Difference between revisions 30085 and 37411 on sawikisource<poem> ।। अथ प्रथमोऽध्यायः ।। 1 . सर्वलोकेश्वरो विष्णुः सृष्ट्याद्यष्टकृदीश्वरः । यथा ससर्ज निखिळं तन्मे ब्रूहि जगद्गुरो ।। '''।। श्रीहंस उवाच ।।''' 2. नारायणोऽनन्तशक्तिः पूर्णानन्दोऽक्षरः स्वराट् । ज्ञनानन्दात्मकानन्ततनुरासीदिति श्रुतिः ।। 3. तस्य स्वतन्त्रस्य हरेः साकल्येन महात्मनः । स्वरूपं नैव जानन्ति रमाब्रह्मादयोपि तु ।। 4. तथापि ते प्रवक्ष्यामि यथा जानासि तत्वतः । पूर्णकामस्य तस्यास्य सृष्ट्याद्यैर्न प्रयोजनम् ।। 5. स्वभावस्तादृशस्तस्य तदर्थं तत्करोत्यजः । स एव भगवानात्मा चराचरनियामकः ।। 6. अण्डमावरणान् सर्वान् प्राकृतान् पुरुषोत्तमः । सङ्कर्षणो नृसिंहेन रूपेणाग्रसदीश्वरः ।। 7. ततः सर्वान् पूर्वकल्पमुक्तान् बद्धांश्च चेतनान् । स्वोदरे स्थाप्य भगवान् स्वप्रकाशोऽस्वपत्सुखी ।। 8. दशावरणसंयुक्तब्रम्हाण्डस्य स्तिथौ मितिः । यावत्प्रदेशस्तत्तुल्यरूपा श्रीरुदरूपिणी ।। 9. तावद्रूपवती भूमिः वटपत्राभवत्पुरा । दुर्गा तावत्परिमिता अन्धकारस्वरूपिणी ।। 10. तदा रमाविना कश्चिन्नान्यदासीद्बहिस्थळे । शून्यनाम्नः शिशोर्गर्भे सर्वे जीवास्तदावसन् ।। 11. तदूर्ध्वकुक्षिगा मुक्ताः प्रभवन्ति महालये । मुक्तियोग्या मध्यकुक्षौ नित्यबद्धास्तु नभितः ।। 12. अधोसुराः कटितटे प्राप्तदुःखास्तदूर्ध्वगाः । वसन्ति क्लृप्तानन्दस्ते मुक्ता भुञ्जन्ति नेतराः ।। 13. प्राप्तव्यान् प्रळयेनैव तेषां दास्यति माधवः । हित्वा प्राप्तव्यमानन्दं क्लृप्तानन्दैकभोजिनाम् ।। 14. वैकुण्ठादि विहारञ्च हित्वा गर्भस्थितिर्हरेः । प्रळये सर्वमुक्तानां नाश इत्युच्यतेब्जज ।। 15. सुखदुःखादि भोगार्हाः इच्छाज्ञानस्वरूपिणः । द्वेषधर्माधर्मयत्ननिरता जीवराशयः ।। 16. लिङ्गबद्धाः समस्ताश्च सृष्टौ जीवाश्चरन्ति हि । साम्यावस्थामुपगताः लिङ्गदेह समन्विताः ।। 17. लये वसन्तीशगर्भे पूर्वशक्तिस्तदानहि । तदासर्वे गाढनिद्रामुपगच्छन्ति तादृशाः ।। 18. लय इत्युच्यते सद्भिः न लयोस्ति स्वरूपतः । सर्वजीवस्वरूपस्थाः ज्ञानव्यञनशक्तयः ।। 19. मनोवृत्तिज्ञानदानशक्तिर्याश्रुतेर्मता । लयेजीवाद्यभावेन सा शक्तिः कुण्ठिता भवेत् ।। 