Difference between revisions 339252 and 366401 on sawiki{{Orphan|date=जनुवरि २०१४}} [[File:Bhagvad Gita.jpg|thumb|right|300px|गीतोपदेशः]] :'''तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।''' :'''प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥ १७ ॥''' ==पदच्छेदः== तेषां ज्ञानी नित्ययुक्तः एकभक्तिः विशिष्यते प्रियः हि ज्ञानिनः अत्यर्थम् अहं स च मम प्रियः ॥ १७ ॥ ==अन्वयः== तेषां नित्ययुक्तः एकभक्तिः ज्ञानी विशिष्यते । अहं हि ज्ञानिनः अत्यर्थं प्रियः । सः च मम प्रियः । ==पदार्थः== :तेषाम् = तेषु :नित्ययुक्तः = सततयोगी :एकभक्तिः = अनन्यभक्तिः :ज्ञानी = ज्ञानवान् :विशिष्यते = अतिरिच्यते :अहं हि = अहम् :ज्ञानिनः = ज्ञानवतः :अत्यर्थम् = अतिशयेन :प्रियः = अभीष्टः :सः च = सः अपि :मम = मे :प्रियः = अभीष्टः । ==तात्पर्यम्== तेषां सततयोगी अनन्यभक्तिः ज्ञानी विशिष्यते । अहं ज्ञानवतः अतीव प्रियः । सोऽपि मम अतीव प्रियः । ==बाह्यसम्पर्कतन्तुः== {{Interwiki conflict}} [[वर्गः:अनपेक्षितानि-भगवद्गीता]] [[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]] [[वर्गः:सर्वे अपूर्णलेखाः]] [[eo:Bhagavadgitao]] [[es:Bhagavad-gītā]] [[tr:Bhagavadgita]]⏎ ⏎ [[वर्गः:सारमञ्जूषा योजनीया]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sa.wikipedia.org/w/index.php?diff=prev&oldid=366401.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|