Difference between revisions 309760 and 339252 on sawiki

{{Orphan|date=जनुवरि २०१४}}

[[File:Bhagvad Gita.jpg|thumb|right|300px|गीतोपदेशः]]
:'''तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।'''
:'''प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥ १७ ॥'''

==पदच्छेदः==
तेषां ज्ञानी नित्ययुक्तः एकभक्तिः विशिष्यते प्रियः हि ज्ञानिनः अत्यर्थम् अहं स च मम प्रियः ॥ १७ ॥

==अन्वयः==
तेषां नित्ययुक्तः एकभक्तिः ज्ञानी विशिष्यते । अहं हि ज्ञानिनः अत्यर्थं प्रियः । सः च मम प्रियः ।

==पदार्थः==
:तेषाम् = तेषु
:नित्ययुक्तः = सततयोगी
:एकभक्तिः = अनन्यभक्तिः
:ज्ञानी = ज्ञानवान्
:विशिष्यते = अतिरिच्यते
:अहं हि = अहम्
:ज्ञानिनः = ज्ञानवतः
:अत्यर्थम् = अतिशयेन
:प्रियः = अभीष्टः
:सः च = सः अपि
:मम = मे
:प्रियः = अभीष्टः ।

==तात्पर्यम्==
तेषां सततयोगी अनन्यभक्तिः ज्ञानी विशिष्यते । अहं ज्ञानवतः अतीव प्रियः । सोऽपि मम अतीव प्रियः ।

==बाह्यसम्पर्कतन्तुः==

{{Interwiki conflict}}

[[वर्गः:अनपेक्षितानि-भगवद्गीता]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]

[[eo:Bhagavadgitao]]
[[es:Bhagavad-gītā]]
[[tr:Bhagavadgita]]
{{Interwiki conflict}}