|| सर्वत्र सर्वतः सर्वब्रह्ममात्रावलोकनैः | सद्भाववासनादार्ढ्यात्तत्त्रयं लयमश्नुते ||३१६|| क्रियानाशे भवेच्चिन्तानाशोऽस्माद्वासनाक्षयः | वासनाप्रक्षयो मोक्षः सा जीवन्मुक्तिरिष्यते ||३१७|| सद्वासनास्फूर्तिविजृम्भणे सति ह्यसौ विलीनाप्यहमादिवासना | अतिप्रकृष्टाप्यरुणप्रभायां विलीयते साधु यथा तमिस्रा ||३१८|| तमस्तमःकार्यमनर्थजालं न दृश्यते सत्युदिते दिनेशे | तथाऽद्वयानन्दरसानुभूतौ नैवास्ति बन्धो न च दुःखगन्धः ||३१९|| दृश्यं प्रतीतं प्रविलापयन्सन् सन्मात्रमानन्दघनं विभावयन् | समाहितः सन्बहिरन्तरं वा कालं नयेथाः सति कर्मबन्धे ||३२०|| प्रमादो ब्रह्मनिष्ठायां न कर्तव्यः कदाचन | प्रमादो मृत्युरित्याह भगवान्ब्रह्मणः सुतः ||३२१|| न प्रमादादनर्थोऽन्यो ज्ञानिनः स्वस्वरूपतः | ततो मोहस्ततोऽहंधीस्ततो बन्धस्ततो व्यथा ||३२२|| विषयाभिमुखं दृष्ट्वा विद्वांसमपि विस्मृतिः | विक्षेपयति धीदोषैर्योषा जारमिव प्रियम् ||३२३|| यथापकृष्टं शैवालं क्षणमात्रं न तिष्ठति | आवृणोति तथा माया प्राज्ञं वापि पराङ्मुखम् ||३२४|| लक्ष्यच्युतं चेद्यदि चित्तमीषद् बहिर्मुखं सन्निपतेत्ततस्ततः | प्रमादतः प्रच्युतकेलिकन्दुकः सोपानपङ्क्तौ पतितो यथा तथा ||३२५|| विषयेष्वाविशच्चेतः संकल्पयति तद्गुणान् | सम्यक्संकल्पनात्कामः कामात्पुंसः प्रवर्तनम् ||३२६|| अतः प्रमादान्न परोऽस्ति मृत्युः विवेकिनो ब्रह्मविदः समाधौ | समाहितः सिद्धिमुपैति सम्यक् समाहितात्मा भव सावधानः ||३२७|| ततः स्वरूपविभ्रंशो विभ्रष्टस्तु पतत्यधः | पतितस्य विना नाशं पुनर्नारोह ईक्ष्यते ||३२८|| संकल्पं वर्जयेत्तस्मात्सर्वानर्थस्य कारणम् | जीवतो यस्य कैवल्यं विदेहे स च केवलः | यत्किञ्चित् पश्यतो भेदं भयं ब्रूते यजुःश्रुतिः ||३२९|| यदा कदा वापि विपश्चिदेष ब्रह्मण्यनन्तेऽप्यणुमात्रभेदम् | पश्यत्यथामुष्य भयं तदैव यद्वीक्षितं भिन्नतया प्रमादात् ||३३०|| श्रुतिस्मृतिन्यायशतैर्निषिद्धे दृश्येऽत्र यः स्वात्ममतिं करोति | उपैति दुःखोपरि दुःखजातं निषिद्धकर्ता स मलिम्लुचो यथा ||३३१|| सत्याभिसंधानरतो विमुक्तो महत्त्वमात्मीयमुपैति नित्यम् | मिथ्याभिसन्धानरतस्तु नश्येद् दृष्टं तदेतद्यदचौरचौरयोः ||३३२|| यतिरसदनुसन्धिं बन्धहेतुं विहाय स्वयमयमहमस्मीत्यात्मदृष्ट्यैव तिष्ठेत् सुखयति ननु निष्ठा ब्रह्मणि स्वानुभूत्या हरति परमविद्याकार्यदुःखं प्रतीतम् ||३३३|| बाह्यानुसन्धिः परिवर्धयेत्फलं दुर्वासनामेव ततस्ततोऽधिकाम् | ज्ञात्वा विवेकैः परिहृत्य बाह्यं स्वात्मानुसन्धिं विदधीत नित्यम् ||३३४|| बाह्ये निरुद्धे मनसः प्रसन्नता मनःप्रसादे परमात्मदर्शनम् | तस्मिन्सुदृष्टे भवबन्धनाशो बहिर्निरोधः पदवी विमुक्तेः ||३३५|| कः पण्डितः सन्सदसद्विवेकी श्रुतिप्रमाणः परमार्थदर्शी | जानन्हि कुर्यादसतोऽवलम्बं स्वपातहेतोः शिशुवन्मुमुक्षुः ||३३६|| देहादिसंसक्तिमतो न मुक्तिः मुक्तस्य देहाद्यभिमत्यभावः | सुप्तस्य नो जागरणं न जाग्रतः स्वप्नस्तयोर्भिन्नगुणाश्रयत्वात् ||३३७|| अन्तर्बहिः स्वं स्थिरजङ्गमेषु ज्ञात्वाऽऽत्मनाधारतया विलोक्य | त्यक्ताखिलोपाधिरखण्डरूपः पूर्णात्मना यः स्थित एष मुक्तः ||३३८|| सर्वात्मना बन्धविमुक्तिहेतुः सर्वात्मभावान्न परोऽस्ति कश्चित् | दृश्याग्रहे सत्युपपद्यतेऽसौ सर्वात्मभावोऽस्य सदात्मनिष्ठया ||३३९|| दृश्यस्याग्रहणं कथं नु घटते देहात्मना तिष्ठतो बाह्यार्थानुभवप्रसक्तमनसस्तत्तत्क्रियां कुर्वतः | संन्यस्ताखिलधर्मकर्मविषयैर्नित्यात्मनिष्ठापरैः तत्त्वज्ञैः करणीयमात्मनि सदानन्देच्छुभिर्यत्नतः ||३४०|| सर्वात्मसिद्धये भिक्षोः कृतश्रवणकर्मणः | समाधिं विदधात्येषा शान्तो दान्त इति श्रुतिः ||३४१|| आरूढशक्तेरहमो विनाशः कर्तुन्न शक्य सहसापि पण्डितैः | ये निर्विकल्पाख्यसमाधिनिश्चलाः तानन्तराऽनन्तभवा हि वासनाः ||३४२|| अहंबुद्ध्यैव मोहिन्या योजयित्वाऽऽवृतेर्बलात् | विक्षेपशक्तिः पुरुषं विक्षेपयति तद्गुणैः ||३४३|| विक्षेपशक्तिविजयो विषमो विधातुं निःशेषमावरणशक्तिनिवृत्त्यभावे | दृग्दृश्ययोः स्फुटपयोजलवद्विभागे नश्येत्तदावरणमात्मनि च स्वभावात् | निःसंशयेन भवति प्रतिबन्धशून्यो विक्षेपणं न हि तदा यदि चेन्मृषार्थे ||३४४|| सम्यग्विवेकः स्फुटबोधजन्यो विभज्य दृग्दृश्यपदार्थतत्त्वम् | छिनत्ति मायाकृतमोहबन्धं यस्माद्विमुक्तस्तु पुनर्न संसृतिः ||३४५|| परावरैकत्वविवेकवन्हिः दहत्यविद्यागहनं ह्यशेषम् | किं स्यात्पुनः संसरणस्य बीजं अद्वैतभावं समुपेयुषोऽस्य ||३४६|| आवरणस्य निवृत्तिर्भवति हि सम्यक्पदार्थदर्शनतः | मिथ्याज्ञानविनाशस्तद्विक्षेपजनितदुःखनिवृत्तिः ||३४७|| एतत्त्रितयं दृष्टं