20. व्याप्तेश्वरमतिस्थानां श्रुतीनां तादृशो लयः । अण्डादिजडजीवानां व्योमाव्याकृतसंज्ञकम् ।। 21. आश्रयं सृष्टिकालेतत्प्रलये कुण्ठितं भवेत् । देशस्याव्याकृतस्यास्य नाश इत्युच्यते लये ।। 22. समस्त लिङ्गदेहानां तत्तत्कर्मानुसारतः । नानायोनि प्रापिकास्ति शक्तिः सृष्टौ लये न तु ।। 23. सुखदुःखप्रदाशक्तिः समस्तकृतकर्मणाम् । सृष्टौ लये न सा विष्णोराज्ञया कुण्ठिता भवेत् ।। 24. तादृशो हि लयस्तस्य न स्वरूपलयस्मृतः । वर्णेषु सर्वभाषाभिव्यञ्जका शक्तिरिष्यते ।। 25. सृष्टौ न सास्ति प्रळये तेषां नाशो हि तादृशः । तमः स्थानां पूर्वक्लृप्तदुःखभोगो लयः स्मृतः ।। 26. प्रकृत्यात्मकलिङ्गस्य जडायाः प्रकृतेस्तथा । सूक्ष्माणां स्थूलकत्वानां त्रिगुणस्यापि कृत्स्नशः ।। 27. स्रष्टृत्वशक्तिः सृष्टौ हि न लये स्यत्ततो लयः । हित्वा जगत्सर्जनाद्यं सर्वदा श्रीपतौ रतिः । 28. अतिसामीप्यसेवा हि लयो लक्ष्म्याः प्रकीर्तितः । अनित्यस्याचेतनस्य अण्डान्तर्बहिरेव वा ।। 29. क्रमात्सङ्कर्षणाग्नेस्तु दाहो नाश उदहृतः । देशतः कालतो व्याप्ता वर्णासर्वेपि शाश्वताः ।। 30. जडा च प्रकृतिर्नित्या जडरूपाणुरेव च । देशतः कालतो व्याप्ताऽचिद्रूपाः श्रीहरेःस्सदा ।। 31. अनन्तगुणतो नीचा गुणतोऽनन्त ईश्वरे । लये समाश्रितास्सर्वे वसन्ति क्षीणशक्तयः ।। 32. सम्पूर्णशक्ते भगवत्यनन्ते देशकालतः । परमाणुमितानन्तानन्तरूपः सदा हरिः ।। 33. तदभिन्नानन्तसूक्ष्मस्थूलरूपो हरिः परः । समस्तजीवरूपोरुसूक्ष्मस्थूलस्वरूपकः ।। 34. समस्तजडरूपानन्तानन्तरूपो जगद्गुरुः । अनन्तानन्तरपैरप्यभिन्नो निर्गुणो हरिः ।। 35. सर्वतः पाणिपादात्मा सर्वतोऽक्षिशिरोमुखः । सर्वत्र सर्वेन्द्रियावान् सर्वमावृत्य तिष्ठति ।। 36. अप्राकृतेन्द्रियानन्तरूपकः परमाद्भुतः । असङ्गः सर्वविच्चैव निर्गुणो गुणपूरितः ।। 37. बहिरन्तश्च भूतानाम् अचरश्चर एव च । अव्यक्तोव्यक्तरूपश्च साधुस्सत्साक्षिगोचरः ।। 38. एकोप्यनेकवद्भाति नित्यसत्यो महासुखः । अनन्तवेदगम्यश्च सृष्ट्याद्यष्टकृदीश्वरः ।। 39. स्वतन्त्रोवर्णनीयोरुरुपानन्तस्तु चित्तनुः । स्वानन्तानन्तचिन्मात्रदेहमध्यैकदेशगः ।। 40. योगनिद्रामुपगतो विनिद्रोऽस्वपदीश्वरः । अण्डस्यावरणस्योपचयं दग्ध्वा लये हरिः ।। 