Difference between revisions 37401 and 41188 on sawikisource{{header | title = [[../../]] | author = | translator = | section = चतुर्थोध्यायः | previous = | next = | notes = }} <poem> ।। अथ चतुर्थोऽध्यायः ।। ।। श्रीहंस उवाच ।। 1. सूक्ष्मं सर्वजगद्बीजं मितं त्रातं च विष्णुना । प्रधानमव्यक्तमिति यद्वदन्ति मनीषिणः ।। 2. महामायेत्यविद्येति प्रकृतिर्मोहिनीति च । त्रिगुणात्मकमव्यक्तं त्रिरूपं तत्त्रिशक्तिमत् ।। 3. अविद्याकामकर्मादि बीजमित्यपि तां विदुः । रक्षितं प्रळये सृष्टा(वेवा)वण्वनन्तस्वरूपवान् ।। 4. अनादिकर्मग्रन्थीति बन्धोबन्धकमित्यपि । अजामनन्यवशगां कळाषोडशसंयुताम् ।। 5. तीव्रदुःखात्मकां नानायोनिप्रापकमीरितम् । नारिकेळसमाकारं परिच्छेदत्रयात्मकम् ।। 6. मूर्ध्निच्छिद्रयुतं दिव्यं रत्नवद्भास्वरं सदा । विष्णुना रमयाच्छन्नाच्छिद्रगर्भावकाशवत्।। 7. सृष्टौ लये रमा तस्य मानिनी च निरन्तरम् । सृष्टावेव ब्रह्मवायू सभार्यावभिमानिनौ ।। 8. रजस्सत्त्वतमस्संज्ञभागत्रयसमन्वितम् । सत्वभागः शुक्लवर्णः रक्तवर्णस्तु राजसः ।। 9. नीलवर्णस्तमोभाग इति भागत्रयात्मकः । ज्ञानकर्मेन्द्रियकळाः रजोभागे व्यवस्थिताः ।। 10. तमोभागगताः प़ञ्चतन्मात्रासंज्ञिताः कळाः । मनः कळा सत्वभागगता सर्वप्रधानिका ।। 11. मनोबुद्धिरहंकारश्चित्तं चेति चतुर्विधम् । कामक्रोधमहालोभमदमात्सर्यमोहकाः ।। 12. द्वेषाहंकारममकारेर्ष्यसूयाभयादयः । मनोदोषास्तद्विहीनं मनोज्ञानाय साधनम् ।। 13. मनश्चतुर्विधं नित्यं जडप्रकृतिगं मतम् । तज्जन्यमप्यनित्यं स्यात्तत्र चित्तं न दोषयुक् ।। 14. मनः स्वर्णाद्यनेकार्थमपेक्षां जनयिष्यति । बुद्धिर्निषिद्धभोग्च्छां सदासंकल्पयिष्यति ।। 15. अहङ्कारः पुमर्थानां घातकः स्सोत्तमैः सह । स्पर्धां विष्णुसुरद्वेषं कल्पयत्यपि सर्वशः ।। 16. चित्तं सत्साधनगतं करोति पुरुषं सदा । सत्साधनमहङ्कारकलितं पापमेवहि ।। 17. अहङ्कारविहीनं तच्चित्तं विज्ञानसाधनम् । रचिते भारते वर्षे यथा मानुषसत्तनुम् ।। 18. लब्ध्वा गुरुकुलावासं कृत्वानेकसुजन्मभिः । कृत्वात्मयोग्यसत्कर्म लब्धसद्गुरुसेवया ।। 19. प्रसन्नैरुपदिष्टोरु सच्छास्त्रश्रवणादिभिः । वृत्तिज्ञानप्रदं तच्च वृत्तिभक्त्यादि साधकम् ।। 20. ताभ्यां स्वारूपिकज्ञानभक्तिर्व्यक्तिर्भविष्यति । स्वारूपिकं मनो नित्यं ततः स्वारूपिकी मतिः ।। 21. व्यक्ता भवति नित्या सा भक्तिः स्वारूपिकी तथा । सैवानन्दस्वरूपेण नित्या मुक्तेषु तिष्ठति ।। 22. इन्द्रियाणां गोळकानि दृश्यान्याहुः समग्रशः । अतीन्द्रियाणीन्द्रियाणि ज्ञानकर्ममयानि च ।। 