सम्यग्रज्जुस्वरूपविज्ञानात् | तस्माद्वस्तुसतत्त्वं ज्ञातव्यं बन्धमुक्तये विदुषा ||३४८|| अयोऽग्नियोगादिव सत्समन्वयान् मात्रादिरूपेण विजृम्भते धीः | तत्कार्यमेतद्द्वितयं यतो मृषा दृष्टं भ्रमस्वप्नमनोरथेषु ||३४९|| ततो विकाराः प्रकृतेरहंमुखा देहावसाना विषयाश्च सर्वे | क्षणेऽन्यथाभावितया ह्यमीषा- मसत्त्वमात्मा तु कदापि नान्यथा ||३५०|| नित्याद्वयाखण्डचिदेकरूपो बुद्ध्यादिसाक्षी सदसद्विलक्षणः | अहंपदप्रत्ययलक्षितार्थः प्रत्यक् सदानन्दघनः परात्मा ||३५१|| इत्थं विपश्चित्सदसद्विभज्य निश्चित्य तत्त्वं निजबोधदृष्ट्या | ज्ञात्वा स्वमात्मानमखण्डबोधं तेभ्यो विमुक्तः स्वयमेव शाम्यति ||३५२|| अज्ञानहृदयग्रन्थेर्निःशेषविलयस्तदा | समाधिनाऽविकल्पेन यदाऽद्वैतात्मदर्शनम् ||३५३|| त्वमहमिदमितीयं कल्पना बुद्धिदोषात् प्रभवति परमात्मन्यद्वये निर्विशेषे | प्रविलसति समाधावस्य सर्वो विकल्पो विलयनमुपगच्छेद्वस्तुतत्त्वावधृत्या ||३५४|| शान्तो दान्तः परमुपरतः क्षान्तियुक्तः समाधिं कुर्वन्नित्यं कलयति यतिः स्वस्य सर्वात्मभावम् | तेनाविद्यातिमिरजनितान्साधु दग्ध्वा विकल्पान् ब्रह्माकृत्या निवसति सुखं निष्क्रियो निर्विकल्पः ||३५५|| समाहिता ये प्रविलाप्य बाह्यं श्रोत्रादि चेतः स्वमहं चिदात्मनि | त एव मुक्ता भवपाशबन्धैः नान्ये तु पारोक्ष्यकथाभिधायिनः ||३५६|| उपाधिभेदात्स्वयमेव भिद्यते चोपाध्यपोहे स्वयमेव केवलः | तस्मादुपाधेर्विलयाय विद्वान् वसेत्सदाऽकल्पसमाधिनिष्ठया ||३५७|| सति सक्तो नरो याति सद्भावं ह्येकनिष्ठया | कीटको भ्रमरं ध्यायन् भ्रमरत्वाय कल्पते ||३५८|| क्रियान्तरासक्तिमपास्य कीटको ध्यायन्नलित्वं ह्यलिभावमृच्छति | तथैव योगी परमात्मतत्त्वं ध्यात्वा समायाति तदेकनिष्ठया ||३५९|| अतीव सूक्ष्मं परमात्मतत्त्वं न स्थूलदृष्ट्या प्रतिपत्तुमर्हति | समाधिनात्यन्तसुसूक्ष्मवृत्या ज्ञातव्यमार्यैरतिशुद्धबुद्धिभिः ||३६०|| यथा सुवर्णं पुटपाकशोधितं त्यक्त्वा मलं स्वात्मगुणं समृच्छति | तथा मनः सत्त्वरजस्तमोमलं ध्यानेन सन्त्यज्य समेति तत्त्वम् ||३६१|| निरन्तराभ्यासवशात्तदित्थं पक्वं मनो ब्रह्मणि लीयते यदा | तदा समाधिः सविकल्पवर्जितः स्वतोऽद्वयानन्दरसानुभावकः ||३६२|| समाधिनाऽनेन समस्तवासना- ग्रन्थेर्विनाशोऽखिलकर्मनाशः | अन्तर्बहिः सर्वत एव सर्वदा स्वरूपविस्फूर्तिरयत्नतः स्यात् ||३६३|| श्रुतेः शतगुणं विद्यान्मननं मननादपि | निदिध्यासं लक्षगुणमनन्तं निर्विकल्पकम् ||३६४|| निर्विकल्पकसमाधिना स्फुटं ब्रह्मतत्त्वमवगम्यते ध्रुवम् | नान्यथा चलतया मनोगतेः प्रत्ययान्तरविमिश्रितं भवेत् ||३६५|| अतः समाधत्स्व यतेन्द्रियः सन् निरन्तरं शान्तमनाः प्रतीचि | विध्वंसय ध्वान्तमनाद्यविद्यया कृतं सदेकत्वविलोकनेन ||३६६|| योगस्य प्रथमद्वारं वाङ्निरोधोऽपरिग्रहः | निराशा च निरीहा च नित्यमेकान्तशीलता ||३६७|| एकान्तस्थितिरिन्द्रियोपरमणे हेतुर्दमश्चेतसः संरोधे करणं शमेन विलयं यायादहंवासना | तेनानन्दरसानुभूतिरचला ब्राह्मी सदा योगिनः तस्माच्चित्तनिरोध एव सततं कार्यः प्रयत्नो मुनेः ||३६८|| वाचं नियच्छात्मनि तं नियच्छ बुद्धौ धियं यच्छ च बुद्धिसाक्षिणि | तं चापि पूर्णात्मनि निर्विकल्पे विलाप्य शान्तिं परमां भजस्व ||३६९|| देहप्राणेन्द्रियमनोबुद्ध्यादिभिरुपाधिभिः | यैर्यैर्वृत्तेःसमायोगस्तत्तद्भावोऽस्य योगिनः ||३७०|| तन्निवृत्त्या मुनेः सम्यक् सर्वोपरमणं सुखम् | संदृश्यते सदानन्दरसानुभवविप्लवः ||३७१|| अन्तस्त्यागो बहिस्त्यागो विरक्तस्यैव युज्यते | त्यजत्यन्तर्बहिःसङ्गं विरक्तस्तु मुमुक्षया ||३७२|| बहिस्तु विषयैः सङ्गं तथान्तरहमादिभिः | विरक्त एव शक्नोति त्यक्तुं ब्रह्मणि निष्ठितः ||३७३|| वैराग्यबोधौ पुरुषस्य पक्षिवत् पक्षौ विजानीहि विचक्षण त्वम् | विमुक्तिसौधाग्रलताधिरोहणं ताभ्यां विना नान्यतरेण सिध्यति ||३७४|| अत्यन्तवैराग्यवतः समाधिः समाहितस्यैव दृढप्रबोधः | प्रबुद्धतत्त्वस्य हि बन्धमुक्तिः मुक्तात्मनो नित्यसुखानुभूतिः ||३७५|| वैराग्यान्न परं सुखस्य जनकं पश्यामि वश्यात्मनः तच्चेच्छुद्धतरात्मबोधसहितं स्वाराज्यसाम्राज्यधुक् | एतद्द्वारमजस्रमुक्तियुवतेर्यस्मात्त्वमस्मात्परं सर्वत्रास्पृहया सदात्मनि सदा प्रज्ञां कुरु श्रेयसे ||३७६|| आशां छिन्द्धि विषोपमेषु विषयेष्वेषैव मृत्योः कृति- स्त्यक्त्वा जातिकुलाश्रमेष्वभिमतिं मुञ्चातिदूरात्क्रियाः | देहादावसति त्यजात्मधिषणां प्रज्ञां कुरुष्वात्मनि त्वं द्रष्टास्यमनोऽसि निर्द्वयपरं ब्रह्मासि यद्वस्तुतः ||३७७|| लक्ष्ये ब्रह्मणि मानसं दृढतरं संस्थाप्य बाह्येन्द्रियं स्वस्थाने विनिवेश्य निश्चलतनुश्चोपेक्ष्य