41. उपादानं प्रकृत्यैकीभूतं कृत्वा नृकेसरी । अनिरुद्धादि मुखगं सङ्कर्षण नृसिंहतः ।। 42. सर्वसूक्ष्मशरीरोपचयं दग्ध्वाखिलेश्वरः । तदुपादानभूतानि लिङ्गैरेकीकरोत्यजः ।। 43. तदास्तरणरूपाभूः श्रीर्भार्यारूपिणी परा । दुर्गा प्रावरणाकारा हरेरमिततेजसः ।। 44. स्वानेव सुगुणान् भुञ्जन् असुप्ताभूत्सुसुप्तवत् । मुक्ताभुक्तोदरो विष्णुः अनन्तानन्तभानुरुक् ।। 45. स्वप्रकाशोस्वपद्योगनिद्रयावटपत्रगः । सृष्टिकाले सर्वजीवाः नानादुःखसमाकुलाः ।। 46. भ्रमन्ति सर्वजीवानां तत्तच्छ्रमनिवृत्तये । लये स्वापं प्रापयति लिङ्गबद्धान् स्वदेहगान् ।। 47. अनादियोग्ताकर्मभावाज्ञानाकुलान् बहून् । सृज्यान् विलक्षणान् तारतम्यस्थान् त्रिविधात्मकान् ।। 48. स्वल्पनिद्रान् महानिद्रान् गढनिद्रासमन्वितान् । चिन्मात्रानन्दभुङमुक्तान् सदा दुःखभुजोऽसुरान् ।। 49. तमःसंस्थान् सदा बद्धान् जठरे स्थाप्य केशवः । वटपत्रे स्वपद्देवो निद्रामाचरतीव सः ।। 50. तेषु सृज्यान् स्वयं सृष्ट्वा यथायोग्यफलं विभुः । सुखं मिश्रं तथा दुःखं दातुमैच्छल्लयान्तिमे ।। 51. लयास्यष्टमो भागो लयान्तिम उदाहृतः । लये समालिङ्य हरिं विनिद्रा परमेश्वरी ।। 52. निद्रिते वा सदानन्दवारिधिं समुपाश्रिता । लयष्टमांशे श्रीदेवी अस्वतन्त्रा स्वतन्त्रतः ।। 53. प्रबुद्धाचाज्ञया विष्णोः स्तोतुं समुपचक्रमे । देशतः कालतोऽनन्ता गुणानन्त्यविवर्जिता ।। 54. ब्रह्मवाय्वोः कोटिगुणैः अधिका विष्णुवल्लभा । लये सृष्टौ सर्वनित्यपदार्थेष्वभिमानिनी ।। 55. सृष्ट्याद्यष्टकरी विष्णोः आज्ञयानन्तरूपिणी । छायेव सूक्ष्मस्थूलोरु रूपं विष्णुं समाश्रिता ।। 56. विष्णोरनन्तवेदेषु प्रोक्तान्तदधिकानपि । गुणान्संजानती साक्षात्सर्ववेदाभिमानिनी ।। 57. अवर्णणीयसौन्दर्या सर्वजीवाभिमानिनी । शुभ्रेषु मुक्तियोग्येषु शुभ्रा (मुक्ता) श्रीरभिमानिनी ।। 58. रक्तेषु सर्वबद्धेषु रक्ताभूरभिमानिनी । नीलेष्वयोग्यजीवेषु नीला दुर्गाभिमानिनी ।। 59. प्रकृति प्रकृतौ साम्यवैषम्यादि प्रवर्तका । अछिन्ना भगवद्भक्ता जडेषु जडरूपिणी ।। 60. चित्सुचिद्रूपिणी स्त्रीषु स्त्रीचेष्टादि प्रवर्तका । पुरुषाकृतिरुत्कृष्टा पुंभावपरिवर्जिता ।। 61. अव्यक्ततत्कार्यमय देहशून्या तथाविधा । स्वयं श्रीः विष्णुभावज्ञा वेदैस्तुष्टाव वेदवित् ।। 