23. श्रोत्रत्वङ्नेत्ररसनघ्राणाद्या ज्ञानशक्तयः । वाक्पाणिपादपायूपस्थाः सर्वे कर्मशक्तयः ।। 24. श्रोत्रं शब्दग्राहिशब्दो द्विविधः परिकीर्तितः । शब्दो ध्वन्यात्मको वर्णात्मकश्चेति तदादिमः ।। 25. अहङ्कारात्समुद्भूतः आकाशोत्पत्तिकारणः । ध्वन्यात्मकस्तु शब्दस्तु प्रथमः परिकीर्तितः ।। 26. ज्ञानकर्मेन्द्रियमनोमात्राः सूक्ष्माह्यनादयः । नित्याश्च प्रळये सृष्टावनित्यास्ते प्रकीर्तिताः ।। 27. वर्णात्मकस्तु यश्शब्दो नित्यः सर्वगतो विभुः । द्रव्यमित्येव सर्वेषां न गुणः कस्यचिन्मते ।। 28. वेदाः पदाद्वर्णतश्च शब्दतः स्वरतस्तथा । अनादिनित्यास्ते सर्वेप्यपौरुषेयगुणोत्कराः ।। 29. विष्णोर्माहात्म्यविज्ञप्तौ सत्प्रमेये च साधकाः । शास्त्राणिच पुराणानि पौरुषेयाणि कृत्स्नशः ।। 30. यथार्थानि प्रणीतानि हरिणाथ सुरर्षिभिः । नित्यान्येवार्थतो वर्णक्रमयोगादनित्यकाः ।। 31. सात्विकानि पुराणानि मन्वादि स्मृतयस्तथा । यथार्थ एव तत्रोक्तं ग्राह्यं श्रीहरितत्परैः ।। 32. वाराहं वैष्णवं पाद्मं वायुप्रोक्तं च गारुडम् । श्रीमद्भागवतं चैव सात्विकानीति हि श्रुतिः ।। 33. ब्रह्माण्डं ब्रह्मवैवर्तं मार्कण्डेयं च वामनम् । भविष्यं नारसिंहं च राजसानि षडैव हि ।। 34. मात्स्यं कौर्म्यं तथा लैङ्ग्यं शैवं स्कान्दं तथैव च । पाशुपतसंज्ञिकं चेति तामसानि विदो विदुः ।। 35. ग्राह्यं सर्वं सात्विकोक्तं योजना भेदतोथवा । वेदवेदानुसारेषु विरोधेऽन्यार्थकल्पना ।। 36. इतराणि विरुद्धानि प्रलम्भभ्रमजान्यपि । व्यासोक्तानि पुराणानि सात्विकान्यपि कृत्स्नशः ।। 37. क्वचित् क्वचित् पुराणानि प्रायोज्ञानकराण्यपि । आसुरावेशवशतः तदन्योक्तान्यनन्तशः ।। 38. श्रोत्राग्राह्याणि सन्त्येव अप्रमाणानि तान्यलम् । परशुक्लत्रयोक्तानि नित्यं विष्ण्वाज्ञयैव तु ।। 39. अतिप्रमाणानि दैत्यावेशाज्ञानादि वर्जनात् । बधिरत्वादयः श्रोत्रृदोषास्तद्वर्जितेन्द्रियैः(याः) ।। 40. एतानि विषयाण्याहुः श्रोतव्यानि सहस्रशः । शब्ददोषविहीनानि ग्राह्याणि मनसा सह ।। 41. तत्रोक्तानन्तसुगुणं निर्दोषं ज्ञेयमीश्वरम् । गम्यं सत्यं च सुखचिन्मयं विष्णुं सनातनम् ।। 42. आत्मेश्वरं हरिं भक्त्योपा(स्त्या)स्यमुक्ता भवन्ति हि । कुशास्त्रेषूक्तदुर्मार्गे हेयता बुद्धिसंयुतम् ।। </poem> ।। इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे चतुर्थोऽध्यायः ।।⏎ ⏎ [[वर्गः:पाञ्चरात्रागमः प्रथमपरिच्छेदः]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sa.wikisource.org/w/index.php?diff=prev&oldid=41188.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|