देहस्थितिम् | ब्रह्मात्मैक्यमुपेत्य तन्मयतया चाखण्डवृत्त्याऽनिशं ब्रह्मानन्दरसं पिबात्मनि मुदा शून्यैः किमन्यैर्भृशम् ||३७८|| अनात्मचिन्तनं त्यक्त्वा कश्मलं दुःखकारणम् | चिन्तयात्मानमानन्दरूपं यन्मुक्तिकारणम् ||३७९|| एष स्वयंज्योतिरशेषसाक्षी विज्ञानकोशो विलसत्यजस्रम् | लक्ष्यं विधायैनमसद्विलक्षण- मखण्डवृत्त्याऽऽत्मतयाऽनुभावय ||३८०|| एतमच्छीन्नया वृत्त्या प्रत्ययान्तरशून्यया | उल्लेखयन्विजानीयात्स्वस्वरूपतया स्फुटम् ||३८१|| अत्रात्मत्वं दृढीकुर्वन्नहमादिषु संत्यजन् | उदासीनतया तेषु तिष्ठेत्स्फुटघटादिवत् ||३८२|| विशुद्धमन्तःकरणं स्वरूपे निवेश्य साक्षिण्यवबोधमात्रे | शनैः शनैर्निश्चलतामुपानयन् पूर्णं स्वमेवानुविलोकयेत्ततः ||३८३|| देहेन्द्रियप्राणमनोऽहमादिभिः स्वाज्ञानक्लृप्तैरखिलैरुपाधिभिः | विमुक्तमात्मानमखण्डरूपं पूर्णं महाकाशमिवावलोकयेत् ||३८४|| घटकलशकुसूलसूचिमुख्यैः गगनमुपाधिशतैर्विमुक्तमेकम् | भवति न विविधं तथैव शुद्धं परमहमादिविमुक्तमेकमेव ||३८५|| ब्रह्मादिस्तम्बपर्यन्ता मृषामात्रा उपाधयः | ततः पूर्णं स्वमात्मानं पश्येदेकात्मना स्थितम् ||३८६|| यत्र भ्रान्त्या कल्पितं तद्विवेके तत्तन्मात्रं नैव तस्माद्विभिन्नम् | भ्रान्तेर्नाशे भाति दृष्टाहितत्त्वं रज्जुस्तद्वद्विश्वमात्मस्वरूपम् ||३८७|| स्वयं ब्रह्मा स्वयं विष्णुः स्वयमिन्द्रः स्वयं शिवः | स्वयं विश्वमिदं सर्वं स्वस्मादन्यन्न किञ्चन ||३८८|| अन्तः स्वयं चापि बहिः स्वयं च स्वयं पुरस्तात् स्वयमेव पश्चात् | स्वयं ह्यावाच्यां स्वयमप्युदीच्यां तथोपरिष्टात्स्वयमप्यधस्तात् ||३८९|| तरङ्गफेनभ्रमबुद्बुदादि सर्वं स्वरूपेण जलं यथा तथा | चिदेव देहाद्यहमन्तमेतत् सर्वं चिदेवैकरसं विशुद्धम् ||३९०|| सदेवेदं सर्वं जगदवगतं वाङ्मनसयोः सतोऽन्यन्नास्त्येव प्रकृतिपरसीम्नि स्थितवतः | पृथक् किं मृत्स्नायाः कलशघटकुम्भाद्यवगतं वदत्येष भ्रान्तस्त्वमहमिति मायामदिरया ||३९१|| क्रियासमभिहारेण यत्र नान्यदिति श्रुतिः | ब्रवीति द्वैतराहित्यं मिथ्याध्यासनिवृत्तये ||३९२|| आकाशवन्निर्मलनिर्विकल्पं निःसीमनिःस्पन्दननिर्विकारम् | अन्तर्बहिःशून्यमनन्यमद्वयं स्वयं परं ब्रह्म किमस्ति बोध्यम् ||३९३|| वक्तव्यं किमु विद्यतेऽत्र बहुधा ब्रह्मैव जीवः स्वयं ब्रह्मैतज्जगदाततं नु सकलं ब्रह्माद्वितीयं श्रुतिः | ब्रह्मैवाहमिति प्रबुद्धमतयः संत्यक्तबाह्याः स्फुटं ब्रह्मीभूय वसन्ति सन्ततचिदानन्दात्मनैतद्ध्रुवम् ||३९४|| जहि मलमयकोशेऽहंधियोत्थापिताशां प्रसभमनिलकल्पे लिङ्गदेहेऽपि पश्चात् | निगमगदितकीर्तिं नित्यमानन्दमूर्तिं स्वयमिति परिचीय ब्रह्मरूपेण तिष्ठ ||३९५|| शवाकारं यावद्भजति मनुजस्तावदशुचिः परेभ्यः स्यात्क्लेशो जननमरणव्याधिनिलयः | यदात्मानं शुद्धं कलयति शिवाकारमचलम् तदा तेभ्यो मुक्तो भवति हि तदाह श्रुतिरपि ||३९६|| स्वात्मन्यारोपिताशेषाभासवस्तुनिरासतः | स्वयमेव परं ब्रह्म पूर्णमद्वयमक्रियम् ||३९७|| समाहितायां सति चित्तवृत्तौ परात्मनि ब्रह्मणि निर्विकल्पे | न दृश्यते कश्चिदयं विकल्पः प्रजल्पमात्रः परिशिष्यते यतः ||३९८|| असत्कल्पो विकल्पोऽयं विश्वमित्येकवस्तुनि | निर्विकारे निराकारे निर्विशेषे भिदा कुतः ||३९९|| द्रष्टुदर्शनदृश्यादिभावशून्यैकवस्तुनि | निर्विकारे निराकारे निर्विशेषे भिदा कुतः ||४००|| कल्पार्णव इवात्यन्तपरिपूर्णैकवस्तुनि | निर्विकारे निराकारे निर्विशेषे भिदा कुतः ||४०१|| तेजसीव तमो यत्र प्रलीनं भ्रान्तिकारणम् | अद्वितीये परे तत्त्वे निर्विशेषे भिदा कुतः ||४०२|| एकात्मके परे तत्त्वे भेदवार्ता कथं वसेत् | सुषुप्तौ सुखमात्रायां भेदः केनावलोकितः ||४०३|| न ह्यस्ति विश्वं परतत्त्वबोधात् सदात्मनि ब्रह्मणि निर्विकल्पे | कालत्रये नाप्यहिरीक्षितो गुणे न ह्यम्बुबिन्दुर्मृगतृष्णिकायाम् ||४०४|| मायामात्रमिदं द्वैतमद्वैतं परमार्थतः | इति ब्रूते श्रुतिः साक्षात्सुषुप्तावनुभूयते ||४०५|| अनन्यत्वमधिष्ठानादारोप्यस्य निरीक्षितम् | पण्डितै रज्जुसर्पादौ विकल्पो भ्रान्तिजीवनः ||४०६|| चित्तमूलो विकल्पोऽयं चित्ताभावे न कश्चन | अतश्चित्तं समाधेहि प्रत्यग्रूपे परात्मनि ||४०७|| किमपि सततबोधं केवलानन्दरूपं निरुपममतिवेलं नित्यमुक्तं निरीहम् | निरवधिगगनाभं निष्कलं निर्विकल्पं हृदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ ||४०८|| प्रकृतिविकृतिशून्यं भावनातीतभावं समरसमसमानं मानसम्बन्धदूरम् | निगमवचनसिद्धं नित्यमस्मत्प्रसिद्धं हृदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ ||४०९|| अजरममरमस्ताभाववस्तुस्वरूपं स्तिमितसलिलराशिप्रख्यमाख्याविहीनम् | शमितगुणविकारं शाश्वतं