62. ते वेदाः ऋग्यजुस्सामाथर्वणाः श्रीहरेर्वशाः । चत्वारोपि पृथग्जात्या अनन्ता दोषवर्जिताः ।। 63. उदात्तादि स्वरार्थादि वर्णक्रमसमागमाः । विसर्गबिन्दुपूर्वोरुशब्दयोग्यगुणोच्चयैः ।। 64. अनन्तकालमरभ्य ईषद्वेत्यासवर्जिताः । सांशा समस्तदेशेषु व्याप्ताः शुद्धजडाः सदा ।। 65. गुणाख्यानपरा विष्णोः शब्ददोषविवर्जिताः । ज्ञतज्ञापकता तेषु विपरीतार्थवक्तृता ।। 66. अस्पष्टत्वादयस्तेषु वाददोषानसन्त्यलम् । ध्वनिरूपा सृष्टिकाले वाक्स्था वाग्देवतावशाः ।। 67. लये लक्ष्मीवशाः सृष्टौ ब्रह्माद्यैरभिमानिभिः । रक्षिताः प्रळये सृष्टावेकरूपा भवन्ति हि ।। 68. अनन्तानन्तसंख्याताः विष्णोः ज्ञाने च साधकाः । सर्वदेशगतानन्ता कण्ठस्थास्तस्य शार्ङ्गिणः ।। 69. कण्ठेनोद्गीयमनास्ते जीवानां योग्यतावशात् । तत्तत्स्वरूपविज्ञानव्यञ्जकाः श्रीहरीच्छया ।। 70. वृत्तिज्ञानोत्पादशौण्डाः अ(योग्या)थाज्ञानाममबोधकाः । शब्दरूपास्साक्षियुक्तमनः श्रोत्रैकगोचराः ।। 71. सर्वशब्दात्मकहरेः बिम्बस्य प्रतिबिम्बकाः । शब्दरूपा वेदगता दुर्गा सानन्तरूपिणी ।। 72. पुरुषोद्बोधितुं ज्ञात्वा तुष्टाव पुरुषं परम् । अनन्तात्मानन्तशक्तिः ओं(आ)कारादि श्रुतिव्रजान् ।। 73. नित्यान् सव्यञ्जयन् तेषां सृष्टौ दुर्गामुपादिशत् । प्रळयस्याष्टमे भागे वेदस्रष्टुर्जगत्पतेः ।। 74. ओं(अ)कारः प्रथमो व्यक्तो बभूव भगवन्मयः । अउमानादबिन्दू च घोषशान्तातिशान्तकाः ।। 75. यत्स्वरूपाश्च विश्वाद्याः यद्वाच्या यद्गताः पराः । ओंकारवाच्यः पुरुषः पुत्रास्ते नित्यचिन्मयाः ।। 76. ते विश्वतैजसप्राज्ञतुर्यात्मान्तरात्मनाम् । परमात्मज्ञानात्मकानां रूपाणां वाचका हरेः ।। 77. तारप्रणवशब्दाभ्यां वाच्य ओंकार ईरितः । नारायणाष्टाक्षराख्यः तरगर्भाक्षरैरभूत् ।। 78. अभिव्यक्तोथ विश्वादिर्व्यक्तविश्वादयोखिलाः । नारायणमनोर्वाच्याः देवताः परिकीर्तिताः ।। 79. तारगर्भाक्षरैराद्यैश्चतुर्भिरभवन्मनुः । व्याहृत्याख्योऽनिरुद्धाद्याः विश्वाद्युत्था तदीरिताः ।। 80. तारगर्भाक्षरैर्व्यक्ताः वर्णाः प़ञ्चाशदीरिताः । अकौचटौतपौ तद्वद्यशौ अष्टा उदाहृताः ।। 81. अष्टवर्णाः अकारोत्थाः अचः षोडशसम्मताः । प़ञ्चवर्णाः कवर्गस्य उकारोत्थाः प्रकीर्तिताः ।। 