शान्तमेकं हृदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ ||४१०|| समाहितान्तःकरणः स्वरूपे विलोकयात्मानमखण्डवैभवम् | विच्छिन्द्धि बन्धं भवगन्धगन्धितं यत्नेन पुंस्त्वं सफलीकुरुष्व ||४११- सर्वोपाधिविनिर्मुक्तं सच्चिदानन्दमद्वयम् | भावयात्मानमात्मस्थं न भूयः कल्पसेऽध्वने ||४१२|| छायेव पुंसः परिदृश्यमान्- माभासरूपेण फलानुभूत्या | शरीरमाराच्छववन्निरस्तं पुनर्न संधत्त इदं महात्मा ||४१३|| सततविमलबोधानन्दरूपं समेत्य त्यज जडमलरूपोपाधिमेतं सुदूरे | अथ पुनरपि नैष स्मर्यतां वान्तवस्तु स्मरणविषयभूतं कल्पते कुत्सनाय ||४१४|| समूलमेतत्परिदाह्य वह्नौ सदात्मनि ब्रह्मणि निर्विकल्पे | ततः स्वयं नित्यविशुद्धबोधा- नन्दात्मना तिष्ठति विद्वरिष्ठः ||४१५|| प्रारब्धसूत्रग्रथितं शरीरं प्रयातु वा तिष्ठतु गोरिव स्रक् | न तत्पुनः पश्यति तत्त्ववेत्ता- | अऽनन्दात्मनि ब्रह्मणि लीनवृत्तिः ||४१६|| अखण्डानन्दमात्मानं विज्ञाय स्वस्वरूपतः | किमिच्छन् कस्य वा हेतोर्देहं पुष्णाति तत्त्ववित् ||४१७|| संसिद्धस्य फलं त्वेतज्जीवन्मुक्तस्य योगिनः | बहिरन्तः सदानन्दरसास्वादनमात्मनि ||४१८|| वैराग्यस्य फलं बोधो बोधस्योपरतिः फलम् | स्वानन्दानुभवाच्छान्तिरेषैवोपरतेः फलम् ||४१९|| यद्युत्तरोत्तराभावः पूर्वपूर्वन्तु निष्फलम् | निवृत्तिः परमा तृप्तिरानन्दोऽनुपमः स्वतः ||४२०|| दृष्टदुःखेष्वनुद्वेगो विद्यायाः प्रस्तुतं फलम् | यत्कृतं भ्रान्तिवेलायां नाना कर्म जुगुप्सितम् | पश्चान्नरो विवेकेन तत्कथं कर्तुमर्हति ||४२१|| विद्याफलं स्यादसतो निवृत्तिः प्रवृत्तिरज्ञानफलं तदीक्षितम् | तज्ज्ञाज्ञयोर्यन्मृगतृष्णिकादौ नोचेद्विदां दृष्टफलं किमस्मात् ||४२२|| अज्ञानहृदयग्रन्थेर्विनाशो यद्यशेषतः | अनिच्छोर्विषयः किं नु प्रवृत्तेः कारणं स्वतः ||४२३|| वासनानुदयो भोग्ये वैरागस्य तदावधिः | अहंभावोदयाभावो बोधस्य परमावधिः | लीनवृत्तैरनुत्पत्तिर्मर्यादोपरतेस्तु सा ||४२४|| ब्रह्माकारतया सदा स्थिततया निर्मुक्तबाह्यार्थधी- रन्यावेदितभोग्यभोगकलनो निद्रालुवद्बालवत् | स्वप्नालोकितलोकवज्जगदिदं पश्यन्क्वचिल्लब्धधी- रास्ते कश्चिदनन्तपुण्यफलभुग्धन्यः स मान्यो भुवि ||४२५|| स्थितप्रज्ञो यतिरयं यः सदानन्दमश्नुते | ब्रह्मण्येव विलीनात्मा निर्विकारो विनिष्क्रियः ||४२६|| ब्रह्मात्मनोः शोधितयोरेकभावावगाहिनी | निर्विकल्पा च चिन्मात्रा वृत्तिः प्रज्ञेति कथ्यते | सुस्थिताऽसौ भवेद्यस्य स्थितप्रज्ञः स उच्यते ||४२७|| यस्य स्थिता भवेत्प्रज्ञा यस्यानन्दो निरन्तरः | प्रपञ्चो विस्मृतप्रायः स जीवन्मुक्त इष्यते ||४२८|| लीनधीरपि जागर्ति जाग्रद्धर्मविवर्जितः | बोधो निर्वासनो यस्य स जीवन्मुक्त इष्यते ||४२९|| शान्तसंसारकलनः कलावानपि निष्कलः | यस्य चित्तं विनिश्चिन्तं स जीवन्मुक्त इष्यते ||४३०|| वर्तमानेऽपि देहेऽस्मिञ्छायावदनुवर्तिनि | अहन्ताममताऽभावो जीवन्मुक्तस्य लक्षणम् ||४३१|| अतीताननुसन्धानं भविष्यदविचारणम् | औदासीन्यमपि प्राप्तं जीवन्मुक्तस्य लक्षणम् ||४३२|| गुणदोषविशिष्टेऽस्मिन्स्वभावेन विलक्षणे | सर्वत्र समदर्शित्वं जीवन्मुक्तस्य लक्षणम् ||४३३|| इष्टानिष्टार्थसम्प्राप्तौ समदर्शितयाऽऽत्मनि | उभयत्राविकारित्वं जीवन्मुक्तस्य लक्षणम् ||४३४|| ब्रह्मानन्दरसास्वादासक्तचित्ततया यतेः | अन्तर्बहिरविज्ञानं जीवन्मुक्तस्य लक्षणम् ||४३५|| देहेन्द्रियादौ कर्तव्ये ममाहंभाववर्जितः | औदासीन्येन यस्तिष्ठेत्स जीवन्मुक्तलक्षणः ||४३६|| विज्ञात आत्मनो यस्य ब्रह्मभावः श्रुतेर्बलात् | भवबन्धविनिर्मुक्तः स जीवन्मुक्तलक्षणः ||४३७|| देहेन्द्रियेष्वहंभाव इदंभावस्तदन्यके | यस्य नो भवतः क्वापि स जीवन्मुक्त इष्यते ||४३८|| न प्रत्यग्ब्रह्मणोर्भेदं कदापि ब्रह्मसर्गयोः | प्रज्ञया यो विजानिति स जीवन्मुक्तलक्षणः ||४३९|| साधुभिः पूज्यमानेऽस्मिन्पीड्यमानेऽपि दुर्जनैः | समभावो भवेद्यस्य स जीवन्मुक्तलक्षणः ||४४०|| यत्र प्रविष्टा विषयाः परेरिता नदीप्रवाहा इव वारिराशौ | लिनन्ति सन्मात्रतया न विक्रियां उत्पादयन्त्येष यतिर्विमुक्तः ||४४१|| विज्ञातब्रह्मतत्त्वस्य यथापूर्वं न संसृतिः | अस्ति चेन्न स विज्ञातब्रह्मभावो बहिर्मुखः ||४४२|| प्राचीनवासनावेगादसौ संसरतीति चेत् | न सदेकत्वविज्ञानान्मन्दी भवति वासना ||४४३|| अत्यन्तकामुकस्यापि वृत्तिः कुण्ठति मातरि | तथैव ब्रह्मणि ज्ञाते पूर्णानन्दे मनीषिणः ||४४४|| निदिध्यासनशीलस्य बाह्यप्रत्यय ईक्ष्यते | ब्रवीति श्रुतिरेतस्य प्रारब्धं फलदर्शनात् ||४४५|| सुखाद्यनुभवो यावत्तावत्प्रारब्धमिष्यते | फलोदयः क्रियापूर्वो निष्क्रियो न हि कुत्रचित् ||४४६|| अहं ब्रह्मेति विज्ञानात्कल्पकोटिशतार्जितम् | सञ्चितं विलयं याति प्रबोधात्स्वप्नकर्मवत् ||४४७|| यत्कृतं स्वप्नवेलायां पुण्यं वा पापमुल्बणम् | सुप्तोत्थितस्य किन्तत्स्यात्स्वर्गाय नरकाय वा ||४४८|| स्वमसङ्गमुदासीनं परिज्ञाय नभो यथा | न श्लिष्यति च यक्किञ्चित्कदाचिद्भाविकर्मभिः ||४४९|| न नभो घटयोगेन सुरागन्धेन लिप्यते | तथात्मोपाधियोगेन तद्धर्मैर्नैव लिप्यते ||४५०|| ज्ञानोदयात्पुरारब्धं कर्मज्ञानान्न नश्यति | अदत्वा स्वफलं लक्ष्यमुद्दिश्योत्सृष्टबाणवत् ||४५१|| व्याघ्रबुद्ध्या विनिर्मुक्तो बाणः पश्चात्तु गोमतौ | न तिष्ठति छिनत्येव लक्ष्यं वेगेन निर्भरम् ||४५२|| प्रारब्धं बलवत्तरं खलु विदां भोगेन तस्य क्षयः सम्यग्ज्ञानहुताशनेन विलयः प्राक्संचितागामिनाम् | ब्रह्मात्मैक्यमवेक्ष्य तन्मयतया ये सर्वदा संस्थिताः तेषां तत्त्रितयं नहि क्वचिदपि ब्रह्मैव ते निर्गुणम् ||४५३|| उपाधितादात्म्यविहीनकेवल- ब्रह्मात्मनैवात्मनि तिष्ठतो मुनेः | प्रारब्धसद्भावकथा न युक्ता स्वप्नार्थसंबन्धकथेव जाग्रतः ||४५४|| न हि प्रबुद्धः प्रतिभासदेहे देहोपयोगिन्यपि च प्रपञ्चे | करोत्यहन्तां ममतानिदन्तां किन्तु स्वयं तिष्ठति जागरेण ||४५५|| न तस्य मिथ्यार्थसमर्थनेच्छा न संग्रहस्तज्जगतोऽपि दृष्टः | तत्रानुवृत्तिर्यदि चेन्मृषार्थे न निद्रया मुक्त इतीष्यते ध्रुवम् ||४५६|| तद्वत्परे ब्रह्मणि वर्तमानः सदात्मना तिष्ठति नान्यदीक्षते | स्मृतिर्यथा स्वप्नविलोकितार्थे तथा विदः प्राशनमोचनादौ ||४५७|| कर्मणा निर्मितो देहः प्रारब्धं तस्य कल्प्यताम् | नानादेरात्मनो युक्तं नैवात्मा कर्मनिर्मितः ||४५८|| अजो नित्यः शाश्वत इति ब्रूते श्रुतिरमोघवाक् | तदात्मना तिष्ठतोऽस्य कुतः प्रारब्धकल्पना ||४५९|| प्रारब्धं सिध्यति तदा यदा देहात्मना स्थितिः | देहात्मभावो नैवेष्टः प्रारब्धं त्यज्यतामतः ||४६०|| शरीरस्यापि प्रारब्धकल्पना भ्रान्तिरेव हि | अध्यस्तस्य कुतः सत्त्वमसत्यस्य कुतो जनिः | अजातस्य कुतो नाशः प्रारब्धमसतः कुतः ||४६१|| ज्ञानेनाज्ञानकार्यस्य समूलस्य लयो यदि | तिष्ठत्ययं कथं देह इति शङ्कावतो जडान् ||४६२|| समाधातुं बाह्यदृष्ट्या प्रारब्धं वदति श्रुतिः | न तु देहादिसत्यत्वबोधनाय विपश्चिताम् ||४६३|| परिपूर्णमनाद्यन्तमप्रमेयमविक्रियम् | एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ||४६४|| सद्घनं चिद्घनं नित्यमानन्दघनमक्रियम् | एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ||४६५|| प्रत्यगेकरसं पूर्णमनन्तं सर्वतोमुखम् | एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ||४६६|| अहेयमनुपादेयमनादेयमनाश्रयम् | एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ||४६७|| निर्गुणं निष्कलं सूक्ष्मं निर्विकल्पं निरञ्जनम् | एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ||४६८|| अनिरूप्य स्वरूपं यन्मनोवाचामगोचरम् | एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ||४६९|| सत्समृद्धं स्वतःसिद्धं शुद्धं बुद्धमनीदृशम् | एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ||४७०|| निरस्तरागा विनिरस्तभोगाः शान्ताः सुदान्ता यतयो महान्तः | विज्ञाय तत्त्वं परमेतदन्ते प्राप्ताः परां निर्वृतिमात्मयोगात् ||४७१|| भवानपीदं परतत्त्वमात्मनः स्वरूपमानन्दघनं विचार्य | विधूय मोहं स्वमनःप्रकल्पितं मुक्तः कृतार्थो भवतु प्रबुद्धः ||४७२|| समाधिना साधुविनिश्चलात्मना पश्यात्मतत्त्वं स्फुटबोधचक्षुषा | निःसंशयं सम्यगवेक्षितश्चे- च्छ्रुतः पदार्थो न पुनर्विकल्प्यते ||४७३|| स्वस्याविद्याबन्धसम्बन्धमोक्षा- त्सत्यज्ञानानन्दरूपात्मलब्धौ | शास्त्रं युक्तिर्देशिकोक्तिः प्रमाणं चान्तःसिद्धा स्वानुभूतिः प्रमाणम् ||४७४|| बन्धो मोक्षश्च तृप्तिश्च चिन्ताऽऽरोग्यक्षुधादयः | स्वेनैव वेद्या यज्ज्ञानं परेषामानुमानिकम् ||४७५|| तटस्थिता बोधयन्ति गुरवः श्रुतयो यथा | प्रज्ञयैव तरेद्विद्वानीश्वरानुगृहीतया ||४७६|| स्वानुभूत्या स्वयं ज्ञात्वा स्वमात्मानमखण्डितम् | संसिद्धः सम्मुखं तिष्ठेन्निर्विकल्पात्मनाऽऽत्मनि ||४७७|| वेदान्तसिद्धान्तनिरुक्तिरेषा ब्रह्मैव जीवः सकलं जगच्च | अखण्डरूपस्थितिरेव मोक्षो ब्रह्माद्वितीये श्रुतयः प्रमाणम् ||४७८|| इति गुरुवचनाच्छ्रुतिप्रमाणात् परमवगम्य सतत्त्वमात्मयुक्त्या | प्रशमितकरणः समाहितात्मा क्वचिदचलाकृतिरात्मनिष्ठतोऽभूत् ||४७९|| किञ्चित्कालं समाधाय परे ब्रह्मणि मानसम् | उत्थाय परमानन्दादिदं वचनमब्रवीत् ||४८०|| बुद्धिर्विनष्टा गलिता प्रवृत्तिः ब्रह्मात्मनोरेकतयाऽधिगत्या | इदं न जानेऽप्यनिदं न जाने किं वा कियद्वा