82. मकारोत्थाश्चवर्गस्य पञ्चवर्णाः प्रकीर्तिताः । टवर्गपञ्चवर्णास्तु नादोत्था इति सम्मताः ।। 83. पञ्चवर्णास्तवर्गस्य बिन्दुव्यक्ता उदाहृताः । पवर्गपञ्चवर्णास्तु घोषतः सम्भवन्ति हि ।। 84. यवर्गस्य चतुर्वर्णाः व्यक्तिं यास्यन्ति शान्तितः । अतिशान्ताच्छवर्गस्य पञ्चवर्णास्समुत्थिताः ।। 85. कषयोगादभिव्यक्तः क्षोप्यन्योक्षर उच्यते । पञ्चाशतान्तुवर्णानां तारवर्णाष्ट दैवतैः ।। 86. विश्वादिभिः क्रमाद्व्यक्ताः अजाद्या देवतामताः । अज आनन्द इन्द्रेश उग्र ऊर्ज ऋतम्भरः ।। 87. ॠघलृशौ लॄजिरेकात्मैर ओजोभृदौरसः । अन्तोर्धगर्भः कपिलः खपतिर्गरुडासनः ।। 88. घर्मोङसारश्चार्वङ्गश्छन्दोगम्यो जनार्दनः । झडितारिञमष्टंकी ठलको डरको ढरी ।। 89. णात्मातारस्थपोदण्डी धन्वी नम्यः परः फली । बलिर्भगोमनुर्यज्ञो रामो लक्षीपतिर्वरः ।। 90. शान्तसंवित् षड्गुणश्च सारात्मा हंसळालुकौ । अकाराद्यैस्सर्ववर्णैर्वाच्या एते प्रकीर्तिताः ।। 91. क्षवाच्यो नृसिंहस्तु सर्वजीवनियामकः । एकपञ्चाशद्वर्णात्मा मतृकामन्त्र ईरितः ।। 92. नारायणाष्टवर्णाश्च चतुर्व्याहृतिभिः क्रमात् । वासुदेवद्वादशार्णमन्त्रोभून्महदात्मकः ।। 93. केशवाद्याः द्वादशैव तन्मन्त्राक्षर देवताः । त्रिवारं विष्णुनैवोक्तान् मन्त्रान् नारायणादभूत् ।। 94. गयत्री ब्रह्मऋषिका द्विगुणाद्वादशाक्षरात् । केशवाद्याश्चतुर्विंशत् गायत्रीवर्णदेवताः ।। 95. गायत्र्याः पौरुषं सूक्तं सूक्तान्मन्त्रास्तु वैष्णवाः । पुंसूक्तप्रतिपाद्यस्तु पुरुषो हरिरीरितः ।। 96. विष्णुमन्त्रोदितो विष्णुः सर्वात्मा परिकीर्तितः । प्रणवोष्टौ व्याहृतयो मात्रृकाद्वादशाक्षरौ ।। 97. गायत्री ब्रह्मऋषिका पुंसूक्तं वैष्णवं तथा । अष्टावेते महामन्त्राः वैदिकास्सर्वसिद्धिदाः ।। 98. पुंसूक्तात्सर्ववेदानां व्यक्तिरासीदिति श्रुतिः । दुर्गयानन्तरूपिण्याऽनन्त वेदोदितो हरिः ।। 99. तयार्थितोऽखिलाध्यक्षः स्वात्मासृष्टिमचीक्लृपत् ।। </peom> ।। इति श्री परतत्तवनिर्णये प्रकाशसंहितायां प्रथमपरिच्छेदे प्रथमोऽध्यायः ।।⏎ ⏎ [[वर्गः:प्रथमपरिच्छेदः]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sa.wikisource.org/w/index.php?diff=prev&oldid=37411.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|