सुखमस्त्यपारम् ||४८१|| वाचा वक्तुमशक्यमेव मनसा मन्तुं न वा शक्यते स्वानन्दामृतपूरपूरितपरब्रह्माम्बुधेर्वैभवम् | अम्भोराशिविशीर्णवार्षिकशिलाभावं भजन्मे मनो यस्यांशांशलवे विलीनमधुनाऽऽनन्दात्मना निर्वृतम् ||४८२|| क्व गतं केन वा नीतं कुत्र लीनमिदं जगत् | अधुनैव मया दृष्टं नास्ति किं महदद्भुतम् ||४८३|| किं हेयं किमुपादेयं किमन्यत्किं विलक्षणम् | अखण्डानन्दपीयूषपूर्णे ब्रह्ममहार्णवे ||४८४|| न किञ्चिदत्र पश्यामि न शृणोमि न वेद्म्यहम् | स्वात्मनैव सदानन्दरूपेणास्मि विलक्षणः ||४८५|| नमो नमस्ते गुरवे महात्मने विमुक्तसङ्गाय सदुत्तमाय | नित्याद्वयानन्दरसस्वरूपिणे भूम्ने सदाऽपारदयाम्बुधाम्ने ||४८६|| यत्कटाक्षशशिसान्द्रचन्द्रिका- पातधूतभवतापजश्रमः | प्राप्तवानहमखण्डवैभवा- नन्दमात्मपदमक्षयं क्षणात् ||४८७|| धन्योऽहं कृतकृत्योऽहं विमुक्तोऽहं भवग्रहात् | नित्यानन्दस्वरूपोऽहं पूर्णोऽहं त्वदनुग्रहात् ||४८८|| असङ्गोऽहमनङ्गोऽहमलिङ्गोऽहमभङ्गुरः | प्रशान्तोऽहमनन्तोऽहममलोऽहं चिरन्तनः ||४८९|| अकर्ताहमभोक्ताहमविकारोऽहमक्रियः | शुद्धबोधस्वरूपोऽहं केवलोऽहं सदाशिवः ||४९०|| द्रष्टुः श्रोतुर्वक्तुः कर्तुर्भोक्तुर्विभिन्न एवाहम् | नित्यनिरन्तरनिष्क्रियनिःसीमासङ्गपूर्णबोधात्मा ||४९१|| नाहमिदं नाहमदोऽप्युभयोरवभासकं परं शुद्धम् | बाह्याभ्यन्तरशून्यं पूर्णं ब्रह्माद्वितीयमेवाहम् ||४९२|| निरुपममनादितत्त्वं त्वमहमिदमद इति कल्पनादूरम् | नित्यानन्दैकरसं सत्यं ब्रह्माद्वितीयमेवाहम् ||४९३|| नारायणोऽहं नरकान्तकोऽहं पुरान्तकोऽहं पुरुषोऽहमीशः | अखण्डबोधोऽहमशेषसाक्षी निरीश्वरोऽहं निरहं च निर्ममः ||४९४|| सर्वेषु भूतेष्वहमेव संस्थितो ज्ञानात्मनाऽन्तर्बहिराश्रयः सन् | भोक्ता च भोग्यं स्वयमेव सर्वं यद्यत्पृथग्दृष्टमिदन्तया पुरा ||४९५|| मय्यखण्डसुखाम्भोधौ बहुधा विश्ववीचयः | उत्पद्यन्ते विलीयन्ते मायामारुतविभ्रमात् ||४९६|| स्थुलादिभावा मयि कल्पिता भ्रमा- दारोपितानुस्फुरणेन लोकैः | काले यथा कल्पकवत्सराय- णर्त्वा दयो निष्कलनिर्विकल्पे ||४९७|| आरोपितं नाश्रयदूषकं भवेत् कदापि मूढैरतिदोषदूषितैः | नार्द्रिकरोत्यूषरभूमिभागं मरीचिकावारि महाप्रवाहः ||४९८|| आकाशवल्लेपविदूरगोऽहं आदित्यवद्भास्यविलक्षणोऽहम् | अहार्यवन्नित्यविनिश्चलोऽहं अम्भोधिवत्पारविवर्जितोऽहम् ||४९९|| न मे देहेन सम्बन्धो मेघेनेव विहायसः | अतः कुतो मे तद्धर्मा जाग्रत्स्वप्नसुषुप्तयः ||५००|| उपाधिरायाति स एव गच्छति स एव कर्माणि करोति भुङ्क्ते | स एव जीर्यन् म्रियते सदाहं कुलाद्रिवन्निश्चल एव संस्थितः ||५०१|| न मे प्रवृत्तिर्न च मे निवृत्तिः सदैकरूपस्य निरंशकस्य | एकात्मको यो निविडो निरन्तरो व्योमेव पूर्णः स कथं नु चेष्टते ||५०२|| पुण्यानि पापानि निरिन्द्रियस्य निश्चेतसो निर्विकृतेर्निराकृतेः | कुतो ममाखण्डसुखानुभूतेः ब्रूते ह्यनन्वागतमित्यपि श्रुतिः ||५०३|| छायया स्पृष्टमुष्णं वा शीतं वा सुष्ठु दुःष्ठु वा | न स्पृशत्येव यत्किञ्चित्पुरुषं तद्विलक्षणम् ||५०४|| न साक्षिणं साक्ष्यधर्माः संस्पृशन्ति विलक्षणम् | अविकारमुदासीनं गृहधर्माः प्रदीपवत् ||५०५|| रवेर्यथा कर्मणि साक्षिभावो वह्नेर्यथा दाहनियामकत्वम् | रज्जोर्यथाऽऽरोपितवस्तुसङ्गः तथैव कूटस्थचिदात्मनो मे ||५०६|| कर्तापि वा कारयितापि नाहं भोक्तापि वा भोजयितापि नाहम् | द्रष्टापि वा दर्शयितापि नाहं सोऽहं स्वयंज्योतिरनीदृगात्मा ||५०७|| चलत्युपाधौ प्रतिबिम्बलौल्य- मौपाधिकं मूढधियो नयन्ति | स्वबिम्बभूतं रविवद्विनिष्क्रियं कर्तास्मि भोक्तास्मि हतोऽस्मि हेति ||५०८|| जले वापि स्थले वापि लुठत्वेष जडात्मकः | नाहं विलिप्ये तद्धर्मैर्घटधर्मैर्नभो यथा ||५०९|| कर्तृत्वभोक्तृत्वखलत्वमत्तता- जडत्वबद्धत्वविमुक्ततादयः | बुद्धेर्विकल्पा न तु सन्ति वस्तुतः स्वस्मिन्परे ब्रह्मणि केवलेऽद्वये ||५१०|| सन्तु विकाराः प्रकृतेर्दशधा शतधा सहस्रधा वापि | किं मेऽसङ्गचितस्तैर्न घनः क्वचिदम्बरं स्पृशति ||५११|| अव्यक्तादिस्थूलपर्यन्तमेतत् विश्वं यत्राभासमात्रं प्रतीतम् | व्योमप्रख्यं सूक्ष्ममाद्यन्तहीनं ब्रह्माद्वैतं यत्तदेवाहमस्मि ||५१२|| सर्वाधारं सर्ववस्तुप्रकाशं सर्वाकारं सर्वगं सर्वशून्यम् | नित्यं शुद्धं निश्चलं निर्विकल्पं ब्रह्माद्वैतं यत्तदेवाहमस्मि ||५१३|| यत्प्रत्यस्ताशेषमायाविशेषं प्रत्यग्रूपं प्रत्ययागम्यमानम् | सत्यज्ञानानन्तमानन्दरूपं ब्रह्माद्वैतं यत्तदेवाहमस्मि ||५१४|| निष्क्रियोऽस्म्यविकारोऽस्मि निष्कलोऽस्मि निराकृतिः | निर्विकल्पोऽस्मि नित्योऽस्मि निरालम्बोऽस्मि निर्द्वयः ||५१५|| सर्वात्मकोऽहं सर्वोऽहं सर्वातीतोऽहमद्वयः | केवलाखण्डबोधोऽहमानन्दोऽहं निरन्तरः ||५१६|| स्वाराज्यसाम्राज्यविभूतिरेषा भवत्कृपाश्रीमहिमप्रसादात् | प्राप्ता मया श्रीगुरवे महात्मने नमो नमस्तेऽस्तु पुनर्नमोऽस्तु ||५१७|| महास्वप्ने मायाकृतजनिजरामृत्युगहने भ्रमन्तं क्लिश्यन्तं बहुलतरतापैरनुदिनम् | अहंकारव्याघ्रव्यथितमिममत्यन्तकृपया प्रबोध्य प्रस्वापात्परमवितवान्मामसि गुरो ||५१८|| नमस्तस्मै सदैकस्मै कस्मैचिन्महसे नमः | यदेतद्विश्वरूपेण राजते गुरुराज ते ||५१९|| इति नतमवलोक्य शिष्यवर्यं समधिगतात्मसुखं प्रबुद्धतत्त्वम् | प्रमुदितहृदयं स देशिकेन्द्रः पुनरिदमाह वचः परं महात्मा ||५२०|| ब्रह्मप्रत्ययसन्ततिर्जगदतो ब्रह्मैव तत्सर्वतः पश्याध्यात्मदृशा प्रशान्तमनसा सर्वास्ववस्थास्वपि | रूपादन्यदवेक्षितं किमभितश्चक्षुष्मतां दृश्यते तद्वद्ब्रह्मविदः सतः किमपरं बुद्धेर्विहारास्पदम् ||५२१|| कस्तां परानन्दरसानुभूति- मृत्सृज्य शून्येषु रमेत विद्वान् | चन्द्रे महाह्लादिनि दीप्यमाने चित्रेन्दुमालोकयितुं क इच्छेत् ||५२२|| असत्पदार्थानुभवेन किञ्चिन् न ह्यस्ति तृप्तिर्न च दुःखहानिः | तदद्वयानन्दरसानुभूत्या तृप्तः सुखं तिष्ठ सदात्मनिष्ठया ||५२३|| स्वमेव सर्वथा पश्यन्मन्यमानः स्वमद्वयम् | स्वानन्दमनुभुञ्जानः कालं नय महामते ||५२४|| अखण्डबोधात्मनि निर्विकल्पे विकल्पनं व्योम्नि पुरप्रकल्पनम् | तदद्वयानन्दमयात्मना सदा शान्तिं परामेत्य भजस्व मौनम् ||५२५|| तूष्णीमवस्था परमोपशान्तिः बुद्धेरसत्कल्पविकल्पहेतोः | ब्रह्मात्मनो ब्रह्मविदो महात्मनो यत्राद्वयानन्दसुखं निरन्तरम् ||५२६|| नास्ति निर्वासनान्मौनात्परं सुखकृदुत्तमम् | विज्ञातात्मस्वरूपस्य स्वानन्दरसपायिनः ||५२७|| गच्छंस्तिष्ठन्नुपविशञ्छयानो वाऽन्यथापि वा | यथेच्छया वसेद्विद्वानात्मारामः सदा मुनिः ||५२८|| न देशकालासनदिग्यमादि- लक्ष्याद्यपेक्षाऽप्रतिबद्धवृत्तेः | संसिद्धतत्त्वस्य महात्मनोऽस्ति स्ववेदने का नियमाद्यवस्था ||५२९|| घटोऽयमिति विज्ञातुं नियमः कोऽन्ववेक्षते | विना प्रमाणसुष्ठुत्वं यस्मिन्सति पदार्थधीः ||५३०|| अयमात्मा नित्यसिद्धः प्रमाणे सति भासते | न देशं नापि कालं न शुद्धिं वाप्यपेक्षते ||५३१|| देवदत्तोऽहमोत्येतद्विज्ञानं निरपेक्षकम् | तद्वद्ब्रह्मविदोऽप्यस्य ब्रह्माहमिति वेदनम् ||५३२|| भानुनेव जगत्सर्वं भासते यस्य तेजसा | अनात्मकमसत्तुच्छं किं नु तस्यावभासकम् ||५३३|| वेदशास्त्रपुराणानि भूतानि सकलान्यपि | येनार्थवन्ति तं किन्नु विज्ञातारं प्रकाशयेत् ||५३४|| एष स्वयंज्योतिरनन्तशक्तिः आत्माऽप्रमेयः सकलानुभूतिः | यमेव विज्ञाय विमुक्तबन्धो जयत्ययं ब्रह्मविदुत्तमोत्तमः ||५३५|| न खिद्यते नो विषयैः प्रमोदते न सज्जते नापि विरज्यते च | स्वस्मिन्सदा क्रीडति नन्दति स्वयं निरन्तरानन्दरसेन तृप्तः ||५३६|| क्षुधां देहव्यथां त्यक्त्वा बालः क्रीडति वस्तुनिः | तथैव विद्वान् रमते निर्ममो निरहं सुखी ||५३७|| चिन्ताशून्यमदैन्यभैक्षमशनं पानं सरिद्वारिषु स्वातन्त्र्येण निरंकुशा स्थितिरभीर्निद्रा श्मशाने वने | वस्त्रं क्षालनशोषणादिरहितं दिग्वास्तु शय्या मही संचारो निगमान्तवीथिषु विदां क्रीडा परे ब्रह्मणि ||५३८|| विमानमालम्ब्य शरीरमेतद् भुनक्त्यशेषान्विषयानुपस्थितान् | परेच्छया बालवदात्मवेत्ता योऽव्यक्तलिङ्गोऽननुषक्तबाह्यः ||५३९|| दिगम्बरो वापि च साम्बरो वा त्वगम्बरो वापि चिदम्बरस्थः | उन्मत्तवद्वापि च बालवद्वा पिशाचवद्वापि चरत्यवन्याम् ||५४०|| कामान्निष्कामरूपी संश्चरत्येकचारो मुनिः | स्वात्मनैव सदा तुष्टः स्वयं सर्वात्मना स्थितः ||५४१|| क्वचिन्मूढो विद्वान् क्वचिदपि महाराजविभवः क्वचिद्भ्रान्तः सौम्यः क्वचिदजगराचारकलितः | क्वचित्पात्रीभूतः क्वचिदवमतः क्वाप्यविदितः चरत्येवं प्राज्ञः सततपरमानन्दसुखितः ||५४२|| निर्धनोऽपि सदा तुष्टोऽप्यसहायो महाबलः | नित्यतृप्तोऽप्यभुञ्जानोऽप्यसमः समदर्शनः ||५४३|| अपि कुर्वन्नकुर्वाणश्चाभोक्ता फलभोग्यपि | शरीर्यप्यशरीर्येष परिच्छिन्नोऽपि सर्वगः ||५४४|| अशरीरं सदा सन्तमिमं ब्रह्मविदं क्वचित् | प्रियाप्रिये न स्पृशतस्तथैव च शुभाशुभे ||५४५|| स्थूलादिसम्बन्धवतोऽभिमानिनः सुखं च दुःखं च शुभाशुभे च | विध्वस्तबन्धस्य सदात्मनो मुनेः कुतः शुभं वाऽप्यशुभं फलं वा ||५४६|| तमसा ग्रस्तवद्भानादग्रस्तोऽपि रविर्जनैः | ग्रस्त इत्युच्यते भ्रान्त्यां ह्यज्ञात्वा वस्तुलक्षणम् ||५४७|| तद्वद्देहादिबन्धेभ्यो विमुक्तं ब्रह्मवित्तमम् | पश्यन्ति देहिवन्मूढाः शरीराभासदर्शनात् ||५४८|| अहिर्निर्ल्वयनीं वायं मुक्त्वा देहं तु तिष्ठति | इतस्ततश्चाल्यमानो यत्किञ्चित्प्राणवायुना ||५४९|| स्त्रोतसा नीयते दारु यथा निम्नोन्नतस्थलम् | दैवेन नीयते देहो यथाकालोपभुक्तिषु ||५५०|| प्रारब्धकर्मपरिकल्पितवासनाभिः संसारिवच्चरति भुक्तिषु मुक्तदेहः | सिद्धः स्वयं वसति साक्षिवदत्र तूष्णीं चक्रस्य मूलमिव कल्पविकल्पशून्यः ||५५१|| नैवेन्द्रियाणि विषयेषु नियुंक्त एष नैवापयुंक्त उपदर्शनलक्षणस्थः | नैव क्रियाफलमपीषदवेक्षते स स्वानन्दसान्द्ररसपानसुमत्तचित्तः ||५५२|| लक्ष्यालक्ष्यगतिं त्यक्त्वा यस्तिष्ठेत्केवलात्मना | शिव एव स्वयं साक्षादयं ब्रह्मविदुत्तमः ||५५३|| जीवन्नेव सदा मुक्तः कृतार्थो ब्रह्मवित्तमः | उपाधिनाशाद्ब्रह्मैव सन् ब्रह्माप्येति निर्द्वयम् ||५५४|| शैलूषो वेषसद्भावाभावयोश्च यथा पुमान् | तथैव ब्रह्मविच्छ्रेष्ठः सदा ब्रह्मैव नापरः ||५५५|| यत्र क्वापि विशीर्णं सत्पर्णमिव तरोर्वपुः पततात् | ब्रह्मीभूतस्य यतेः प्रागेव तच्चिदग्निना दग्धम् ||५५६|| सदात्मनि ब्रह्मणि तिष्ठतो मुनेः पूर्णाऽद्वयानन्दमयात्मना सदा | न देशकालाद्युचितप्रतीक्षा त्वङ्मांसविट्पिण्डविसर्जनाय ||५५७|| देहस्य मोक्षो नो मोक्षो न दण्डस्य कमण्डलोः | अविद्याहृदयग्रन्थिमोक्षो मोक्षो यतस्ततः ||५५८|| कुल्यायामथ नद्यां वा शिवक्षेत्रेऽपि चत्वरे | पर्णं पतति चेत्तेन तरोः किं नु शुभाशुभम् ||५५९|| पत्रस्य पुष्पस्य फलस्य नाशवद्- देहेन्द्रियप्राणधियां विनाशः | नैवात्मनः स्वस्य सदात्मकस्या- नन्दाकृतेर्वृक्षवदस्ति चैषः ||५६०|| प्रज्ञानघन इत्यात्मलक्षणं सत्यसूचकम् | अनूद्यौपाधिकस्यैव कथयन्ति विनाशनम् ||५६१|| अविनाशी वा अरेऽयमात्मेति श्रुतिरात्मनः | प्रब्रवीत्यविनाशित्वं विनश्यत्सु विकारिषु ||५६२|| पाषाणवृक्षतृणधान्यकडङ्कराद्या दग्धा भवन्ति हि मृदेव यथा तथैव | देहेन्द्रियासुमन आदि समस्तदृश्यं ज्ञानाग्निदग्धमुपयाति परात्मभावम् ||५६३|| विलक्षणं यथा ध्वान्तं लीयते भानुतेजसि | तथैव सकलं दृश्यं ब्रह्मणि प्रविलीयते ||५६४|| घटे नष्टे यथा व्योम व्योमैव भवति स्फुटम् | तथैवोपाधिविलये ब्रह्मैव ब्रह्मवित्स्वयम् ||५६५|| क्षीरं क्षीरे यथा क्षिप्तं तैलं तैले जलं जले | संयुक्तमेकतां याति तथाऽऽत्मन्यात्मविन्मुनिः ||५६६|| एवं विदेहकैवल्यं सन्मात्रत्वमखण्डितम् | ब्रह्मभावं प्रपद्यैष यतिर्नावर्तते पुनः ||५६७|| सदात्मैकत्वविज्ञानदग्धाविद्यादिवर्ष्मणः | अमुष्य ब्रह्मभूतत्वाद् ब्रह्मणः कुत उद्भवः ||५६८|| मायाक्लृप्तौ बन्धमोक्षौ न स्तः स्वात्मनि वस्तुतः | यथा रज्जौ निष्क्रियायां सर्पाभासविनिर्गमौ ||५६९|| आवृतेः सदसत्त्वाभ्यां वक्तव्ये बन्धमोक्षणे | नावृतिर्ब्रह्मणः काचिदन्याभावादनावृतम् | यद्यस्त्यद्वैतहानिः स्याद् द्वैतं नो सहते श्रुतिः ||५७०|| बन्धञ्च मोक्षञ्च मृषैव मूढा बुद्धेर्गुणं वस्तुनि कल्पयन्ति | दृगावृतिं मेघकृतां यथा रवौ यतोऽद्वयाऽसङ्गचिदेतदक्षरम् ||५७१|| अस्तीति प्रत्ययो यश्च यश्च नास्तीति वस्तुनि | बुद्धेरेव गुणावेतौ न तु नित्यस्य वस्तुनः ||५७२|| अतस्तौ मायया क्लृप्तौ बन्धमोक्षौ न चात्मनि | निष्कले निष्क्रिये शान्ते निरवद्ये निरञ्जने | अद्वितीये परे तत्त्वे व्योमवत्कल्पना कुतः ||५७३|| न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः | न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ||५७४|| सकलनिगमचूडास्वान्तसिद्धान्तरूपं परमिदमतिगुह्यं दर्शितं ते मयाद्य | अपगतकलिदोषं कामनिर्मुक्तबुद्धिं स्वसुतवदसकृत्त्वां भाव्यित्वा मुमुक्षुम् ||५७५|| इति श्रुत्वा गुरोर्वाक्यं प्रश्रयेण कृतानतिः | स तेन समनुज्ञातो ययौ निर्मुक्तबन्धनः ||५७६|| गुरुरेव सदानन्दसिन्धौ निर्मग्नमानसः | पावयन्वसुधां सर्वां विचचार निरन्तरः ||५७७|| इत्याचार्यस्य शिष्यस्य संवादेनात्मलक्षणम् | निरूपितं मुमुक्षूणां सुखबोधोपपत्तये ||५७८|| हितमिदमुपदेशमाद्रियन्तां विहितनिरस्तसमस्तचित्तदोषाः | भवसुखविरताः प्रशान्तचित्ताः श्रुतिरसिका यतयो मुमुक्षवो ये ||५७९|| संसाराध्वनि तापभानुकिरणप्रोद्भूतदाहव्यथा- खिन्नानां जलकांक्षया मरुभुवि भ्रान्त्या परिभ्राम्यताम् | अत्यासन्नसुधाम्बुधिं सुखकरं ब्रह्माद्वयं दर्शय- त्येषा शङ्करभारती विजयते निर्वाणसंदायिनी ||५८०|| ||इति शंकराचार्यविरचितं विवेकचूडामणि || ||ॐ तत्सत् || </poem> * Bulleted list item ''''Italic text'''' '''Bold text''' [[वर्गः:संस्कृतग्रन्थाः]] [[वर्गः:चित्रं योजनीयम्]] ⏎ ⏎ [[वर्गः:सारमञ्जूषा योजनीया]] [[वर्गः:बाह्यानुबन्धः योजनीयः]]⏎ [[वर्गः:भाषानुबन्धः योजनीयः]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sa.wikipedia.org/w/index.php?diff=prev&oldid=253215.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|